________________ वायणा 1063 - अभिधानराजेन्द्रः - भाग 6 वायणा लहुगा यदव्वतितिणि,रसतितिणि होति चउगुरुगा / / 763|| अव्यक्तस्तरुणधर्मा तस्य तथा 'अपत्ते' त्ति अपात्राणामेकादशसंख्याकानां सूत्रार्थों यदि ददाति तदा चत्वारो लघुकाः 'लहुगा य होति अप्पत्ते' त्ति अप्राप्त आद्यदृष्टभावस्तस्मै ददाति चत्वारो लधुकाः। अत्रैव विशेषमाह-'लहुगा य दव्य' इत्यादि। द्रव्यतिन्तिणिकस्य ददाति चत्वारो लघवः रसतिन्तिणिकस्य ददाति चत्वारो गुरवः, उपधिशय्यातिन्तिणिकयोर्ददानस्य चत्वारो लघवः / इत्यनुक्तमन्यत्रावसातव्यं निशीथचूर्णावुक्तत्वात्अंतो बहिं च गुरुगा, आयरियगिलाणबालबिइयपयं। आयरियपारिभासि-स्स हाँति चउरो अणुग्घाया||७६४|| आहारोपधिशय्याविषयामन्तर्बहिश्च संयोजनां कुर्वतश्चत्वारो गुरवः, आचार्यग्लानबालादीनामर्थाय द्वितीयपदं भवति; एतदर्थ संयोजनामपि कुर्वन् शुद्ध इत्यर्थः / आचार्यपरिभाषिणः पुनश्चत्वारो गुरवोऽनुद्धाताः प्रायश्चित्तम्। अथोपसंहरनाहतम्हा न कहेयव्वं, आयरिएणं तु पवयणरहस्सं। खेत्तं कालं पुरिसं नाऊण पगासए गुत्तं // 765|| आचार्येण वचनरहस्यमपवादं न कथयितव्यम्, कथं पुनः कथयितव्यमित्याह-क्षेत्रमध्वादिकं प्रवेष्टव्यं ज्ञात्वा प्रथमतोऽध्यकल्पादिकं प्रवचनरहस्यभूतमपरिणतानामपि कथयितव्यमन्यथा तेषां मार्गे गच्छता संयमात्मविराधना स्यात्, एवं कालमपि दुर्भिक्षादिकमागमिष्यन्तमागतं वा ज्ञात्वा यथायोगमपरिणतानामपि राहसिकश्रुतार्थ प्रकाशयेत्, पुरुष वा परिणामलक्षणमुपलक्षणत्वाद् भावं वा ग्लानवृद्धासहिष्णुप्रभृतीनामुपग्रहणकरणादिलक्षणं ज्ञात्या प्रकाशयेत्, गुह्यछेदश्रुतरहस्यमितिव्याख्यातं 'पत्तेय' त्ति द्वारम्। तथा अनुज्ञातद्वारमाहचउभंगोऽनुन्नाए, अणणुण्णाते य पढमतो सुद्धो। सेसाणं मासलहु, अविणयमाई मवे दोसा // 766|| अत्रानुज्ञाताननुज्ञातपदाभ्यां चतुर्भड़ी कार्या। तद्यथा-अनुज्ञातमनुज्ञातो वाचयतीति प्रथमः। अस्य भावना-कश्चित् प्रातीच्छिको गच्छान्तरादागत्य सूत्राध्ययनार्थमुपसंपन्नः, स चाचार्यरनुज्ञातः, आर्य! उपाध्यायस्य सकाशेऽधीष्वेति। ततः स उपाध्यायस्य समीपे गत्वाब्रूते-भगवन् ! गुरुभिरहमादिष्टो भवतां पादमूले पठनार्थमिति / तत उपाध्यायेनागत्य आचार्याः पृच्छनीयाः यथा-क्षमाश्रमणाः! पाठयाम्यहममुकं साधुमिति? ततो गुरुभिर्वाढमित्युक्ते स उपाध्यायेन पाठनीयः। एवं कुर्वन्ननुज्ञातो वाचयतेत्यभिधीयते, एष प्रथमो भङ्गः शुद्धः / अनुज्ञातमननुज्ञात इति द्वितीयः। तद्भावना-स साधुराचार्यभणितः, पठोपाध्यायान्तिके। स तथैवमादिष्टः पठितुमुपस्थित उपाध्यायसन्निधौ, स उपाध्यायो यद्या चार्यानपृष्टा तंपाठयति तत उपाध्यायस्य भासलघु। अननुज्ञात-मनुज्ञात इति तृतीयः / अत्र चाचार्यरुपाध्ययस्तस्य साधोः शृण्वतः सन्दिष्टः, आर्य ! पाठयेर, साधुमिति; न पुनरितरः संदिष्टस्ततः स उपस्थितः सन्नुपाध्यायेन प्रश्नीयः। सौम्य ! क्षमाश्रमणैः सन्दिष्टस्त्वंनवेति? ब्रूयात् सः, मया युष्माकमादेशो दीयमानः श्रुतो न पुनरहं सन्दिष्ट इत्युक्ते यधुपाध्यायः पाठयति तदाद्वयोरप्यध्याप्याऽध्यापकयोसिलधु, अथ न पाठयति तत उपाध्यायः शुद्धः। अननुज्ञातमननुज्ञातो वाचयतीति चतुर्थो भङ्गः / अत्रचोपाध्यायोऽप्यननुज्ञातः, शिष्योऽप्यननुज्ञात इति कृत्वा द्वयोरपि मासलघु / अत एवाह-शेषेषु-प्रथमभङ्गव्यतिरिक्तेषु भङ्गेषु मासलघु, गाथायां प्राकृतत्वात्सप्तम्यर्थे षष्ठी। अविनयादयश्च दोषा भवन्ति। आदि-शब्दादनवस्था अन्येषामपि यदृच्छयाऽध्ययनाध्यापनलक्षणादयो दोषाः परिगृह्यन्ते / गतमनुज्ञातद्वारम् / बृ० १3०१प्रक०। (परिणा-मकाति परिणामकद्वाराणि स्वस्वस्थानयोरुक्तानि।) अव्यक्तवाचने प्रायश्चित्तम्सामन्नं पुण सुत्ते, मयमायामं चउत्थमत्थम्मि। अप्पत्ताऽपत्ताऽव-त्तवायणुद्देसणाइसुय।।२५।। अपात्रः अयोग्यस्तिन्तिणिकश्चलचित्तः गाणंगणिकादि, अव्यक्तोवयसा लघुः, श्रुतेन वाऽयल्पश्रुतः। एतेषामप्राप्तापा-त्राव्यक्तानां श्रुतं पाठरूपं यो ददाति, तद्देशमुद्देशानुज्ञा वा करोति, तस्यापि चतुर्थम् / चशब्दोऽनुक्तसमुच्चये, तेन प्राप्तपात्रव्यक्तानां च यो वाचनां न ददाति उद्देशादींश्च न करोति तस्यापि चतुर्थमि-त्यर्थः / जीता पञ्चभिः प्रकारैर्वाचयेत्पंचहि ठाणेहिं सुत्तं वाएला,तं जहा-संगहट्टयाए उवग्गहणट्ठयाए निज्जरठ्ठयाए सुत्ते वा मे पज्जवयाए भविस्सइ सुत्तस्स वा अय्वोच्छित्तियट्टयाए / / (सू०४६८) 'पंचही त्यादिसुगमम्, नवरं सुत्तं श्रुतं सूत्रमात्रं वा वाचयेत्-पाठयेत्, तत्र संग्रहः-शिष्याणां श्रुतोपादानं स एवार्थः-प्रयोजनं तस्मै संग्रहार्थाय, संग्रह एव वाऽर्थो यस्य स संग्रहार्थस्तद्भावस्तत्ता तया संग्रहार्थतया श्रुतसंग्रहो भवत्वेषामिति प्रयोजनेनेति भावः। अथवैत एव मया संगृहीता भवन्ति शिष्यीकृता भवन्तीति संग्रहार्थतया, तत्- संग्रहायेति भावः, एवमुपग्रहार्थायोपग्रहार्थतया वा एवं ह्येते भक्तपानवस्वाधुत्पादनसमर्थतयोपष्टम्भिता भवन्विति भावः। निर्जरार्थाय निर्जरणमेवं कर्मणां भवत्विति, श्रुतं वा ग्रन्थो मे मम वाचयत इति गम्यते, पर्यवजातं जातिविशेष स्फुटतया भविष्यतीति, अव्यवच्छित्या नयनंश्रुतस्य कालान्तरप्रापणम् अव्यवच्छित्तिनयः, स एवार्थस्तस्मै इति। स्था०५ ठा०३ उ०। (अस्वाध्याये न वाचयितव्यमिति 'असज्झाइय' शब्दे प्रथमभागे 833 पृष्ठे गतम्।) (वाचनायां विनयादिप्रकाराः 'आयारपकप्प' शब्दे द्वितीयभागे 355 पृष्ठे गताः ।)(गृहस्थेभ्योऽन्ययूथिकेभ्यो न वाचना देयेति 'अण्णउत्थिय' शब्दे प्रथमभागे 472 पृष्ठे उक्तम्।)