________________ वायणा 1016 - अभिधानराजेन्द्रः - भाग 6 वायणा पर्यवसानम्-अन्तः कर्मणो भवस्य वा यस्य स महापर्यवसानश्च भवति, मुक्तिर्भवतीति हार्दम्। उत्त० 26 अ० अनुयोगे, बृ०३ उ०। विनयाय निर्जरायै सूत्रादिदाने, आव०४ अाधा शिष्याध्ययने, अनु० स्था०| दश०। स० सूत्रस्यार्थस्य वा प्रदाने,न०। आ०म० स०। (गृहीतसामाचारीकाणां सूत्रार्थवाचनादातव्या इति जिणकप्प' शब्दे चतुर्थभागे 1466 पृष्ठे उक्तम्।) वाचनादानग्रहणविधिरेवम्"उवविसइ उवज्झाओ, सीसा विअरंति वंदणं तस्स। सो तेसि सव्वसमयं, वायइ सामाइअप्पमुहं / / 1 / / सोगाहणाइकुसलो, विअरइ वयरु व्ववायणं तेसिं। सीसा वि तह सुणंति अ,जह सीसा सीहगिरिगुरुणो // 2 // " तथाऽन्यत्रापि"पर्यस्तिकामवष्टम्भं, तथा पादप्रसारणम्। वर्जयेद्विकथां हास्य-मधीयन् गुरुसन्निधौ // 3 // " इति प्रच्छनाविधिस्त्वेवम्"आसणगओन पुच्छिज्जा, सिजागओ कयाऽविणो। आगम्मुकुडओ संतो, पुच्छिज्जा पंजलीउडो॥४॥" ध०३अधिक तओ नो कप्पंति वाइत्तए, तं जहा-अविणीए विगइपडिबद्ध अविओसवियपाहुडे ॥५॥तओ कप्पंतिवाइत्तए।तंजहा-विणीए नो विगइपडिबद्धे विओसवियपाहुडे / / 6 / / त्रयो नो कल्पन्ते वाचयितुं सूत्रं पाठयितुमर्थ वा श्रावयितुम् तद्यथा-- अविनीतः--सूत्रार्थदातुर्वन्दनादिविनयरहितः / विकृतिप्रतिबद्धोघृतादिरसविशेषगृद्धोऽनुपधानकारीति भावः / अव्यवशमितम्-अनुपशान्तं प्राभृतमिव प्राभृतैरेकपालकौशलकं तीव्रक्रोधलक्षणं यस्यासौ अव्यवशमितप्राभृतः। एतद्विपरितास्तु त्रयोऽपि कल्पन्ते वाचयितुम् / तद्यथा-विनीतो नाविकृतिप्रतिबद्धो व्यवशमितप्राभृतश्चेति सूत्रार्थः। अथ नियुक्तिविस्तरःविगई अविणीऍ लहुगा, पाहुडगुरुगाय दोस आणादी। सो य इयरे य चत्ता,बितियं अद्धाणमादीसु॥३१५।। विकृतिप्रतिबद्धमविनीतं च वाचयतश्चतुर्लघुका आज्ञादयश्च दोषाः। स च इतरे च साधवः परित्यक्ता भवन्ति / तत्र स तावत् विनयम-कुर्वन् ज्ञानाचारं विराधयतीति कृत्वा परित्यक्तः / इतरे च तमविनीतं दृष्ट्वा विनयं न कुर्वन्तीति परित्यक्ताः / द्वितीयपदमत्र भवति / अध्वादिषु वर्तमानानां योऽविनीतादिरभ्युपग्रहं करोति स वाचनीयः। एषा नियुक्तिगाथा। एनामेव भाष्यकृद्विवृणोतिअविनीयमादियाणं, तिण्ह विभयणाउ अट्ठिया होति। पढमे भंगे सुत्तं, पढम बितियं तु चरिमम्मि // 316 / / अविनीतादीनां त्रयाणामपि पदानामष्टिका भजना भवति–अष्टभगीत्यर्थः / यथा अविनीतो विकृतिबद्धोऽव्यवशमितप्राभृतः१, अविनी तोऽपि विकृतिप्रतिबद्धो व्यवशमितप्राभृतः 2 इत्यादि यावदष्टमो भङ्गो विनीतो विकृत्यप्रतिबद्धो व्यवशमितप्राभृतश्चेति / अत्र च प्रथमे भने प्रथमसूत्रं निपपति, चरमे-अष्टमे द्वितीयं सूत्रमिति। अथ त्रयाणामपि वाचने यथाक्रमंदोषानाह-- इहराऽवि ताव थंभति, अविणीतो लंभितो किमु सुतेणं। मा णटो णस्सिहिति,खए वखारावसेउत्तं // 317 / / इतरथाऽपि श्रुतपदानमन्तरेणापि तावद् अविनीतः स्तभ्यते स्तब्धो भवति / किं पुनः श्रुतेन लम्भितः सन् महिमानमिति शेषः। अतः स्वयं नष्टोऽसावज्ञातेऽपि मां नाशयिष्यतीति क्षते वा क्षारावसेको मा भूदिति कृत्वा नाऽसौ वाचनीयः। अपिचगोजूहस्स पडागा, सयं पयातस्स वडयति वेगं। दोसोदयप्पसवणं,ण होइण णिदाणतुल्लं च // 315|| इह गोपालको गवामग्रतो भूत्वा एव पताकां दर्शयति तदा शीघ्रतरं गच्छन्तीति श्रुतम्, ततो गोवर्गस्य स्वयं प्रयातस्य यथा पताका वेगं वर्द्धयति तथा दुर्विनीतस्यापि शुभप्रदानमधिकतरं दुर्विनयं वर्धयति / तथा दोषाणां-रोगाणामुदयेशमनमौषधंन दीयते, यतश्च निदानादुच्छ्रितो व्याधिस्तत्तुल्यं-तत्सदृशमपि वस्तु रोगवृद्धिभयान्न दीयते,यदादोषोदये दीयमानं शमनं न निदानतुल्यं भवति, किंतु-भवत्येव, ततोन दातव्यम् / एवमस्यापि दुर्विनयदोषतरे वर्तमानस्य श्रुतौषधमहितमिति कृत्वा न देयम्। विणया धीता विजा, ति फलं इह परे य लोगम्मि। न फलंति विणयहीणा, सस्साणि व तोयहीणाई॥३१६।। विनयेनाधीता विद्या इह परत्र च लोके फलं ददति / जनत्वजननयशःप्रवादलाभादिकमैहिकम्, निःश्रेयसादिकं चामुष्मिकं फलं ढोकयन्तीति हृदयम्। विनयहीनास्तुता अधीतानफलन्ति, सस्यानीव तोयहीनानि; यथा-जलमन्तरेण धान्यानि न फलन्ति। अथ विकृतिप्रतिबद्धमाहरसलोलुयता कोई, विगतिं ण मुयति दढो वि देहेणं / अन्मंगेण व सगडं,ण चलइ कोई विणा तीए॥३२०।। रसलोलुपतया कश्चिद्धेहेन दृढोऽपि विकृतिनमुञ्चति, सवाचयितुमयोग्यः। कश्चित्पुनरभ्यङ्गेन विना यथा शकटंन चलति तथा तया विकृत्या विना निवोढुंन शक्नोति, तस्यगुरूणामनुज्ञया विधिनागृह्णतोवाचनादातव्येति। किंचउस्सगं एगस्स वि, ओगाहिमगस्स कारणा कुणति। गिण्हति व पडिग्गहए, विगतिं चरमे विसांता॥३२१।। योगं वहमानः कश्चिदेकस्याप्यवगाहिमस्य कारणात्कायोत्सर्ग करोति, प्रतिग्रहे वा विकृतिं गृह्णाति, चरमेनाप्यमुनाप्युपायेन मे विकृतिविसजयितारः। एवं मायां कुर्वत. किं भवतीत्याहअतवे न होति जोगो, ण य फलए इच्छियं फलं विजा।