________________ वाद 1082- अभिधानराजेन्द्रः - भाग 6 वाद धर्मव्यवस्थातो वादः प्रादुर्भवतीति तत्स्वरूपमिहोच्यतेशुष्कवादो विवादश्च, धर्मवादस्तथाऽपरः। कीर्तितस्त्रिविधो वाद, इत्येवं तत्त्वदर्शिभिः||१|| शुष्केति-स्पष्टः॥१॥ परानर्थो लघुत्वं वा, विजये च पराजये। यत्रोक्तौ सह दुष्टेन, शुष्कवादः स कीर्तितः / / 2 / / परेति-यत्र दुष्टनात्यन्तमानक्रोधोपेतचित्तेन सहोक्तौ सत्याम्। विजये सति परस्य-प्रतिवादिनः परः-प्रकृष्टो वाऽनर्थोमरणचित्तनाशवैरानुबन्धसंसारपरिभ्रमणरूपः साध्वतिपातनशासनोच्छेदादिरूपो वा। पराजये च सति लघुत्वं वा''जितो जैनोऽतोऽसारं जैनशासनम्" इत्येवमवर्णवादलक्षणं भवति। स शुष्कवादो गलतालुशोषमात्रफलत्वात् कीर्तितः // 2 // छलजातिप्रधानोक्ति-दुस्थितेनार्थिना सह। विवादोऽत्रापि विजया-लाभो वा विघ्नकारिता ||3|| छलेति-दुःस्थितेन दरिद्रेण। अर्थिना लाभख्यातादिप्रयोजनिना सह। छलमन्याभिप्रायेणोक्तस्य शब्दस्याभिप्रायान्तरेण दूषणम्, जातिश्चासदुत्तरम्; ताभ्यां प्रधानोक्तिः विवादोविरुद्धो वादः अत्रापि-विवादेऽपि विजयालाभः परस्यापि छलजात्याद्युद्भावनपरत्वात्। वा अथवा विघ्नकारिता अत्यन्ताप्रमादितया छलादिपरिहारेऽपि प्रतिवादिनोऽर्थिनः पराभूतस्य लाभख्यात्यादिविघातध्रौव्यात्। बाधतेच परापायनिमित्तता तपस्विनः परलोकसाधनमिति। नात्रोभयथाऽपि फलमिति भावः // 3 // ज्ञातस्वशास्त्रतत्त्वेन, मध्यस्थेनाऽघभीरुणा। कथाबन्धस्तत्त्वधिया, धर्मवादः प्रकीर्तितः॥४॥ ज्ञातेति-ज्ञातं स्वशास्त्रस्याभ्युपगतदर्शनस्य तत्त्वं येन, एवंभूतो हि स्वदर्शनं दूषितमदूषितंवा जानीते। मध्यस्थेन-आत्यन्तिक-स्वदर्शनानुरागपरदर्शनद्वेषरहितेन, एवंभूतस्य हि सुप्रतिपादं तत्त्वं भवति। तथा अघभीरुणापातकभयशीलेन, एवंभूतो ह्यसमञ्जसवक्ता न भवतीति। सहेति गम्यते तत्त्वधिया-तत्त्वबुद्ध्या / यः कथाबन्धः स धर्मवादोधर्मप्रधानो वादः प्रकीर्तितः // 4 // वादिनो धर्मबोधादि, विजयेऽस्य महत्फलम्। आत्मनो मोहनाशश्च, प्रकटस्तत्पराजये // 5 // वादिन इति वादिनो विजये सति। अस्य-प्रागुक्तविशेषणविशिष्टस्य | प्रतिवादिनो धर्मः श्रुतचारित्रलक्षणस्तस्य बोधः प्रतिपत्तिस्तदादि / आदिना अद्वेषपक्षपातावर्णवादादिग्रहः / महदुत्कृष्ट फलं भवति / ततः प्रतिवादिनः सकाशात् पराजये चात्मनोऽधिकृतसाधोः मोहस्यातत्त्वादौ तत्त्वाद्यध्यवसायलक्षणस्य नाशश्च प्रकट इत्युभयथाऽपि फलवानयमिति भावः // 5 // अयमेव विधेयस्त-तत्त्वज्ञेन तपस्विना। देशाद्यपेक्षयान्योऽपि, विज्ञाय गुरुलाघवम्।।६।। अयमेवेति-तत्तस्मात् तत्त्वज्ञेन तपस्विना / अयमेव-धर्मवाद एव विधेयः / अपवादमाह-देशो-नगरग्रामजनपदादिः, आदिना कालराजसभ्यप्रतिवाद्यादिग्रहः, तदपेक्षया-तदाश्रयणेन गुरुलाघवंदोषगुणयोरल्पबहुत्वं विज्ञाय अन्योऽपि विवादः कार्यः / / 6 / / अत्र ज्ञातं हि भगवान्, यत्स नाऽभाव्यपर्षदि। दिदेश धर्ममुचिते,देशेऽन्यत्र दिदेशच // 7 // अत्रेति-अत्र देशाद्यपेक्षायां ज्ञातमुदाहरणं हि भगवान् श्रीवर्ध-मानस्वामी / यत् स न अभाव्यपर्षदि प्रथमसमवसरणेऽयोग्यसदसि धर्म दिदेश, अन्यत्र चोचिते प्रति बोध्यजनकलिते देशे धर्म दिदेश / / 7 / / विषयो धर्मवादस्य, धर्मसाधनलक्षणः। स्वतन्त्रसिद्धः प्रकृतो-पयुक्तोऽसद्ग्रहव्यये // 6 // विषय इति-धर्मवादस्य विषयो धर्मसाधनलक्षणः स्वतन्त्रसिद्धः। सांख्यादीनां षष्टितन्त्रादिशास्त्रसिद्धः। असद्ग्रहस्याशोभनपक्षपातस्य व्यये सति, प्रकृतोपयुक्तः प्रस्तुतमोक्षसाधकः / धर्मवादेनेवासद्ग्रहनिवृत्त्या मार्गाभिमुखभावादिति भावः / / 8 // यथाऽहिंसादयः पञ्च-व्रतधर्मयमादिभिः। पदैः कुशलधर्माधैः, कथ्यन्ते स्वस्वदर्शने ||6|| यथेति यथाऽहिंसादयः, आदिनासूनृतास्तेयब्रह्मापरिग्रहपरिग्रहः, पञ्च स्वस्वदर्शने व्रतधर्मयमादिभिः, तथा कुशलधर्माद्यैः पदैः कथ्यन्ते। तत्र महाव्रतपदेनैतानि जैनैरभिधीयन्ते। व्रतपदेन च भागवतैः, यदाहुस्ते"पञ्च व्रतानि पञ्चोपव्रतानि' व्रतानियमाः, उपव्रतानि नियमाः" इति। धर्मपदेन तु पाशुपतैः, यतस्ते दश धर्मानाहुः- "अहिंसा सत्यवचनमस्तैन्यं चाप्यकल्पना / ब्रह्मचर्यं तथाऽक्रोधो, ह्यार्जवं शौचमेव च।।१।। सन्तोषो गुरुशुश्रूषा, इत्येते दश कीर्तिताः"। 10 सांख्यासमतानुसारिभिश्च यमपदेनाभिधीयन्ते-"पञ्च यमाः पञ्च नियमाः" तत्र यमाः-- "तत्र यमाः-" "अहिंसा सत्यमस्तैन्यं ब्रह्मचर्यमव्यवहारश्चेति," नियमास्तु-"अक्रोधो गुरुशुश्रूषा, शौचमाहारलाघवम्। अप्रमादश्चेति' कुशलधर्मपदेन च बौद्धरभिधीयन्ते, यदाहुस्ते-"दशाऽ= कुशलानि, तद्यथा-हिंसा स्तेयान्यथाकामं, पैशून्यं परुषानृतम् / संभिन्नालापंव्यापादमभिध्या दृग्विपर्ययम्॥१|| पापकर्मेति दशधा, कायवाङ्मानसैस्त्यजेत् / इति" अत्र चान्यथाकामः-पारदार्यम्, संभिन्नालापोऽसंबद्धभाषणम्, व्यापादः-परपीडाचिन्तनम्, अभिध्याधनादिष्वसन्तोषः परिग्रह इति यावत्, दृग्विपर्ययोमिथ्याभिनिवेशः, एतद्विपर्ययाच दश कुशलधर्मा भवन्तीति / आदिपदाच ब्रह्मादिपदग्रहः / एतान्येव वैदिकादिभिर्ब्रह्मादिपदेनाभिधीयन्ते इति // 6 // मुख्यवृत्त्या व युज्यन्ते,न वैतानिक दर्शने। विचार्यमेतन्निपुणे-रव्यग्रेणान्तरात्मना / / 10 / / मुख्येति एतानि-अहिंसादीनिक्वदर्शनेयुज्यन्ते, कवा दर्शनेनयुज्यन्ते, एतन्मुख्यवृत्त्याऽनुपचारेण निपुणैर्धर्मविचारनिष्णातैर्विचारणीयम् नान्यदस्त्वन्तरविचारणेधर्मवादाभावप्रसङ्गात्।अव्यग्रेणस्वशास्त्रनीतिप्रणिधाना