________________ वायणा 1064 - अभिधानराजेन्द्रः - भाग 6 वायणा प्रवर्त्तिन्यां मृतायां संयतीनां वाचनाकप्पति निग्गंथीणं वितिगिट्टे काले सज्झायं करेत्तए निग्गंथनिस्साए॥११॥ कल्पते निर्ग्रन्थीनां निर्ग्रन्थनिश्रया व्यतिकृष्टऽपि काले स्वाध्यायं कर्तुमिति सूत्रार्थः। अधुना भाष्यप्रपञ्चः, तत्र प्रथमतः पूर्व पक्षस्यावकाशं दर्शयतिकप्पइ जइ निस्साए, वितिगिटे संयतीण सज्झाओ। इति सुत्तेणुद्धारे, कयम्मि उ कमागतं भणइ // 212|| कल्पते यतिनिश्रया व्यतिकृष्ट काले संयतीनांस्वाध्याय इति सूत्रेणोद्धारे कृते परः क्रमागतं परिपाट्यागतमिदं भणति। किं तदित्याहपुव्वं वन्नेऊणं, संजोगविसं च जायरूवं च। आरोवणं च गुरुई, नहु लब्भा वायणं दाउं॥२१३| पूर्व संयोगविषजातरूपं च विषं; सहजविषं चेत्यर्थः, आरोपणा च-- प्रायश्चित्तं चतुर्थी वर्णयित्वा यत्संप्रति वाचनां ददत अन्तर्भूतण्यर्थत्वात् दापयतां दापयितुं (न हु) नैव लभ्यम्। एवं परेण पूर्वपक्षे कृते सूरिराहकारणियं खलु सुत्तं, असति पवाएंतियाए वाएज्जा। पाढेण विणा तासिं, हाणी चरणस्स होजाहि // 21 // इदं खलु सूत्रं कारणिकं कारणेन निवृत्तम्, तदेव कारणमाह-असत्यभावे प्रवाचयन्त्याः -प्रवर्तिन्या वाचयेत् संयतीः, अन्यथा पाठेन विना तासां चरणस्य हानिर्भवेत्। यदि भवति ततः को दोष इत्यत आहजातो पव्वइयातो, सग्गं मुक्खं च मन्नमाणीतो। जइ नऽस्थि नाणचरणं, दिक्खा हु निरस्थिया तासिं // 215 / / याः स्वर्ग मोक्षं च मृगयमाणाः प्रव्राजितास्तासां यदि ज्ञानं चरणं च नास्ति ततो (हु)निश्चितं दीक्षा निरर्थिका। कथं निरर्थिकेत्यत आहसव्वजगुजोयकर, नाणं नाणेण नज्जए चरणं / नाणम्मि असंतम्मी, अञ्जा किह नाहिति विसोहिं / / 216|| सर्वस्यापि जगतः उद्योतकरं ज्ञानम्, ज्ञानेन च जायते चरणम्, ततो ज्ञाने असत्यार्यिका विशोधिकार्य किं ज्ञास्यति? नैव ज्ञास्यतीति भावः। ततो विशुद्धयभावात् चरणाभावस्तथा चाह-- नाणम्मि असंतम्मि, चरित्तं पि न विज्जए। चरित्तम्मि असंतम्मि, तित्थे नो सचरित्तया॥२१७॥ ज्ञाने असतिप्रागुक्तयुक्तेश्चारित्रमपिन विद्यते, असति चारित्रे सकले तीर्थे नार्यिकाणां सचारित्रता। अचरित्तयाए तित्थस्स, निव्वाणं नाभिगच्छद। असती निव्वाणस्सय, दिक्खा होति निरत्थगा॥२१८|| संयतीरधिकृत्य तीर्थस्याचारित्रतया संयती निर्वाणं काऽपि नगच्छति, निर्वाणस्य चाभावे दीक्षा निरर्थिका। तम्हा इच्छावेती, एतासिंनाणदंसणचरितं / णाणेणं चरणेणं, काहिति अंतं भवसयाणं // 21 // यतो निर्वाणाभावे दीक्षा निरर्थिका, अथवा-तासां निर्वाणाय भगवता दीक्षाऽनुज्ञाता, तस्मादेतासांदीक्षाबलादपि ज्ञानदर्शनचारित्रं समाहारत्यादेकवचनमिच्छापयति, यतो 'अन्तं' विनाशं भवशतानां करिष्यन्त्यार्यिकाः, यतो निवीणं लभ्यते ज्ञानचरणेन नान्यथा। नाणस्स दंसणस्सय, चारित्तस्स य महाणुभावस्स। तिण्हं पिरहखणऽहा,दोसविमुक्को पवाएज्जा॥२२०।। ज्ञानस्य दर्शनस्य चारित्रस्य च कथंभूतस्यैकैकस्येत्यत आह-महान् अनुभावः प्रभावो यस्य तत्तथा तस्य, एतेषां त्रयाणां रक्षणाय दोषविमुक्तोवक्ष्यमाणदोषविप्रमुक्तः प्रवाचयेत्। अप्पसत्थेण भावेण, वाएंतो दोसवं भवे। केरिसो अप्पसत्थो उ, इमो सो इ पवुचती // 221 / / अप्रशस्तेन भावेन वाचयन् दोषवान् भवति,न प्रशस्तेन। अथ कीदृशः सोऽप्रशस्तो भावः? सूरिराह- सोऽप्रशस्तो भावोऽयं प्रोच्यते। तमेवाहपरिवारहेउमण्ण-ट्ठयाए वभियारकज्जहेउवा। अगारा य बहुविहा, असंवुडादी उदोसाय॥२२२।। परिवारो मे भूयादिति हेतोरन्नाऽर्थतया वा; अन्नं पानं वा ममाऽऽनीय दास्यतीत्येतदर्थं वा इत्यर्थः, व्यभिचारार्थ वा अन्येषां वा-एतदतिरिक्तानां कार्याणां हेतोः, अथ अगाराणि-गृहाणि बहुविधानि असंवृतादीनि मे संपादयिष्यतीत्येतदर्थं यदि वाचयति तदा सः अप्रशस्तो भाव इति तस्य दोषाः / गणिणी कालगयाए, बहिया य ण विजए जया अण्णा। संता वि मंदधम्मा, मज्जायाए पवाएज्जा॥२२३।। गणिन्यां-प्रवर्तिन्यां कालगतायांतत्रान्यत्र वा बहिर्यदा अन्या प्रव्राजिका न विद्यते, अथास्ति परं सत्यपि सा मन्दधा ततः साधुर्मर्यादया प्रवाचयति। तामेव मर्यादामाहआगाठजोगवाहिणी, पकप्पो वा वि होज असमत्तो। सुत्ततो अत्थओ यावि, कालगया य पवत्तिणी॥२२॥ आगाढयोगवाहिनी काऽपि संयती, यदि वा--कस्याश्चित्संयत्याः प्रकल्पो-निशीथाध्ययनं सूत्रतोऽर्थतश्चासमाप्तो भवेत्-वर्तते, अत्रान्तरे च प्रवर्तिनी कालगता। अण्णा य सगच्छम्मी, जइ नऽत्थि पवाइया। अण्णगच्छा मणुण्णं तु, आणयंति ततो तहिं // 225 / / अन्या स्वगच्छे यदि प्रवाचिका न विद्यते, ततोऽन्यगच्छात्-मनोज्ञासांभोगिकीं तत्रार्यिकां वसतावानयन्ति। सा तत्थ निम्मवे एकं, तारिसीए असंभवे /