________________ वाद 1081- अमिधानराजेन्द्रः - भाग 6 वाद दियुक्ते कृतकत्वादित्यसिद्धो हेतुः, कृतकत्वमसिद्धम्, असिद्धोऽयं हेतुरित्येवमादिभिः प्रकारैरनेकधा संभवति / अथ दूषणमेकमनेकं वा कर्तियेत्, किमत्र तत्त्वम्? पर्षदजिज्ञासायामेकमेव, तस्मादेव परपक्षप्रतिक्षेपस्य सिद्धेर्द्वितीयादिदोषाभिधानस्य वैयर्थ्यात्, तजिज्ञासायां च संभवे यावत्स्फूर्त्यनकमपि प्रौढिप्रसिद्धेः, इति ब्रूमः "दूषणं परपक्षस्य, स्वपक्षस्य च साधनम् / प्रतिवादी द्वयं कुर्याद्, भिन्नाभिन्नप्रयत्नतः" ||1|| इति संग्रहश्लोकः। तृतीयकक्षायां तुवादी द्वितीयकक्षास्थितप्रतिवादिप्रदर्शितदूषणमदूषणं कुर्यात्, अप्रमाणयेच्च प्रमाणम्, अनयोरन्यतरस्येव करणे वादाभासाप्रसङ्गात्। उदयनोऽप्याहनापि प्रतिपक्षसाधनमनिवर्त्य प्रथमस्य साधनत्यावस्थितिः, शङ्कितप्रतिपक्षत्वादिति, अदूषयंस्तु रक्षितस्वपक्षोऽपि न विजयी, श्लाघ्यस्तु स्याद्, वञ्चितपरप्रहार इव तमप्रहरमाण इति चेति। न च प्रथमं प्रमाणं दूषितत्वात् परित्यज्य परोदीरितं च प्रमाणं दूषयित्वा स्वपक्षसिद्धये प्रमाणान्त्रमाद्रियेत्, कथाविरामाभावप्रसङ्गादित्युक्तमेव / अत एव स्वसाधनस्य दूषणानुद्धारे परसाधने विरुद्धत्वोद्भावनेऽपि न जयव्यवस्था; तदुद्धारे तु तदुद्भावनं सुतरां विजयायेति को नाम नानुमन्यते? सोऽयं सर्वविजयेभ्यः श्लाघ्यते विजयो यत्परोऽङ्गीकृतपक्षं परित्यज्य स्वपक्षाराधनं कार्यत इति। वादी तृतीयकक्षायां प्रतिवादिप्रदर्शितं दूषणं दूषयेत; पूर्व प्रमाणं चाप्रमाणयेदिति। एवं चतुर्थपञ्चमकक्षादावपि स्वयमेव विचारणीयम्॥२२॥ अथ तत्त्वनिर्णिनीषुवादे कियत्कक्षं वादिप्रतिवादिभ्यां वक्तव्यमिति निर्णेतुमाहः उभयोस्तत्त्वनिर्णिनीषुत्वे यावत् तत्त्वनिर्णयं यावत्स्फूर्ति च वाच्यम्॥२३॥ एकः स्वात्मनि तत्त्वनिर्णिनीषुः परश्च परत्र, द्वौ वा परस्परम्, इत्येवं द्वावपि यदा तत्त्वनिर्णिनीषू भवतस्तदा यावता तत्त्वस्य निर्णयो भवति, तावत् ताभ्यां स्फूर्ती सत्यां वक्तव्यम् ; अनिर्णये वायावत् स्फुरति तावद् वक्तव्यम्। एवं च स्थितमेतत्-- "स्वं स्वंदर्शनमाश्रित्य, सम्यक्साधनदूषणैः। जिगीषोर्निर्णिनीर्षो, वाद एकः कथाः भवेत्॥१॥ भङ्गः कथात्रयस्याऽत्र, निग्रहस्थाननिर्णयः / श्रीमद्रत्नाकरग्रन्थाद्, धीधनैरवधार्यताम् // 2 // " यतः"प्रमेयरत्नकोटीभिः, पूर्णो रत्नाकरो महान्। तत्रावतारमात्रेण,वृत्तेरस्याः कृतार्थता / / 1 / / प्रमाणे च प्रमेये च,बालानां बुद्धिसिद्धये। किञ्चिद्वचनचातुर्य-चापलायेयमादधे // 2 // न्यायमार्गादतिक्रान्तं, किञ्चिदत्र मतिभ्रमात्। यदुक्तं तार्किकैः शोध्यं, तत् कुर्वाणैः कृपां मयि // 3 // आशावासः समयसमिधां संचयैश्चीयमाने, स्त्रीनिर्वाणोचितशुचिवचश्चातुरीचित्रभानौ। प्राजापत्यं प्रथयति तथा सिद्धराजे जयश्रीर्यस्योद्वाहं व्यधित स सदानन्दतादेवसूरिः॥४॥ प्रज्ञातः पदवेदिभिः स्फुटदृशा संभावितस्तार्किकैः, कुर्वाणः प्रमदाद् महाकविकथां सिद्धान्तमार्गाध्वगः। दुर्वाद्यकुशदेवसूरिचरणाम्भोजद्वयीषट्पदः, श्रीरत्नप्रभसूरिरल्पतरधीरेतां व्यधाद् वृत्तिकाम् // 5 // वृत्तिः पञ्च सहस्राणि,येनेयं परिपठ्यते। भारती भारती चाऽस्य, प्रसर्पन्ति प्रजल्पतः॥६॥" रत्ना०८ परिश शुष्कवादादिवादस्वरूपनिरूपणायाऽऽहशुष्कवादो विवादश्च, धर्मवादस्तथा परः। इत्येष त्रिविधो वादः, कीर्तितः परमर्षिभिः / / 1 / / शुष्क एव शुष्को-नीरसः; गलतालुशोषमात्रफल इत्यर्थः, स चासौ वादश्च कमपि विप्रतिपत्तिविषयमाश्रित्य प्रतिवादिना सह वदनं शुष्कवादः। तथा विरूपोजयप्राप्तावपि परलोकादिबधको वादो विवादः, चशब्द उक्तसमुच्चये, तथा धर्मप्रधानो वादो धर्मवादः, तथा तेनात्यन्तमाध्यस्थ्यादिना धर्महेमकषादिपरीक्षालक्षणेन वा प्रकारेण समुचयार्थो वा तथा शब्दः, परः-प्रधानोऽपरो वा उक्तवादाभ्यामन्यः इत्यनेन प्रकारेण एषोऽनन्तरोक्तास्तिस्रो विधा:-प्रकारा यस्य स त्रिविधः, कीर्तितः-- संशब्दितः परमर्षिभिः-प्रधान मुनिभिरिति // 1 // आद्यवादस्वरूपमाहअत्यन्तमानिना सार्द्ध, कूरचित्तेन च दृढम्। धर्मदिष्टेन मूढेन, शुष्कवादस्तपस्विनः / / 2 / / अत्यन्तम्--अत्यर्थं मानी-गर्दी अत्यन्तमानी तेन स हि जितोऽपि परगुणं न मन्यते सार्द्ध-सह क्रूरचित्तेन--संक्लिष्टाध्यवसायेन स हि जितो वैरी स्यात्, चशब्दः समुच्चये, तथा दृढमत्यर्थं धर्मोजिनाख्यातः श्रुतचारित्ररूपस्तस्यैव दुर्गतौ प्रपतताधरण-समर्थत्वात्तस्य द्विष्टो-द्वेषवान् धर्मद्विष्टः; तेन स हि निराकृतोऽपिधर्म न प्रतिपद्यतेऽतो व्यर्थः प्रयासः स्यात्, तथा-मूढेन-युक्ता-युक्तविशेषानभिज्ञेन स हि वादेऽनधिकृत एव प्रतिवादिना यो वादः स इति गम्यते। किमित्याह- शुष्कवादोऽनर्थकवादो भवतीतिगम्यम्। कस्येत्याह-तपस्विनः-साधोः तपस्विग्रहणं चेह तस्य सदैवोचितप्रवृत्तिकतया योग्यत्वेन शास्त्रेऽधिकारित्वोपदर्शनार्थ-मितरस्य चान्यथात्वेनतत्रानधिकारितोपदर्शनार्थ च। अथवाहे तपस्विनः ! इति। अथ कथमस्य शुष्कवादत्वम्? अनर्थवर्द्धनत्वादिति ब्रूमः, विजयेऽभिभवे तपस्विना कृते सति अस्यात्यन्ताभिमानादिदोषयुक्तस्य प्रतिवादिनः अतिपतनमतिपातः-मरणं स एव आदिर्यस्य चित्तनाशादिदोषवृन्दस्य तदतिपातादि भवतीति गम्यते। स हि विजितो मानात्, म्रियेत चित्तनाशवैरानुबन्धाशुभकर्मबन्धसंसारपरिभ्रमणादिकं वाऽऽप्नुयात् / अथवा-साधोरेव वैरानुबन्धात् सामर्थ्य सत्यतिपातं शासनोच्छेदादि वा कुर्यादिति भावना। तथा लाघवं महात्म्यं हानिर्भवतीति गम्यम्। हा० 12 अष्ट