________________ वायणा 1065 - अभिधानराजेन्द्रः - भाग 6 वायणा उग्गहधारणॉकुसलं, ता य नयंति अन्नत्थ।।२२६।। सा-मनोज्ञा समानीता सती तत्र एकामार्यिका निर्मापयति / अथ तादृशी-मनोज्ञा न विद्यते तत आह तादृश्यभावे ततोऽवग्रहधारणाकुशलामन्यत्राऽसांभोगिके गच्छान्तरे नयन्ति। तत्र संयतानां संयतीनां च परीक्षा कर्तव्या। तथा चाऽऽहसंविग्गमसंविग्गा, परिच्छियव्वायदो वि वग्गाओ। अपरिच्छणम्मि गुरुगा, परिच्छ इमेहि ठाणेहिं / / 227|| द्वावपि संयतसंयतीरूपौ वगा संविनावसंविग्नाविति वा परीक्षितव्यौ, यदिनपरीक्षन्तेततो द्वयोर्वर्गयोरपरीक्षणे प्रायश्चित्तं चत्वारो गुरुकाः।सा च परीक्षा एभिर्वक्ष्यमाणैः स्थानैः कर्तव्या। तान्येवाहवचंति ताव एंती, भत्तं गेण्हति ताव जं देंति। कंदप्पतरुणवाउस, अकालऽभीयाय सच्छंदा।।२२।। संयताः संयतीनामुपाश्रये निष्कारणं व्रजन्ति ता अपि वा संयत्यः संयतानामुपाश्रयं निष्कारणमागच्छन्ति, तथा भक्तं पानं वा संयतानां पार्वे संयत्यो यथा कथंचन गृह्णन्ति, तावासंयत्यः संयतानां प्रयच्छन्ति, तथा परस्परं तरुणास्तरुण्यश्च कन्दर्पकथां कथयन्ति, तथा संयताः संयत्यश्च वाकुशं भावं विभ्रति, तथा द्वावपि वर्गावकाले चरतः, तथा संयता आचार्यान् न विभ्यति, आर्यिकाः प्रवर्त्तिन्याः, तथा संयताः संयत्यश्व स्वच्छन्दाः-आत्मन इच्छया; यान्ति आयान्ति वा इत्यर्थः / अट्ठमी पक्खिए मोत्तुं, वायणाकालमेवय। पुवुत्ते कारणे वाऽवि, गमणं होइ अकारणे // 226 / / अष्टमी पाक्षिकं तथा वाचनाकालं तथा पूर्वोक्ता 'निगम्मति कारणजाए' इत्यादिना ग्रन्थेनयानि कल्पेऽभिहितानि तानि मुक्त्वा शेषकालं यद्भवति गमनं तदकारणं; निष्कारणमित्यर्थः, एतेन ता वा संयत्यो निष्कारणमायान्तीति व्याख्यातम्। थेरा सामायारिं, अज्जा पुच्छंति ता परिकहेंति। आलोयणसच्छंदं, वेंटलगेलग्नपाहुणिया।।२३०।। स्थविरा-आचार्या आत्मीया आर्यिका वास्तव्यानामार्यिकाणां समाचारी पृच्छन्ति, तथा कीदृशी वास्तव्यानामार्यिकाणां सामाचारीति एवं पृष्टाः सत्यस्ताः परिकथयन्ति, या यत्र गतास्तास्ततः प्रत्यागता नालोचयन्ति, नापि दैवसिकं रात्रिकं पाक्षिकं वाऽतीचारमालोचयन्ति। यथा स्वच्छन्दं वर्तते, नाचार्योपाध्याय-प्रवर्तिनीनां वश्यायत्ता। तथा वेण्टलानि प्रयुञ्जन्ति,न च ग्लानायाः प्रतितपयन्ति , नापि प्राघूर्णकानां वात्सल्यं विदधति। चित्तलए सविकारा, बहुसो उच्छोलणं च कप्पट्टी। थलिघोडवेससाला, जंत-वर-काहिय-निसेजा।।२३१|| तथा चित्रलानि वस्त्राणि परिदधति, तथा सविकारा गतौ उल्लापे च विकारसहिताः, तथा बहुशोऽनेकप्रकारं मुखनयनकक्षाहस्तपादादी नामुच्छोलनं--प्रक्षालनं कुर्वन्ति, तथा कल्पस्थानिडिम्भरूपाणि रमयन्ति, मण्डयन्ति। ममीकुर्वन्ति वा। तथास्थाल्यो-देवद्रोण्यस्तासु भिक्षार्थं व्रजन्ति। तत्रघोटाडङ्गरास्ते निरुद्धा बलादपि गृह्णन्तिास्थल्यां वा समवसृतः प्रत्यासन्ने य उपाश्रयस्तत्र वसन्ति, वेश्यागृहाणि वा हिण्डन्ते, तत्पाटके वा वसतौ तिष्ठन्ति, शाला-अश्वशाला वा तासु हिण्डन्ते, तासां वा समीपे उपाश्रये तिष्ठन्ति, यन्त्राणि-इक्षुयन्त्रतैलयन्त्रादिगृहाणि तानि हिण्डन्ते, तन्मध्ये वा उपाश्रये वसन्ति। तथा व्रजे गोकुले वाव्रजन्ति, काथिकादिकत्वंवा कुर्वन्ति, गृहनिषद्यां बाधन्ते। एष द्वारगाथाद्वयसमासार्थः। साम्प्रतमेतदेव विवरीषुः प्रथमत आलोचनद्वारं स्वच्छन्दद्वारशाहजाजत्त गया सा उ, नाऽलोए दिवसपक्खियं वाऽवि। सच्छन्दाता वयणे, महतरियाए न ठायंति॥२३२|| या यत्र गता सा ततः प्रत्यागता नाऽलोचयति, नापि काचन दैवसिकं पाक्षिकमपिशब्दात्-रात्रिकं वाऽतीचारमालोचयति / तथा स्वच्छन्दाः सर्वा अपि वर्तन्तेन महत्तरिकाया उपलक्षणमेतत्तत्रा-न्याचार्योपाध्याययोर्वचने न तिऽन्ति। अधुना वेण्टलादिद्वारचतुष्टयमाहवेंटलगाणि पउंज-ति गिलाणा याविण पडितप्प॑ति। आगाऽणागाढं, करें तिरुणागाढे आगाढं // 233|| अजयणाए व कुव्वंति, पाहुणगादि अवच्छला। चित्तलाणि नियंति, चित्तारयहरणातहा।।२३।। वेण्टलानि-खिटिकाचप्पुटिकादीनि प्रयुञ्जत, नापिग्लालान् प्रतितप्प्यन्ति-प्रतिचरन्ति। यदि वा--आगाढे अनागाढं कुर्वन्ति, अनागाढे वा आगाढमयतनया कुर्वन्ति / तथा प्राघूर्णिकायामवत्सलास्तथा चित्रलानि-विचित्ररेखोपेतानि वस्त्राणि निवसते-परिदधति, चित्राणि वा नानाप्रकाराणि रजोहरणानि धारयन्ति। __संप्रति सविकारद्वारमाहगइविन्भमादिएहिं, आगारविगार तह पदंसेंति। जह किडगाण वि मोहो, समुदीरति किं तु तरुणाणं // 23 // गतिविभ्रमादिभिः आकारविकारांस्तथा प्रदर्शयन्ति यथा किटकानामपि-वृद्धानामपि मोहः समुदीर्यते किं पुनस्तरुणानामतिबहुशः। उच्छोलद्वारं कल्पस्थद्वारंचाहबहुसो उच्छोलंती, मुहनयणे हत्थपायकक्खादी। गेण्हण मंडण रामण, भोयंति-वा ता कप्पटे // 236|| मुखनयनानि हस्तपादकक्षादिक च बहुशो–ऽनेकवारमुच्छोल-यन्तिप्रक्षालयन्ति, तथा गृहस्थबालकानां ग्रहणं कुर्वन्ति, मण्डनं वा रामणं वा क्रीडनं, यदि वा ताः कल्पस्थान्-गृहस्थदारकान् भोजयन्ति। स्थलीघोटद्वारं, वेश्याद्वारं चाहथलिघोडादिट्ठाणे, वयंतिते वाऽवि तत्थ समुर्वे ति। वेसित्थीसंसग्गी, उवसंतो वा समीवम्मि॥२३७।।