________________ वाद 1083 - अभिधानराजेन्द्रः - भाग 6 वाद दव्याक्षिप्तेन अन्तरात्मना-मनसा शास्त्रान्तरनीत्या ोकशावस्त्रोक्तप्रकाराणामहिंसादीनामप्रयुज्यमानता स्फुटमेव प्रतीयत इति स्वतन्त्रनीतिप्रणिधानेनैव विषयव्यवस्था विचार्यमाणा फलवतीति भावः॥१०॥ नतु स्वतन्त्रनीत्याऽपि धर्मसाधनविचारणे प्रमाणप्रमेयादिलक्षणप्रणयने परतन्त्रादिविचारणमप्यावश्यकमिति व्यग्रताऽनुपरमे कदा प्रस्तुतवि चारावसर इत्यत आहप्रमाणलक्षणादेस्तु, नोपयोगोऽत्र कश्चन। तन्निश्चयेऽनवस्थाना-दन्यथार्थस्थितेर्यतः॥११॥ प्रमाणेति-प्रमाण-प्रत्यक्षादि तस्य लक्षणं-स्वपराभासिज्ञानत्वादि; तदादेः, आदिना प्रमेयलक्षणादिग्रहः। तस्यत्वधर्मसाधनविषये कश्चनोपयोगो नास्ति / अयमभिप्रायः-प्रमाणलक्षणेन निश्चितमेव प्रमाणमर्थग्राहकमिति तदुपयोग इति।नचायंयुक्तः, यतस्तल्लक्षणं निश्चितमनिश्चितं वा स्यात्? आद्ये किमधिकृतप्रमाणेन? प्रमाणान्तरेण वा? यदि तेनैव तदेतरेतराश्रयः, अधिकृतप्रमाणाल्लक्षणनिश्चयः तन्निश्चयाच्चाधिकृतप्रमाणनिश्चय इति। यदि च प्रमाणान्तरेण तन्निश्चयस्तदाह- तन्निश्चये प्रमाणान्तरेण तल्लक्षणनिश्चयेऽनवस्थानात्तन्निश्चायकप्रमाणेऽपि प्रमाणान्तरापेक्षाऽविरामात् / यदि च प्रमाणान्तरेणानिश्चितमेव लक्षणं प्रमाणनिश्चये उपयुज्यते इतीष्यते, तदाह- अन्यथाऽन्यतोऽनिश्चितस्य लक्षणस्योपयोगेऽर्थस्थितेरन्यतोऽनिश्चितेनैव प्रमाणेनार्थसिद्धेः। तदुक्तं हरिभद्राचार्येण- "प्रमाणेन विनिश्चित्य, तदुच्येतनवा ननु। अलक्षितात्कथंयुक्ता, न्यायतोऽस्य विनिश्चितिः॥१॥ सत्यांचास्यां तदुक्त्या किं, तद्वद्विषयनिश्चितेः / तत एवाविनिश्चित्य, तस्योक्ति (वा) ान्ध्यमेव हि // 2 // " इत्थमत्र प्रमाणलक्षणादेरनुपयोगः समर्थितः / इममेव सिद्धसेनसंमत्या दृढयन्नाह-यत इति यत आह वादी; सिद्धसेन इत्यर्थः // 11 // प्रसिद्धानि प्रमाणानि, व्यवहारश्च तत्कृतः। प्रमाणलक्षणस्योक्ती, ज्ञायते न प्रयोजनम् // 12|| प्रसिद्धानीति-प्रसिद्धानि लोके स्वत एव रूढानि, न तु प्रमाणलक्षणप्रणेतृवचनप्रसाधनीयानि। प्रमाणानि-प्रत्यक्षादीनि / तथा व्यवहरणंव्यवहारः स्नानपानदहनपचनादिका क्रिया। चशब्दः प्रसिद्धत्वसमुच्चयार्थः / तत्कृतः प्रमाणप्रसाध्यः प्रमाणलक्षणप्रवीणानामपि गोपालवालाबलादीनां तथा व्यवहारदर्शनात्, ततश्च प्रमाणलक्षणस्याविसंवादिज्ञानं प्रमाणमित्यादेरुक्तौ प्रतिपादने ज्ञायते-उपलभ्यते 'न'-नैव प्रयोजनंफलं वर्तते। नेति वक्तव्ये 'ज्ञायते नेति' यदुक्तमाचार्येण तदतिवचनपारुष्यपरिहारार्थम् / यस्त्वत्रायमुदयनस्योपालम्भः ये तु प्रमाणमेव सर्वस्य व्यवस्थापकम्, न तु लक्षणम्, तदपेक्षायामनवस्थेत्याहुस्तेषाम्"निन्दामि च पिवामि चेति" न्यायापातः / यतो व्याप्त्यतिव्याप्तिपरि- | हारेण तत्तदर्थव्यवस्थापकं तत्तद्व्यवहारव्यवस्थापकं च प्रमाणमुपाददते तदेवतुलक्षणम्। अनुवादः स इतिचेदस्माकमप्यनुवाद एव, न ह्यलौकिकमिह किंचिदुच्यते। न चाऽनवस्था वैद्यके रोगादिलक्षणवद्व्याकरणादौ शब्दादिवच व्यवस्थोपपत्तेः, तत्रापि संमुग्धव्यवहारमाश्रित्य लक्षणैरेव व्युत्पादनादिति / सत्वत्र न शोभते,यतो वयं प्रमाणस्यार्थव्यवस्थापकत्वे व्यवहाव्यवस्थापकत्वे वा लक्षणं न प्रयोजकमिति ब्रूमो नतु सर्वत्रैव तदप्रयोजकमिति। समानासमानजातीयव्यवच्छेदस्य तदर्थस्य तत्रतत्र व्यवस्थितत्वात्। सामान्यतो व्युत्पन्नस्य तच्छास्त्रादधिकृतविशेषप्रतीतिपर्यवसानेनानवस्थाभावात्, केवलं केवलव्यतिरेक्येव लक्षणमिति नादरः, प्रमेयत्वादेरपि पदार्थलक्षणत्वव्यवस्थितेः इत्यन्यत्र विस्तरः। वस्तुतो धर्मवादे लक्षणस्य नोपयोगः, स्वतन्त्रसिद्धाहिंसादीनां तादृशधर्मान्तरसंशयजिज्ञासाविचारद्वारकतत्त्वज्ञानेनासद्गृहनिवृत्तेः / अन्यथैवोपपत्तेरितरभिन्नत्वेन ज्ञानस्यतत्साध्यस्यात्रानुपयोगात्संमुग्धज्ञानेनैव कार्यसिद्धिरित्यत्र तात्पर्यम्। नन्वर्थनिश्चयार्थमेव लक्षणोपयोगः, तेन ज्ञानप्रामाण्यसंशयनिवृत्ती तन्मूलार्थसंशयनिवृत्त्याऽर्थनिश्चयसिद्धेः इत्याशङ्कायामाहनचार्थसंशयापत्तिः, प्रमाणेऽतत्त्वशङ्कया। तत्राप्येतविच्छेदा-द्धत्वभावस्य साम्यतः||१३|| नचेति-नच प्रमाणेऽतत्त्वशङ्कयाऽप्रामाण्यशङ्क्तया अर्थसंशयापत्तिः, लक्षणं विनेति गम्यम् / तत्रापि-प्रमाणलक्षणेऽपि / एतदविच्छेदादप्रामाण्यशङ्कायाः स्वरसोत्थापिताया अनुपरमात् / हेत्वभावस्य शङ्काकारणाभावस्य साम्यतः तुल्यत्वात्। प्रमाणलक्षण इव प्रमाणेऽपि शङ्काकारणाभावे, शङ्काया अनुत्पत्तेरित्यर्थः। अहिंसादिधर्मसाधनग्राहकं हि प्रमाणं परेषां षष्टितन्त्रादिकं स्वस्वशास्त्रमेव / तत्र चाहिंसादिग्रहणांशे सर्वतन्त्रप्रसिद्धत्वेन न कदापि संशयस्तद्विशेषांशे तु भवन्नयमनुकूल एव, नचैकांशे शङ्कितप्रामाण्यज्ञानमितरांशस्याप्यनिश्चायकमिति युक्तम्, घटपटसमूहालम्बनात्। घटाशे प्रामाण्यसंशये पटस्याप्यनिश्चयापत्तेरित्याशयवानाहअर्थयाथात्म्यशङ्कातु, तत्त्वज्ञानोपयोगिनी। शुद्धार्थस्थापकत्वं च, तन्त्रं सद्दर्शनग्रहे||१४|| अर्थेति-अर्थस्याहिंसादेर्याथात्म्यस्य स्वतन्त्रप्रसिद्धनित्याश्रयवृत्तित्वादेः शङ्का तु विचारप्रवृत्त्या तत्त्वज्ञानोपयोगिनी / ततश्च प्रतीयमानं शुद्धार्थस्यसर्वथाशुद्धविषयस्य व्यवस्थापकत्वं (स्थापकत्व) प्रमितिजनकत्वम् / सद्दर्शनस्य शोभनागमस्य ग्रहेस्वीकारे तन्त्रप्रयोजकम् तद्ग्रहे च तत एव धर्मसाधनोपलम्भात् किं लक्षणेनेति भावः। तत्रात्मा नित्य एवेति, येषामेकान्तदर्शनम्। हिंसादयः कथं तेषां, कथमप्यात्मनोऽव्ययात्।।१५।। तत्रेति-तत्र धर्मसाधने विचारणीये आत्मा नित्य एव इति येषां सांख्यादीनामेकान्तदर्शनं तेषां हिंसादयः कथं मुख्यवृत्त्या युज्यन्त इति शेषः / कथमपि खण्डितश--