________________ मणपज्जवणाण 57- अमिधानराजेन्द्रः - भाग 6 मणपज्जवणाण अंतरदीवेसु गब्भवक्कतियमणुस्साणं चेव उच्चारेसुवा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंते सु वा पित्तेसु वा सुक्के सु वा सोणिएसु वा सुक्कपागलपरिसाडेसु वा विगयकलेवरेसु वा थीपुरिससंजोएसु वा गामनिद्धमणेसु वा नगरनिद्धमणेसु वा सव्वेसु चेव असुइहाणेसु एत्थणं समुच्छिममणुस्सा संमुच्छति अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए असण्णी मिच्छादिट्ठी अण्णाणी सव्वाहिं पजत्तीहिं अपज्जत्तगा अंतोमुत्ताउआ चेव काल करें ति।" इति / तथा गर्भे व्युत्क्रान्तिरुत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, अथवा-गर्भाव्युत्क्रान्तिः-व्युत्क्रमणं निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः, उभयत्रापि गर्भजा इत्यर्थः / भगवानाह-न संमूछिममनुष्याणामुत्पद्यते, तेषां विशिष्टचारित्रप्रतिपत्त्यसम्भवात, कि तु-गर्भव्युत्कान्तिकमनुष्याणाम, एवं सर्वेषामपि प्रश्ननिर्वचनसूत्राणां भावार्थो भावनीयः, नवर कृषिवाणिज्यतपः संयमानुष्ठानाऽऽदिकर्मप्रधाना भूमयः कर्मभूमयो भरतपञ्चकैरवतपञ्चक महाविदेहपञ्चकलक्षणः पञ्चदश तासु जाताः कर्मभूमिजाः, कृष्यादिकमरहिताः कल्पपादपफलोपभोगप्रधानाः भूमयो हैमवतपञ्चकहरिवर्षपञ्चकदेवकुरुपञ्चकोत्तरकुरुपञ्चकरम्यकपञ्चकरण्यवतपञ्चकरूपास्त्रिंशदकर्मभूमयः त'सु जाता अकर्मभूमिजाः, तथा अन्तरेलवणसमुद्रस्य मध्ये द्वीपाः अन्तरद्वीपाः एकोरुकाऽऽदयः षट्पञ्चाशत् तेषु जाता अन्तरद्वीपजाः (न०) ( अथ लवणसमुद्रस्य मध्ये षट्पञ्चाशदनन्तरद्वीपा वर्त्तन्ते किं प्रमाणावा ते किं स्वरूपा वा इति 'अंतरदीव' शब्दे प्रथमभागे 86 पृष्ठ गतम्) 'संखेजवासाउय त्ति' सङ्ख्येयवर्षायुषः पूर्वकोट्यादिजीविनः असख्येयवर्षायुषः-पल्योपमादिजीविनः 'तथा' पजत्तग त्ति' पर्याप्ति:-आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, सच पुद्गलोपचयात,किमुक्तं भवति ? उत्पत्तिदेशमागतेन येन गृहीता आहारादिपुद्गलास्तेषां तथा अन्येषां च प्रतिसमयं गृह्यमाणानां तत्सम्पर्कतः तद्रूपतया जातानामुपाटाभेन यः शक्तिविशेषो जीवस्याऽऽहाराऽऽदिपुगलानां खलरसादिरूपतया परिणमनहेतुर्ययोदरान्तर्गतानां पुद्गलविशेषाणामवष्टाभेनाऽऽहारपुद्गलखलर-सरूपता पादनहेतुः शक्तिविशेषः सा पर्याप्तिः, पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताः 'अम्रादिभ्यः' // 7 / 2 / 46|| इति मत्वर्थायोऽप्रत्ययः / ये पुनः स्वयोग्यपर्याप्तिपरिसमाप्तिविकलाः ते अपर्याप्ताः, ते च द्विविधा-लब्ध्या, करणैश्च, तत्र येऽपर्याप्तका एव सन्तो नियन्ते न पुनः स्वयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, तेऽपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव नियन्ते, नार्वाक्, यस्मादागामिभवायर्वद्ध्या प्रियन्त सर्व एव देहिनः, तचाहारशरीरेन्द्रियपर्याप्तिपर्याप्तानामेव वध्यत इति,य पुनः करणानि शरीरेन्द्रियादीनिन तावन्निवर्तयन्ति अथ चावश्य निर्वर्तयिष्वन्ति ते करणापर्याप्तकाः, इहोभयेषामप्यपर्याप्तानां प्रतियेवः, उनयेषामपि विशिष्टचारित्रप्रतिपत्त्यसम्भवात, तथा सम्मबिट्ठि त्ति सम्यक्- अविपरीता दृष्टिः-जिनप्रणीनवस्तुप्रतिपत्तिर्येषां ते सम्यगृदृष्टयः, मिथ्या-विपरीता दृष्टिर्येषां ते मिथ्यादृष्टयः, सम्यक् च मिथ्या च दृष्टियेषां ते सम्यगमिथ्यादृष्टयः येषामेकस्मिन्नपि च वस्तुनि तत्पर्याये वा मतिदौर्बल्यादिना एकान्तेन सम्यक्परिज्ञानमिथ्याज्ञानाभावतो न सम्यक् श्रद्धानं नाप्येकान्ततो विप्रतिपत्तिः ते सम्यगमिथ्यादृष्टयः, उक्त च शतकबृहचूर्णी -'जहा नालिकेरदीववासिस्स खुहाइयस्सवि एत्थ समागयस्स ओयणाइए अणेगविहे ढोइए तस्स उवरिन रुई न य निंदा, जओ तेण सो ओयणाइओ आहारो न कयाइ दिट्ठो नावि सुओ, एवं सम्ममिच्छद्दिहिस्स वि जीवाइपयत्थाणं उवरि नय रुई नावि निंद त्ति, तथा संजय' त्ति 'यम' उपरमे, संयच्छन्ति स्म सर्वसावद्ययोगेभ्यस्सम्यगुपरमन्ते स्मेति संयताः, "गत्यर्थकर्मण्याधारे" ति कर्तरि तप्रत्ययः, संयताः-सकलचारित्रिणः असंयताः-अविरतसम्यगदृष्टयःसंयतासंयताः-देशविरतिमन्तः, तथा 'पमत्त' ति प्रमाद्यन्ति स्म मोहनीयादिकम्मोदयप्रमावतः सज्वलनकषायानद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदन्ति स्मेति प्रमत्ताः, पूर्ववत् कर्त्तरि तप्रत्ययः, ते च प्रायो गच्छवासिनः तेषां क्वचिदनुपयोगसम्भवात्. तद्विपरीता अप्रमत्ताः, ते च प्रायो जिनकल्पिकपरिहारविशुद्धिकयथालन्दकल्पिकप्रतिमाप्रतिपन्नाः, तेषां सततोपयोगसम्भवाद्, इह तु ये गच्छवासिनः तन्निर्गता वा प्रमादरहिताः तेऽप्रमत्ता द्रष्टव्याः, तथा 'इड्डिपत्तस्स' त्यादि, ऋद्धीः-आमर्पोषध्यादिलक्षणाः प्राप्ता ऋद्धिप्राप्ताः / (न०) तथा आमोषध्यार्दीनामन्यतमामृद्धिमवध्वृद्धिं वा प्राप्तस्य मनः पर्यायज्ञानमुत्पद्यते, नानृद्धिप्राप्तस्य, अन्ये त्ववध्यद्धिप्राप्तस्यैवेति नियममाचक्षते, तदयुक्तं, सिद्धप्राभृताऽऽदाववधिमन्तेणापि मनःपर्यायज्ञानस्यानेकशोऽभिधानात् / अत्राऽऽह-मनुष्याणामुत्पद्यते इत्युक्ते सागादमनुष्याणां नोत्पद्यते इत्यनुमीयते, ततः कथमुच्यते-'नो अमणुरगाणं उप्पन इत्यादि, निरर्थकत्वात् ? उच्यते-इह त्रिधा विनयाः / तद्यथा-उद्घटितज्ञा, मध्यबुद्धयः, प्रपञ्चितज्ञाश्च / तत्र ये उद्घटितज्ञाः, मध्यबुद्धयो वा ते यथोक्तं सामर्थ्यमवबुध्यन्ते, ये पुनरद्याप्यव्युत्पन्नत्वात्न यथोक्तसामर्थ्यावगमकुशलास्ते प्रपञ्चितमेवावगन्तुमीशते, ततस्तेषामनुग्रहाय सामर्थ्यलभ्यस्याऽपि विपक्षनिषेधस्याऽभिधानं, महीयांसो हि परमकरुणापरीत्वात् अविशेषेण सर्वेषामनुग्रहाय प्रवर्त्तन्ते,ततो न कश्चिद्दोषः। द्रव्यतः क्षेत्रतस्तदाहतं च दुविहं उप्पज्जइ,तं जहा-उज्जुमई य, विउलमई यातं समासओ, चउव्विहं पण्णत्तं / तं जहा-दध्वओ, खेत्तओ, कालओ, भावओ। तत्थ दवओ णं उज्जुमई णं अणंते अणंतपएसिए खंधे जाणइ, पासइ, तं चेव विउलमई अब्भहियतराए विउलतराए विसुद्धतराए बितिमिरतराए जाणइ, पासइ, खेत्तओ णं उजुमई अ जहन्नेणं अंगुलस्स असंखेज्जयभागं उक्कोसेणं अहे. जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेडिल्ले खुडगपयरे उड्ड० जाव जोइसस्स उवरिमतले तिरियं० जाव अंतोमणुस्सखित्ते अड्डाइजेसु दीवसमुद्देसु पन्नरससु