________________ मणपज्जवणाण 88 - अभिधानराजेन्द्रः - भाग 6 मणपज्जवणाण कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पन्नाए अंतरदीवगेसु सन्निपंचिंदियाणं अपज्जत्तयाणं मणोगए भावे जाणइ, पासइ, तं चेव विउलमई अड्डाइ जे हिमंगुलेहिं अब्भहियतरं विउतरं विसुद्धतरं वितिमिरतरागं खेत्तं जाणइ, पासइ, कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखिज्जइभागं उक्कोसेणंवि पलिओवास्स असंखिज्जइभागं अतीयमणागयं वा कालं जाणइ, पासइ, तं चेव विउलमई अब्भहियतरागं विउलतरांगं विसुद्धतरागं वितिमिरतरागं जाणइ, पासइ, भावओ णं उज्जुमई अणंते भावे जाणइ, पासइ, सव्वभावाणं अणंतभागं जाणइ, पासइ, तं चेव विउलमई अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ, पासइ-"मणपज्जवणाणं पुण, जणमणपरिचिंतिअत्थपागडणं / माणुसखित्तनिबद्धं, गुणपञ्चइयं चरित्तवओ / / 57 / / सेत्तं मणपज्जवनाणं / (सूत्र-१८) तत्र मन:पर्यायज्ञानमृद्धिप्राप्तानाम् अप्रमत्तसंयतानाम् उत्पद्यमानं द्विधा उत्पद्यते तद्यथा-ऋजुमतिश्च, विपुलमतिश्च, तत्र मनन मतिः, संवेदनमित्यर्थः / ऋज्वीसामान्यग्राहिणी मतिः ऋजुमतिः, घटोऽनेन चिन्तित इत्यादिसामान्याऽऽकाराध्यवसायनिबन्धनभूता कतिपयपर्यायविशिष्टमनोद्रव्यपरिच्छित्तिरित्यर्थः / उक्त च भाष्यकृता-''रिजुसामन्न सम्म तगाहिणी रिजुमई मणोणाणं / पायं विसेसविमुह, घटमित्तं चिंतियं मुगइ / / 1 / / " चूर्णिकृदप्याह-"उल्नु णं विसेसविमुहं उवलहई, नाईव बहुविसेसविसिट्ठ अत्थं उवलभइ ति भणिय होई घडोऽणेण चिंतिउति जाणइ ति / " चशब्दः स्वगतानेकद्रव्यक्षेत्राऽऽदिभेदसूचकः / तथा विपुलाविशेषग्राहिणी मतिर्विपुलमतिः,घटोऽनेन चिन्तितः, स च सौवर्णः घाटलिपुत्रकः अद्यतनो महान् अपवरकस्थितः फलपिहित इत्याद्यध्यवसायहेतुभूता प्रभूतविशिष्टमनोद्रव्यपरिच्छित्तिरित्यर्थः। आह च भाष्यकृत-"विपुलं वत्थुविसेसणनाणंतग्गाहिणी मई विपुला। चिंतियभणुसरइ घड, पसंगओ पजवसएहिं / / 1 / / '' चूर्णिकृदप्याह-"विपुला मई विपुलमई बहुविसेसगाहिणीति भणिय होइ, दिद्रुतो जहाऽणेण घडो चितिओ तं च देसकालाइअणेगपज्जायविसेसविसिटुं जाणइ।" इति। चशब्दः पूर्ववत्, अस्यां च व्युत्पत्तौ स्वतन्त्रमेव ज्ञानमभिधेयं, यद्वापुनस्तद्वानभिधेयो विवक्ष्यते तदैवं व्युत्पतिः-ऋज्वीसामान्यग्राहिणी मतिरस्य स ऋजुमतिः, तथा विपुला-विशेषग्राहिणी मतिरस्य स विपुलमतिः। तन्मनः पर्यायज्ञानं द्विविधमपि समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्त, तद्यथा-द्रव्यतः, क्षेत्रतः, कालतः, भावतश्च। तत्र द्रव्यतोणमिति / वाक्यालङ्कारे, ऋजुभतिरनन्तान् अनन्तप्रदेशिकान् अनन्तपरमाण्वात्मकान्कन्धान विशिष्टकपरिणामपरिणतान् अर्द्धतृतीयद्वीपसमुद्रान्तवर्त्तिपर्याप्तसज्ञिपञ्चेन्द्रियैर्मनस्त्वेन परिणामितान् पुद्गलान् पुद्गलसमूहानित्यर्थः, जानाति साक्षात्कारोगाऽगच्छति, 'पासइ त्ति' इह मनस्त्वपरिणतः स्कन्धेरालोचितं बाह्यमर्थ घटाऽऽदिलक्षणं साक्षादध्यक्षतो मनः पायज्ञानी न जानाति, किन्तुमनोद्रव्याणमेव तथारू-पपरिणामान्यथानुपपत्तितोऽनुमानतः, आह च भाष्यकृत् 'जाणइ वज्झेऽणुमाणेण।' इत्यं चैतदङ्गीकर्तव्यं यतो मूर्तद्रव्यालम्बनमेवेदं मनः पर्यायज्ञानभिष्यते / मन्तारस्वमूर्तमपि धर्मास्तिकायाऽऽदिक मन्यन्ते, ततोऽनुमानत एवं चिन्तितमर्थभवबुध्यन्ते, नान्यथेति प्रतिपत्तव्यम / ततस्तमधिकृत्य पश्यतीत्युच्यते, तत्र मनोनिमित्तस्याचक्षुर्दर्शनस्य साभवात्। आह च चूर्णिकृत्- "मुणित्थं पुण पञ्चक्खओ न पेक्खइ जेण मणो दयालब मुत्तममुत्तं वा सो य छउमत्थो तं अणुमाणंओ पेक्रवइ अतो पासणया भणिया'' इति / अथवा-सामान्यत एकरूपेऽपि ज्ञाने क्षयोपशमसः तत्तद्रव्याऽऽधपेक्षवेचित्र्यसम्भवात् अनेकविध उपयोगः सम्भवति यथः चैव ऋजुमतिविपुलमतिरूपः ततो विशिष्टतरमनोद्रव्याऽऽकारपरिच्छेदापेक्षयाजानातीत्युच्यते, सामान्यमनोरूपद्रव्याऽऽकारपरिच्छेदापेक्षया तु पश्यतीति / तथा चाऽऽह चूर्णिकृत्-"अहवा छउभत्थरस एगविहखओवसमलभे वि विविहोवओगसंभवो भवइ. जहा एत्थेव उजुमइविपुलमईणमुवओगो अओ विसेससामन्नत्थेसु उवजुजइ जाणइपासइ त्ति भणियं न दोसो" इति / अत्र 'एगविहखओवसमलंभे वित्ति' सामान्यत एकरूपेऽवि क्षयोपशमलम्भेऽपान्तराले द्रव्याऽऽद्यपेक्षया क्षयोपशमस्य विशेषसम्भवाद् विविधोपयोगसम्भवो भवतीति, तदेवं विशिष्टतरमनोद्रव्याऽऽकारपरिच्छेदापेक्षया सामान्यरूपमनोद्रव्याकारपरिच्छेदो व्यवहारतो दर्शनरूप उक्तः, परमार्थतः पुनः सोऽपिज्ञानमेव, यतः सामान्यरूपमपि मनोद्रव्याऽऽकारप्रतिनियतमेव पश्यति, प्रतिनियतविशेषग्रहणाऽऽत्मकं च ज्ञानं न दर्शनम्, अत एव सूत्रेऽपि दर्शन चतुर्विधमेवोक्तं, न पञ्चविधमपि, मनः पर्यायदर्शनस्य परमार्थतो सम्भवादिति / तथा तानेव मनस्त्वेन परिणामितान स्कन्धान विपु नमतिः अभ्यधिकतरान्- अर्द्धतृतीयाङ्गुलप्रमाणभूमिक्षेत्रवर्तिभिः स्कन्धेरधिकतरान, सा चाऽधिकतरता देशतोऽपि भवति, ततः सर्वासु दिक्षु अधिकतरताप्रतिपादनार्थमाहविपुलतरकान् प्रभूततरकान, तथा विशुद्धतरान, निर्मलतरान्, ऋजुमत्यपेक्षयाऽतीवस्फुटतरप्रकाशानित्यर्थः / स च स्फुटः प्रतिभासो भ्रान्तोऽपि सम्भवति, यथाद्विचन्द्रप्रतिभासस्ततो भ्रान्तताऽऽशङ्काव्युदासाय विशेषणान्तरमाहवितिमिरतरकान् विगतं तिमिरं तिमिरसंपाद्यो भ्रमो ये षु ते वितिमिरास्ततो द्वयोः / प्रकृष्ट तरप् / 7 / 3 / 5 / / इति तरप्प्रत्ययः / ततः प्रकृतलक्षणात्स्वार्थे कः प्रत्ययः. एवं पूर्वेष्वपि पदेषु यथायोगव्युत्पत्तिद्रष्टव्या, वितिमिरतरकान्- सर्वथा भ्रमरहितान्, अथवाअभ्यधिकतरकान् विपुलतरकानितिद्वावपिशब्दावेकार्थी, विशुद्धतरकान वितिमिरतरकानेतावप्येकार्थी, नानादेशजा हि विनेया भवन्ति, ततः कोऽपि कस्याऽपि प्रसिद्धो भवति तेषामनुग्रहार्थम् एकार्थिकपदोपन्यासः तथा क्षेत्रतो, णमिति वाक्यलङ्कारे, ऋजुमतिरधो यावदस्या रत्नप्रभायाः पृथिव्याः उपरितनाधस्तनान् क्षुल्लकप्रतरान्। अथ किमिदं क्षुल्लकप्रतर इति? उच्यते- इह लोकाऽऽकाशप्रदेशा उपरितनाधस्तनप्रदेशरहिलतया विवक्षिता मण्डकाऽऽकारतया व्यवस्थिताः प्रतरमित्युच्यन्ते, तत्र तिर्यग्लोकरय ऊद्भवधिोऽपेक्षयाऽष्टादशयोजनशतप्रमाणस्य मध्यभागे द्वौलघुक्षुल्लकप्रतरी, तयोर्मध्यभागेजम्बूद्वीपरत्नप्रभाया बहुसमे भूमिभागे मेला'ध्येऽष्टप्रादेशिको रुचकस्तत्र गोस्तनाऽऽकाराश्चत्वार उपरितन्नः प्रदेशाश्चत्वारश्चाधस्तनाः, एष एव च रुचकः सर्वासां दिशा विदिशा वा प्रवर्तकः,