________________ विउव्वणा 1114 - अभिधानराजेन्द्रः - भाग 6 विउव्वणा अवसेयाः, विभूषापक्षे तु निष्ठीवनादयोऽभ्यन्तरपुद्गला इति / तृतीयं तु बाह्याभ्यन्तरपुद्गलयोगेन वाच्यमिति / तथाहि-उभयेषामुपादानाद्भवधारणीयनिष्पादनं तदनन्तरं तस्यैव केशादिरचनञ्च, अनादानाच्चिरविकुर्वितस्यैव मुखादिविकारकरणम्, उभयतस्तु बाह्याभ्यन्तराणामनभिमतानामादानतोऽन्येषाञ्चानादानतोऽनिष्टरूपभवधारणीयेतररचनमिति। स्था०३ ठा०१ उ० नैरयिकविकुर्वणामाहनेरइयाणं भंते ! किं एगत्तं पभू विउव्वित्तए, पुहत्तं पभू विउवित्तए? जहा जीवाभिगमे आलावगो तहा नेयव्वो० जाव दुरहियासं। (सू०-२०६) एगतं' ति एकत्वं प्रहरणानाम् 'पुहत्तं' ति, पृथक्त्वम् बहुत्वं प्रहरणानामेव, जहा 'जीवाभिगमे' इत्यादि। आलापकश्चैवम्-'गोयमा ! एगत्तं पि पभू विउव्वित्तए, पुहुत्तं, पि पहू विउवित्तए। एगत्तं विउव्वमाणे एग महं मोग्गररूवं वा भुसुढिरूवं वा" इत्यादि / 'पुहुत्तं विउव्वमाणे मोग्गररुवाणि वे' त्यादि। "ताइंसंखेज्जाइंनो असंखेज्जाई। एवं संबद्धाई 2 सरीराइं विउव्यंति, विउव्वित्ता अण्णमण्णस्स कार्य अभिहणमाणार वेयणं उदीरेंति विउलं उज्जलं पगाढं कक्कसं कड्डय फरुसं निटुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं" ति। तत्रोज्ज्वलांविपक्षलेशेनाप्यकलडितां विपुलां-शरीरव्या-पिकां प्रगाढांप्रकर्षवती कर्कशां कर्कशद्रव्योपमामनिष्टामित्यर्थः, एवं कटुकां परुषां निष्ठुरां चेति, चण्डां रौद्रां तीव्रां झगिति शरीर-व्यापिका दुःखामसुखरूपांदुर्गा-दुःखाश्रयणीयाम; अत एव दुरधिसह्यामिति। भ०५ श०६ उ०। संप्रति वैक्रियशक्तिं विचिचिन्तयिषुरिदमाहइमीसे णं मंते ! रयणप्पभाए पुढवीए नेरतिया किं एकत्तं पभू विउवित्तए पुहुत्तं पिपभू विउव्वित्तए ? गोयमा ! एकत्तं पिपभू पुहुत्तं पि पभू विउव्वित्तए। एगत्तं विउव्वेमाणा एगं महं मोग्गररूवं वा एवं मुसुंढिकरवत्तअसिसत्तिहलगदामुसलचक्कणारायकुंततोमरसूललउडभिंडमाला य०जाव मिंडमालरूवं वापुहुत्तं पि विउव्वेमाणा मोग्गररूवाणि वा० जाव भिंडमालरूवाणि वा, ताईसंखेज्जाईनो असंखेज्जाइं संबद्धाइंनो असंबद्धाइं सरिसाई नो असरिसाइं विउव्वंति, विउटिवत्ता अण्णमण्णस्स कार्य अमिहणमाणा अभिहणमाणा वेदणं उदीरेंति, उज्जलं विउलं पगाढं ककसं कडुयं फरसं निठुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं एवंजाव धूमप्पमाए पुढवीएछट्ठसत्तमासुणं पुढवीसु नेरइया बहू मा हंताई लोहियकुंथूरूवाइं वयरामयतुं-डाई गोमयकीडसमाणाई विउंव्वंति, गोमयकीडसमाणाई विउव्वित्ता अन्नमन्नस्स कायं समतुरंगेमाणा 2 खायमाणा 2 सयपोरागकिमिया विवचालेमाणा 2 अंतो 2 अणुप्पविस्समाणा 2 वेयणं उदीरंति उज्जलंजावदुरहियासं (सू०-८६x) 'रयणप्पभे' त्यादि रत्नप्रभापृथिवीनैरयिका भदन्त ! प्रत्येकं किम् एकत्वम् एकं रूपं विकुर्वितुं प्रभवः, उतपृथक्त्वं पृथक्त्वशब्दो बहुवाची / आह च-कर्मप्रकृतिसंग्रहणिचूर्णिकारोऽपि-"पुहत्तसद्दो बहुत्तवाई" इति प्रभूतानि रूपाणि विकुर्दितुं प्रभवः, 'विकुर्य' विक्रियायाम, इत्यागमप्रसिद्धोधातुरस्ति यस्य विकुर्वणा इति प्रयोगस्ततो विकुर्वितुमित्युक्तम् / भगवानाह--एकत्वमपि प्रभवो विकुर्वितुंपृथक्त्वमपि प्रभवो विकुर्वितुम, तत्रैकं रूपं विकुर्वतो मुद्ररूपं वा / मुद्गरः प्रतीतः, भुशुण्ढिरूपं वा भुशुण्ढिः -प्रहरणविशेषः, करपत्ररूपंवा असिरूपं शक्तिरूपं वा हलरूपं गदारूपंवा मुशलरूपंवा चक्ररूपंवा नाराचरूपं वा कुन्तरूपंवा तोमररूपं वा शूलरूपं वा लकुटरूपं वा भिण्डमालरूपं वा विकुर्वन्ति। करपत्रादयः प्रतीताः, भिण्डमालः शस्त्रजातिविशेषः, अत्र संग्रहणीगाथा क्वचित् पुस्तकेषु-"मुग्गरमुसुंदिकरकय-असिसत्तिहलं गया मुसलचक्का / नारायकुंततोमर-सूललउडभिंडमाला य॥१॥"गतार्था नवरं 'करकय' त्ति क्रकचं करपत्रमित्यर्थः, पृथक्त्वं विकुर्वन्तो मुद्ररूपाणि वा यावत् भिण्डमालरूपाणिवा तान्यपिसदृशानि (समानरूपाणि) नो असदृशानि (अ) समानरूपाणि तथा संख्येयानि-परिमितानि न असंख्येयानिसंख्यातीतानि विसदृशकरणे असंख्येयकरणे वा शक्त्यभावात्। तथा संबद्धानि स्वात्मनः शरीरसंलग्रानिनासंबद्धानिस्वशरीरात् पृथग्भूतानि, स्वशरीरात् पृथग्भूतकरणे शक्त्यभावात्, विकुर्वन्ति / विकुर्वित्या अन्योन्यस्य कायमभिघ्नन्तो वेदनामुदीरयन्ति। किं विशिष्टामित्याहउज्ज्वला दुःखरूपतया जाज्वल्यमानां सुखलेशेनाप्यकलङ्कितामिति भावः / विपुलां-सकलशरीरव्यापितया विस्तीर्णा प्रगाढां-प्रकर्षण मर्मप्रदेशव्यापितया अतीव समवगाढां कर्कशामिवकर्कशाम् / किमुक्त भवति?-यथा कर्कशः पाषाणसंघर्षः शरीरस्य खण्डानि त्रोटयति एवमात्मप्रदेशान् त्रोटयन्तीव या 'वेदनोपजायते सा कर्कशा तां, कटुकामिव कटुकां पित्तप्रकोपपरिकलितवपुषो रोहिणीकटुकद्रव्यमिवोपभुज्यमानमतिशयेनाप्रीतिजनिकामिति भावः। तथा परुषां मनसोऽतीव रौक्ष्यजनिकां निष्ठुरामशक्यप्रतीकारतया दुर्भेदां चण्डाम् रुद्रां रौद्राध्यवसाय-हेतुत्वात्। तीव्राम्-अतिशायिनी दुःखां--दुःखरूपांदुर्गा दुर्लघ्यामत एव च दुरघिसह्याम्।एवं पृथिव्यां पृथिव्यां तावद्वक्तत्वं यावत् पञ्चम्याम्, 'छट्टसत्तमीसुण' मित्यादि। षष्ठसप्तम्योः पुनः पृथिव्योभैरयिकाः बहूनि-महान्ति गोमयकीटप्रमाणत्वात् लोहितकुन्थुरूपाणिआरतकुथुरूपाणि वज्रमयतुण्डानिगोमयकीटसमानानिविकुर्वन्ति, विकुर्वित्वा अन्योन्यस्य परस्परस्य कार्यशरीरं समतुरङ्गा इवाचरन्तः समतुरङ्गायमाणा अश्वा इव अन्योन्यमारुहन्त इत्यर्थः / 'खायमाणा खायमाणा' भक्षयन्तो भक्षयन्तोऽन्तरन्तरनुप्रविशन्तोऽनुप्रविशन्तः 'सयपोरागकिमिया इव' शतपर्वकृमय इव इक्षुपर्वकृमय इव 'चालेमाणा 2 शरीरस्य मध्यभागेन सं