________________ वाद 1080- अमिधानराजेन्द्रः - भाग 6 वाद कियन्तस्ते स्वयमेवाऽऽशयाऽऽशक्य शक्याः पराकर्तुम्? न च प्रदर्शितेऽपि सामर्थ्य स्वपक्षकपक्षपातिनोऽस्य विश्रम्भः संभवति, येन प्रारब्धमवबुध्येत। दृश्यन्ते हि साधनमिव तत्समर्थनमपि कदर्थयन्तः प्रतिवादिनः, इति साधनमभिधाय सामर्थ्याऽप्रदर्शनेऽपि दोषाभावात् स्थितमेतदकरणे न गुणो न दोष इति। करणे तुयदेव सन्देहस्य विवादस्य वा भवेदास्पदम्, तस्यैवोद्धारं कुर्वाणः समलंक्रियते प्रौढतागुणेन, यदुद्धरेत् तत्सन्दिग्धमेव विवादापन्नमेव चोद्धरेदित्येवमवधार्यते, न तु यावत् सन्दिग्धं विवादापन्नं वा तावत् सर्वमुद्धरेदेव; असंख्याता हि सन्देहविवादयोर्भेदाः, कस्तान कात्स्न्येन ज्ञातुं निराकर्तुवा शक्नुयात्? इति यावत्तेभ्यः प्रसिद्धिः प्रतिभा वा भगवति प्रदर्शयति,तावदुद्धरणीयम्, तद-धिकोद्धारकरणे तु कदर्थ्यते सिद्धसाधनाभिधानादिदोषेण / सिद्धमपि साधयंश्च कदा नामायं वावदूको विरमेदिति सत्यं व्याकुलाःस्मः, एकेन प्रमाणेन समर्थितस्यापि हेतोः पुनः समर्थनाय प्रमाणान्तरोपन्यासप्रसङ्गात्, साध्यादेरप्येवम्, इतिनकाञ्चिदमुष्य सीमानमालोकयामः। तेन सिद्धस्य समर्थनमनर्थकत्वाद् न कर्तव्यम्। 'सिद्धसाध्यसमुच्चारणे सिद्धं साध्यायोपदिश्यते' इति न्यायात् साध्यसिद्धये त्यभिधानमस्यावश्पमुपेयम् अपरथा ह्यसिद्धमसिद्धेन साधयतः किं नाम न सिद्धयेत्? यत्र तु सिद्धत्वेननोपन्यस्तस्यापि सिद्धत्वं सन्दिग्धं विवादाधिरूढं वा भवेत्, तत्र तत्समर्थनं सार्थकमेव / ततः स्थितमेतद् यो यत् सिद्धमभ्युपैति, तंप्रतिनतत्साधनीयमिति। बौद्धो हि मीमांसकं प्रत्यनित्यः शब्दः सत्त्वात्, इत्यभिधायोभयसिद्धस्यार्थक्रियाकारित्वरूपस्य सत्त्वस्यासिद्धत्वमुद्धरन्न कमप्यर्थं पुष्णाति, केवलं सिद्धमेवार्थ समर्थयमानो न सचेतसामादरास्पदम् / अनैकान्तिकत्वं पुनराशक्योधरनधिरोपयति सरसे सभ्यचेतसि स्वप्रौढिवल्लरीम्।तदिह यथाकश्चित् चिकित्सकः कुतश्चित् पूर्वरूपादेः संभाव्यमानोत्पत्तिं दोष चिकित्सति, अन्यः कश्चिदुत्पन्नमेव, कश्चित्त्वसंभाव्यमानोत्पत्तितयाऽनुत्पन्नतया व निश्चिताभावम् , इत्येते त्रयोऽपि यथोत्तरमुत्तममध्यमाधमाः, तवाद्यप्येकः कथञ्चिदाशक्यमानोद्भावनं दोषं समुद्धरति, अपरः परोद्भावितम्, अन्यस्त्वनाशक्यमानोद्भावनमनुद्भावितं चेति, एतेऽपि त्रयो यथोत्तरमुत्तममध्यमाधमा इति परमार्थः ।"स्वपक्षसिद्धये वादी, साधनं प्रागुदीरयेत् / यदि प्रौदिः प्रिया तत्र, दोषामपि तदुद्धरेत्॥१॥" इति, संग्रहश्लोकः। द्वितीय कक्षायांतुप्रतिवादिना स्वात्मनो निर्दोषत्वसिद्धये वादिवदवदात-मेव वक्तव्यम्। द्वयं च विधेयम्-परपक्षप्रतिक्षेपः, स्वपक्षसिद्धश्च / तत्र कदाचिद्वयमप्येतदेकेनैव प्रयत्नेन निवर्त्यते, यथा नित्यः शब्दः कृतकत्वात् , इत्यादौ विरुद्धोद्भावने,परप्रहरणेनैव परप्राणव्यपरोपणात्मरक्षणप्राय चैतत् प्रौढतारूपप्रियसखीसमन्वितामेव विजयश्रियमनुषञ्जयति। असिद्धतायुद्भावने तु स्वपक्षसिद्धये साधनान्तरमनित्यः शब्दः सत्त्वादित्युपाददानः केवलामेव तामवलम्बते। तदप्यनुपाद- | दानस्त्वसिद्धताधुद्भावनभूतं श्लाध्यतामात्रमेव प्राप्नोति, न तु प्रियतमा विजयश्रियम् / यदुदयनोऽप्युपादिशत्- वादिवचनार्थमवगम्याऽनूद्य दूषयित्वा प्रतिवादी स्वपक्षे स्थापनां प्रयुञ्जीत, अप्रयुञ्जानस्तु दूषितपरपक्षोऽपिन विजयी श्लाघ्यस्तु स्यात्, आत्मानमरक्षन् परधातीव वीर इति। तद्यदीच्छेत् प्रौढतान्वितां विजयश्रियम्, तत्राऽप्रयत्नोपनतां तयोः प्राणभूतां हेतोविरुद्धतामवधीरयेत्, निपुणतरमन्विष्य सति संभवे तामेव प्रसाधयेत् / न च विरुद्धत्वमुद्भाव्य स्वपक्षसिद्धये साधनान्तरमभिदधीत, व्यर्थत्वस्य प्रसक्तेः। एवं तृतीयकक्षास्थितेन वादिना विरुद्धत्वे परिहते चतुर्थकक्षायामपि प्रतिवादी तत् परिहारोद्धारमेव विदधीत, न तुदूषणान्तरमुद्भाव्य स्वपक्षं साधयेत्, कथाविरामाभावप्रसङ्गात्। नित्यः शब्दः कृतकत्वात्, इत्यादौ हि कृतकत्वस्य विरुद्धत्वमुद्भावयता प्रतिवादिना नियतं तस्यैवाऽनित्यत्वसिद्धौ साधनत्वमध्यवसितम्, अत एव न तदाऽसौ साधनान्तरमारचयति। स चेदयं चतुर्थकक्षायां तत्परिहारोद्धारमनवधारयन् प्रकारान्तरेण परपक्षं प्रतिक्षिपेत्, स्वपक्षं च साधयेत्, तदानीं वादिना तदूषणे कृते स पुनरन्यथा समर्थयेत्, इत्येवमनवस्था। किञ्च-एवं चेत् प्रतिवादी विरुद्धत्वोद्भावनमुखेनाऽनित्यत्वसिद्धौ स्वीकृतमपि कृतकत्वं हेतुं परिहत्य सत्त्वादिरूपं हेत्वन्तरमुररीकुर्यात्, तदा वाद्यपि नित्यत्वसिद्धौ तमुपात्तं परित्यज्य प्रत्यभिज्ञायमानत्वादि साधनान्तरमभिदधानः कथं वार्येत? अनिवारणे तु सैवानवस्था सुस्थाप्यते। तदिदमिह रहस्यम्-उपक्रान्तं साधनं दूषणं वा परित्यज्य नापरं तदुदीरयेदिति ! विरुद्धत्वोद्भावनवत् प्रत्यक्षेण पक्षबाधोद्भावनेऽप्येकप्रयत्ननिर्वयें एव परपक्षप्रतिक्षेपस्वपक्षसिद्धी / कदाचिद् भिन्नप्रयत्ननिर्व] एते संभवतः, तत्र चायमेव क्रमः -प्रथम परपक्षप्रतिक्षेपः, तदनुस्वपक्षसिद्धिरिति। यथा-नित्यःशब्दश्चाक्षुषत्वात्, प्रमेयत्वाद्वा, इत्युक्तेऽसिद्धत्वानैकान्तिकत्वाभ्यां परपक्ष प्रतिक्षिपेत्, अनित्यः शब्दः कृतकत्वात्, इत्यादिना च प्रमाणेन स्वपक्षं साधयेत्। ननुन परं निगृह्य स्वपक्षसिद्धये साधनमभिधानाहम्, पराजितेन साधु विवादाभावात्, न खलुलोकेऽपि कृतान्तवक्त्रान्तरसंचारिणा सह रणो दृष्टः श्रुतो वेति। तत् किमिदानी द्वयोर्जिगीषतोः क्वचिद्देशे राज्याभिषेकाय स्वीकृतविभिन्नराजबीजयोरेकश्चदन्यतरं निहन्यात, तदा स्वीकृतं राजबीजं न तत्राभिषिञ्चेत्? तदर्थमेव ह्यसौ परं निहतवान् अकलङ्कोऽप्यभ्यधात्-"विरुद्ध हेतुमुद्भाव्य, वादिनंजयतीतरः। आभासान्तरमुदाव्य, पक्षसिद्धिमपेक्षते" / / 1 / / इति / परपक्षंच दूषयन्थावता दोषविषयः प्रतीयते, तावदनुवदेत् निराश्रयस्य दोषस्य प्रत्येतुमशक्यत्वात्। न च सर्व दोषविषयमेकदैवाऽनुवदेत् एवं हि युगपद्दोषाभिधानस्य कर्तुमशक्यत्वात्, क्रमेण दोषवचनेकार्ये,ततोनिर्धार्यपुनः प्रकृतदोषविषयःप्रदर्शनीयः, अप्रदर्शितेतस्मिन्दोषस्य वक्तुमशक्यत्वात्, तथा च द्विरनुवादः स्यात्, तत्र चप्राक्तनंसर्वानुभाषणव्यर्थमेवभवेदिति। अनुवादश्चाऽनित्यः शब्दः कृतकवा