________________ वाद 1085 - अभिधानराजेन्द्रः - भाग 6 वाद शूकरान्त्यक्षणेनैव, व्यभिचारप्रसङ्गतः।।२।। नरादीति-नरादिक्षणहेतुश्च लुब्धकादिः शूकरादेर्हिसको न भवति, शूकरान्त्यक्षणेनैव व्यभिचारस्य हिंसकत्वातिव्याप्तिलक्षणस्य प्रसङ्गतः। म्रियमाणशूकरान्त्यक्षणोऽपि ह्युपादानभावेन नरादिक्षणहेतुरिति लुब्धकवत् सोऽपि स्वहिंसकः स्यादिति भावः। ___ इष्टापत्तौ व्यभिचारपरिहारे त्वाहअनन्तरक्षणोत्पादे, बुद्धलुब्धकयोस्तुला। नैवं तद्विरितिःछापि, ततःशास्त्राद्यसङ्गतिः // 23 // अनन्तरेति-अनन्तरक्षणोत्पादे स्वाव्यवहितोत्तरविसदृशक्षणोत्पादे हिंसकत्वप्रयोजकेऽभ्युपगम्यमाने इति गम्यम् / बुद्धलुब्धकयोस्तुला साम्यमापद्येत, बुद्धलुब्धकयोरनन्तरक्षणोत्पादकत्वाविशेषात् / एवमुक्तप्रकारेण तद्विरतिहिंसाविरतिःकापि न स्यात्। ततः शास्त्रादीनामहिंसाप्रतिपादकशास्त्रादीमसङ्गतिः स्यात् / न चैतदिष्टं परस्य"सत्तेऽस्स संति दंडाना, सव्वेसिं जीवितं पियं। अत्तानं उपमं कत्ता, नेव हन्ने न घातये / / 1 / / " इत्याद्यागमस्य परैरभ्युपगमात्। घटन्ते न विनाऽहिंसां, सत्यादीन्यपि तत्त्वतः। एतस्या वृत्तिभूतानि, तानि यद्भगवाजगौ // 24 // घटन्त इति अहिंसां विना सत्यादीन्यपि न घटन्ते / यत एतस्या अहिंसाया वृत्तिभूतानि तानि सत्यदीनि भगवान जगौ सर्वज्ञो गदितवान्। नच सत्यादिपालनीयाभावे वृत्तौ विद्वान् यतत इति। ननु हन्मीतिसंकल्प एव हिंसा, तद्योगादेव च हिंसकत्वं तदभावाचाहिंसायास्ततश्च तद्वृत्तिभूतसत्यादीनां नानुपपत्तिरिति चेन्न, हन्मीति संकल्पक्षणस्यैव सर्वथाsनन्वये कालान्तरभाविफलजनकत्वानुपपत्तेः, कथंचिदन्वये चास्मत्सिद्धान्तप्रवेशापाताचेत्यधिकमन्यत्र। मौनीन्द्रे च प्रवचने, युज्यते सर्वमेव हि। नित्यानित्य स्फुटं देहा-द्विन्नाभिन्ने तथात्मनि // 25 // मौनीन्द्र इति-मौनीन्द्रे-वीतरागप्रतिपादिते च प्रवचने सर्वमेव हि हिंसाऽहिंसादिकं युज्यते। नित्याऽनित्ये तथा स्फुट प्रत्यक्षं देहाद्भिन्नाऽभिन्ने आत्मनि सति / तथाहि-आत्मत्वेन नित्यत्वमात्मनः प्रतीयते, अन्यथा परलोकाद्यभावप्रसङ्गात्। मनुष्यादिना चानित्यत्वम्, अन्यथा मनुष्यभावानुच्छेदप्रसङ्गात् / धर्मिग्राहकमानेन तत्र नित्यत्वसिद्धावनित्यत्वधियः शरीरादिविषयकत्यमेवास्त्विति चेन्न धर्मिग्राहकमानेन लक्षण्यकलितस्यैव तस्य सिद्धेर्घटाद्युपादानस्यैव ज्ञानाद्युपादानस्य पूर्वोत्तरपर्यायनाशोत्पादान्वितध्रुवत्वनियतत्वात्। यथा च भ्रान्तत्वाभ्रान्तत्वे परमार्थसंव्यवहारापेक्षया परेषां न ज्ञानस्य विरुद्धे, यथा चैकत्र संयोगतदभावौ, तथा द्रव्यतो नित्यत्वं पर्यायतश्चानित्यत्वं नास्माकं विरुद्धम्। अनपेक्षितविशिष्टरूपं हि द्रव्यम्, अपेक्षितविशिष्टरूपं च पर्याय इति / तथा शरीरजीवयोर्मूर्ताऽमूर्त्तत्वाभ्यां भेदः, देहकण्टकादिस्पर्श वेदनोत्पत्तेश्चाभेद इति / तदुक्तम्- "जीवसरीराणं पि हु, भेआभेओ तहोवलंभाओ / मुत्तामुत्तत्तणओ, छिक्कम्मि य वेयणओ अ // 1 // " न चेदेवं ब्राह्मणो नष्टो ब्राह्मणो जानातीत्यादिव्यवहारानुपपत्तिः विना ब्राहाणस्य व्यासज्यवृत्तित्वमित्यादिकमुपपादितमन्यत्र। पीडाकर्तृत्वतो देह-व्यापत्त्या दुष्टभावतः। त्रिधा हिंसाऽगमप्रोक्ता, न हीथमपहेतुका // 26 // पीडेति-पीडाकर्तृत्वतः पीडायां स्वतन्त्रव्यापृतत्वात् / देहस्य व्यापत्तिर्विनाशस्तया कथंचित्तद्व्यापत्तिसिद्धिरिति भावः / दुष्टभावतो हन्मीति संक्लेशात्। त्रिधा जिनप्रोक्ता हिंसा। इत्थ-मुक्तरूपात्माभ्युपगमे न ह्यपहेतुकाहेतुरहिता भवति। अत्रैव प्रकारान्तरेणासंभवं दूषयितुमुपन्यस्यति-- हन्तुर्जाग्रति को दोषो, हिंसनीयस्य कर्मणि। प्रसक्तिस्तदभावे चाऽ-न्यत्रापीति मुधा वचः // 27 // हन्तुरिति-हिंसनीयस्य कर्मणि हिंसानिमित्तादृष्ट जाग्रतिलब्धवृत्तिके सति हन्तुः को दोषः? स्वकर्मणैव प्राणिनोहतत्वात्, तत्कर्मप्रेरितस्य च हन्तुरस्वतन्त्रत्वेनादुष्टत्वव्यवहारात्। तदभावे च-हिंसनीयकर्मविपाकाभावे च अन्यत्राप्यहिंसनीयेऽपि प्राणिनि प्रसक्तिः हिंसापत्तिरिति हिंसाऽसंभवप्रतिपादकं वचो मुधाऽनर्थकम्। हिंस्यकर्मविपाके य-दुष्टाशयनिमित्तता। हिंसकत्वं न तेनेदं, वैद्यस्य स्याद्रिपोरिव / / 28|| हिंस्येति-हिंस्यस्य प्राणिनः कर्मविपाके सति यद्यस्मात् दुष्टाशयेन हन्मीति संक्लेशेन निमित्तता प्रधानहेतुकर्मोदयसाध्यां हिंसां प्रति निमित्तभावो हिंसकत्वम् तेन कारणेनेदं हिंसकत्वं रिपोरिव वैद्यस्य न स्यात्, तस्य हिंसा प्रति निमित्तभावेऽपि दुष्टाशयाऽनात्तत्वात् / तदिदमाह-"हिंस्यकर्मविपाकेऽपि, निमित्तत्वनियोगतः / हिंसकस्य भवेदेषा, दुष्टादुष्टानुबन्धतः।।१॥" परप्रेरितस्यापिचाभिमरादेरिव दुष्टत्वं व्यपदिश्यत एव। हिंस्यकर्मनिर्जरणसहायत्वेऽपि च तथाविधाऽऽशयामावान्न हिंसकस्य वैयावृत्त्यकरत्वव्यपदेश इति द्रष्टव्यम्। इत्थं सदुपदेशादे-स्तन्निवृत्तिरपि स्फुटा। सोपक्रमस्य पापस्य, नाशात्स्वाशयवृद्धितः // 26 // इत्थमिति-इत्थं परिणामिन्यात्मनि हिंसोपपत्तौ सतांज्ञान-गुरूणामुपदेशादेः, आदिना अभ्युत्थानादिपरिग्रहः। तदाह-"अब्भुट्ठाणे विणए, परक्कमे साहुसेवणाए या संम्मदसणलंभो, विरयाविरईइ विरईए।।१॥" सोपक्रमस्यापर्वतनीयस्यपापस्य चारित्रमोहनीयस्य नाशात्। तन्निवृत्तिरपिहिंसानिवृत्तिरपि स्फुटाप्रकटा स्वाशयस्य शुभाशयस्य न कमपि हन्मीत्याकारस्य वृद्धितोऽनुबन्धात्। तथारुचिप्रवृत्त्या च, व्यज्यते कर्म तादृशम् / संशयं जानता ज्ञातः, संसार इति हि श्रुतिः॥३०॥ तथारुचीति-तथारुच्या सदाचारश्रद्धया प्रवृत्त्या च / ता