________________ वाद 1054 - अभिधानराजेन्द्रः - भाग 6 वाद रीरावयवैकपरिणामेनापि आत्मनोऽव्ययादखण्डनात् / न हि बुद्धिगतदुःखोत्पादरूपा हिंसा सांख्यानामात्मनि प्रतिबिम्बोदयेनानुपचरिता संभवति / न या नैयायिकानां स्वभिन्नदुःखरूपगुणरूपा सा, आत्मनि समवायेन प्रतिबिम्बसमवाययोरेव काल्पनिकत्वात् / न च कथमपि . स्वपर्यायविनाशाभावे हिंसाव्यवहारः कल्पनाशतेनाप्युपपादयितुं शक्यत इति। तदिदमाह-"निष्क्रियोऽसौ ततो हन्ति, हन्यते वा नजातुचित्। कंचित्केनचिदित्येवं, न हिंसाऽस्योपपद्यते'' ||1|| मनोयोगविशेषस्य, ध्वंसो मरणमात्मनः। हिंसा तच्चेन्न तत्त्वस्य, सिद्धेरर्थसमाजतः // 16 // मन-इतिमनोयोगेविशेषस्य स्मृत्यजनकज्ञानजनकमनः-संयोगस्य ध्वंस-आत्मनो मरणं तद्धिंसा / इयं ह्यात्मनोऽव्ययेऽप्युपपत्स्यते, अतिसान्निध्यादेव हि शरीरखण्डनादात्माऽपि खण्डित इति लोकानामभिमानो नायं विशेषदर्शिभिरादरणीय इति चेन्न, तत्त्वस्योक्तध्वंसत्वस्य अर्थसमाजतोऽर्थवशादेव सिद्धेः। स्मृतिहेत्वभावादेव स्मृत्यजननाचरममनः संयोगस्यापि संयोगान्तरवदेव नाशात्। तथा चनेयं हिंसा केनचित् कृतास्यादिति सुस्थितमतेव सकलं जगत् स्यात्। आत्मन एकान्तनित्यत्वाभ्युपगमे दूषणान्तरमाहशरीरेणाऽपि संबन्धो, नित्यत्वेऽस्य न संभवी। विभुत्वेन च संसारः, कल्पितः स्यादसंशयम्॥१७॥ शरीरेणापीति-नित्यत्वे सति अस्य आत्मनः शरीरेणापि सम संबन्धो न संभवी। नित्यस्य हि शरीरसंबन्धः पूर्वरूपस्य त्यागे वा स्यादत्यागे वा? आद्ये स्वभावत्यागस्यानित्यलक्षणत्वान्नित्यत्वहानिः / अन्त्ये च पूर्व स्वभावविरोधाच्छरीरासंबन्ध एवेति। विभुत्वेन चाभ्युपगम्यमानेन हेतुना संसारोऽसंशयं कल्पितःस्यात्, सर्वगतस्य परलोकगमनरूपमुख्यसंसारपदार्थानुपपत्तेः। अथवा-विभुत्वे च संसारो न स्यात्, स्याचेदसंशयं कल्पितः स्यादिति योजनीयम्। तदिदमुक्तम्-- "शरीरेणापि संबन्धो, नात एवास्य सङ्गतः।तथा सर्वगतत्वाच्च, संसारश्चाप्यकल्पितः||१||" परः शङ्कतेअदृष्टादेहसंयोगः,स्यादन्यतरकर्मजः। इत्थं जन्मोपपत्तिश्च, न तद्योगाविवेचनात्॥१८|| अदृष्टादिति-अदृष्टात् प्राग्जन्मकृतकर्मणो लब्धवृत्तिकात्ा देहसंयोगोऽन्यतरकर्मजः स्यात् / आत्मनो विभुत्वेनोभयकर्माभावेऽपि देहस्य मूर्तत्वेनान्यतरकर्मसंभवादिति / इत्थं जन्मनः संसारस्योपपत्तिः ऊर्ध्वलोकादौ शरीरसंबन्धादेवोर्ध्वलोकगमनादिव्यपदेशोपपत्तेः। / इत्थमपि विभुत्वाव्ययात् पूर्वशरीरत्यागोत्तरशरीरोपादानैकस्वभावत्वाच न नित्यत्वहानिः, एकत्र ज्ञाने नीलपीतोभयाकारवदेकत्रोक्तैकस्वाभाव्याविरोधात, कार्यक्रमस्य च सामग्यायत्तत्वादित्याशयः / सिद्धान्तयति-न तद्योगस्य-शरीरसंयोगस्याविवेचनात्। तथाहिकिमयमात्मशरीरयोभिन्नो वा स्यादभिन्नो वा? आद्ये तत्संबन्धभेदा दिकल्पनायामनवस्था / अन्त्ये च धर्मिद्वयातिरिक्तसंबन्धाभावेऽतिप्रसङ्ग इति। आत्मक्रियां विना च स्या-न्मिताणुग्रहणं कथम् / कथं संयोगभेदादि-कल्पना चापि युज्यते // 16 // आत्मेति-आत्मनो यावत्स्वप्रदेशैरेक क्षेत्रावगाढपुद्गलग्रहणव्यापाररूपां क्रियां विना च मिताणूनांनियतशरीरारम्भकपरमाणूनां ग्रहणं कथं स्यात्? संबद्धत्वाविशेषे हि लोकस्थाः सर्व एव ते गृह्येरन् न वा केचिदपि अविशेषात् / अदृष्टविशेषान्मिताणुग्रहोपपत्तिर्भविष्यतीति चेन्नअदृष्टपुण्यपापरूपे साकर्याज्जातिरूपस्य विशेषस्यासिद्धेः। मिताणुग्रहार्थस्य विशेषस्य जातिरूपस्यादृष्टकल्पमापेक्षया क्रियावत्त्वरूपस्यात्मन्येव कल्पयितुंयुक्तत्वात्। तत्संकोचविकोचादिकल्पनागौरवस्योत्तरकालिकत्वेनाबाधकत्वाच्छरीरावच्छिन्नपरिणामानुभवस्य सार्वजनीनत्वेन प्रामाणिकत्वाचेति भावः। तथा आत्मनः क्रियां विना नियतशरीरानुप्रवेशानभ्युपगमे सर्वेषां शरीराणां संयोगाविशेषेण सर्वभोगावच्छेदकत्वापत्तिभिया तदात्मभोगे तदीयादृष्टविशेषप्रयोज्यसंयोगभेदादिकल्पनाऽपि कथं युज्यते? अनन्तसंयोगभेदादिकल्पने गौरवात् / अवच्छेदकतया तदात्मवृत्तिजन्यगुणत्वावच्छिन्नं प्रति तादात्म्येन तच्छरीरत्वेन हेतुत्वे तु बाल्यादिभेदेन शरीरभेदाद् व्यभिचारः / अविच्छन्नत्वसंबन्धेन तद्व्यक्तिविशिष्टे तद्व्यक्तित्वेन हेतुत्वे तु सुतरां गौरवमिति न किंचिदेतदधिकं लतायाम्। अनित्यैकान्तपक्षेऽपि, हिंसादीनामसंभवः। नाशहेतोरयोगेन, क्षणिकत्वस्य साधनात् // 20 // अनित्येति-अनित्यैकान्तपक्षेऽपि क्षणिकज्ञानसन्तानरूपात्माभ्युपगमेऽपि हिंसादीनामसंभवो मुख्यवृत्त्याऽयोगः। नाशहेतोरयोगेनक्षयकारणस्यायुज्यमानत्वेनक्षणिकत्वस्यक्षणक्षयित्वस्य साधनात्। इयं हि परेषां व्यवस्थानाशहेतुभिर्घटादे शस्ततो भिन्नोऽभिन्नो वा विधीयेत? आये घटादेस्तादवस्थ्यम, अन्त्येचघटादिरेव कृतः स्यात् इति स्वभावत एवोदयानन्तरं विनाशिनो भावा इति / इत्थं च हिंसा न केनाचित्क्रियत इत्यनुपप्लवं जगत्स्यादिति भावः। ननुजनक एव हिंसकः स्यादतो न दोष इत्यत्र जनकः किं सन्तानस्य क्षणस्य वा इति विकल्प्याद्ये दोषमाहन च सन्तानभेदस्य, जनको हिंसको मतः। सांवृतत्वादजन्यत्वा-दावत्वनियतं हि तत्॥२१॥ न चेति-नच सन्तानभेदस्य हिंस्यमानशूकरक्षणसन्तानच्छेदेनोत्पत्स्यमानमनुष्यादिक्षणसन्तानस्य जनको लुब्धकादिर्हिसको भवेत्, तद्विसदृशसन्तानोत्पादकत्वेनैव तद्धिंसकत्वव्यवहारोपपत्तेरिति वाच्यम्, सांवृतत्वात् काल्पनिकत्वात् सन्तानभेदस्य। अजन्यत्वात् लुब्धकाद्यसाध्यत्वात् / तद्धि जन्यत्वं हि भावत्वनियतं सत्त्वव्याप्तम्, सांवृतं च खरविषाणादिवदसदेवेति भावः। द्वितीये त्वाहनरादिक्षणहेतुच, शूकरादेन हिंसकः।