________________ वाद 1078- अभिधानराजेन्द्रः - भाग 6 वाद द्वितयमपि कर्तव्यम्, एकतरस्यापि विरहे तत्त्वनिर्णयानुत्पत्तेः / अत एव स्वपक्षेत्यादिद्विवचनेनोपक्रम्यापि कर्मेत्येकवचनम्, यथेन्धनध्मानाधिश्रयणादीनामन्यतमस्याप्यपाये विक्लित्तेरनिष्पत्तेः सर्वेषामपि पाक इत्येकतया व्यपदेश इति / स्वपक्षस्थापनपरपक्षप्रतिक्षेपयोः समासेन निर्देशः क्वचिदेकप्रयत्ननिष्पन्नताप्रत्यायनार्थम् / यदा हि निवृत्तायां प्रथमकक्षायां प्राप्तावसरायां च द्वितीय-कक्षायां प्रतिवादी न किञ्चिद् वदति, तदानीं प्रथमकक्षायां स्वदर्शनानुसारेण सत्प्रमाणोपक्रमत्वे स्वपक्षस्थापनमेव परपक्षप्रतिक्षेपः, यदावा-विरुद्धत्वादिकमुद्भावयेत्, तदा परपक्षप्रतिक्षेप एव स्वपक्षसिद्धिः; इति समासेऽपि तुल्यकक्षताप्रदर्शनार्थमितरेतर-योगद्वन्द्वः। यथा स्वपक्षः स्थाप्यते तथा परपक्षः प्रतिक्षेप्यः, यथा चायं प्रतिक्षिप्यते तथा स्वपक्षः स्थाप्यः, न तु सर्वत्र पारिशेष्यात् परितोषिणा भवितव्यम्। 'मानेन पक्षप्रतिपक्षयोःक्रमात्, प्रसाधनक्षेपणकेलिकर्मठौ। वादेऽत्र मल्लप्रतिमल्लनीतितो, वदन्ति वादिप्रतिवादिनौ बुधाः // 1 // " ||17|| वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थ्यैरुभयाभिमताः सम्याः॥१८॥ नदीष्ण इति-कुशलः, प्राधान्यख्यापनार्थं वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वस्य प्रथमं निर्देशः। न चैतद् बहुश्रुतत्वे सत्यवश्यंभावि, तस्यान्यथाऽपि भावात, अवश्यापेक्षणीयं चैतत्, इतरथा वादिप्रतिवादिप्रतिपादितसाधनदूषणेषु सिद्धान्तसिद्धत्वादिगुणानां तद्वाधितत्वादिदोषाणां चावधारयितुमशक्यत्वात्। सत्यप्येतस्मिन् धारणामन्तरेण न स्वावसरे गुणदोषावबोधकत्वमिति धारणाया अभिधानम् / कदाचिद् वादिप्रतिवादिभ्यां स्वात्मनः प्रौढताप्रसिद्धये स्वस्वसिद्धान्ताप्रतिपादितयोरपि व्याकरणादिप्रसिद्धयोः प्रसङ्गतः प्रयुक्तोद्भावितयोर्विशेषलक्षणच्युतसंस्कारादिगुणदोषयोः परिज्ञानार्थ बाहुश्रुत्योपादानम् / ताभ्यामेव स्वस्वप्रतिभयोत्प्रेक्षितयोस्तत्तद्गुणदोषयोनिर्णयार्थ प्रतिभायाः प्रतिपादनम्। वादिप्रतिवादिनोर्मध्ये यस्य दोषोऽनुमन्यतेस यदि कश्चिद् कदाचित् परुषमप्यभिदधीत, तथापि नैते सभासदः कोपपिशाचस्य प्रवेशं सहन्ते, तत्त्वावगमव्याघातप्रसङ्गादिति क्षान्तेरुक्तिः। तत्त्वं विदन्तोऽपि पक्षपातेन गुणदोषौ विपरीतावपि प्रतिपादयेयुरिति माध्यस्थ्यवचनम्। एभिःषभिर्गुणैरुभयोः प्रकरणात् वादिप्रतिवादिनोरभिप्रेताः सभ्या भवन्ति।सभ्या इति बहुवचनं त्रिचतुरादयोऽमी प्रायेण कर्तव्या इति ज्ञापनार्थम्, तदभावेऽपि द्वावेको वाऽसौ विधेयः // 18 // वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाऽग्रवादोत्तरवादिनिर्देशः, साधकबाधकोक्तिगुणदोषाऽवधारणम् यथाऽवसरं तत्त्वप्रकाशनेन कथाविरमणम, यथासंभवं सभायां कथाफलकथनं चैषां कर्माणि // 16 // यत्र स्वयमस्वीकृतप्रतिनियतवादस्थानको वादिप्रतिवादिनौ समुपतिष्ठेते, तत्र सभ्यास्तौ प्रतिनियतं वादस्थानकं सर्वानुवादेन दूष्यानुवादेन | वा वर्गपरिहारेण वा वक्तव्यमित्यादियोऽसौ कथाविशेषस्तंचाङ्गीकारयन्ति अस्याग्रवादोऽस्य चोत्तरवाद इति च निर्दिशन्ति, वादिप्रतिवादिभ्यामभिहितयोः साधकबाधकयोर्गुणं दोषं चावधारयन्ति / यदैकतरेण प्रतिपादितमपि तत्त्वं मोहादभिनिवेशाद् वाऽन्यतरोऽनङ्गीकुर्वाण: कथायां न विरमति, यदावाद्वावपि तत्त्वपराङ्मुखमुदीरयन्तौन विरमतः, तदा तत्त्वप्रकाशनेन तौ विरमयन्ति / यथायोगं च कथायाः फलं जयपराजयादिकमुद्धोषयन्ति, तैः खलूद्धोषितं तन्निर्विवादतामवगाहते। "सिद्धान्तद्वयवेदिनः प्रतिभया प्रेम्णा समालिङ्गितास्तत्तच्छास्त्रसमृद्धिबन्धुर-धियो निष्पक्षपातोदयाः। क्षान्त्या धारणयाचरञ्जितहृदो बाद द्वयोः संमताः, सभ्याः शम्भुशिरोनदीशुचिशुभैर्लभ्यास्त एते बुधैः||१॥" |16 // प्रज्ञाश्चर्यक्षमामाध्यस्थ्यसंपन्नः सभापतिः॥२०॥ यद्यप्युक्तलक्षणानां सभ्यानां शाठ्यं न संभवति, तथापि वादिनः प्रतिवादिनो वा जिगीषोस्तत् संभवत्येवेति सभ्यानपि प्रति विप्रतिपत्तौ विधीयमानायां नाऽप्राज्ञः सभापतिस्तत्र तत्समयोचितं तथा तथा विवेक्तुमलम्, न चासौ सभ्यैरपि बोधयितुं शक्यते, स्वाधिष्ठितवसुन्धरायामस्फुरिताऽऽश्वर्यो न स कलहं व्यपोहितु-मुत्सहते, उत्पन्नकोपा हि पार्थिवा यदि न तत्फलमुपदर्शययुः, तदा निदर्शनमकिंचित्कराणां स्युः, इति सफले तेषां कोपे वादोपमर्द एव भवेदिति / कृतपक्षपाते च सभापतौ सभ्या अपि भीतभीता इवैकतः किल कलङ्कः, अन्यतश्चालम्बितपक्षपातः प्रतापप्रज्ञाधिपतिः सभापतिरिति 'इतस्तटमितो व्याघ्रः' इति नयेन कामपि कष्टां दशामाविशेयुः, न पुनः परमार्थं प्रथयितुं प्रभवेयुः, इत्युक्तं प्रज्ञाऽऽज्ञैश्वर्यक्षमामाध्यस्थ्यसंपन्न इति॥२०॥ वादिसम्याऽभिहिताऽवधारणकलहव्यपोहाऽऽदिकं चास्य कर्म // 21 // वादिभ्यां सभ्यैश्वाभिहितस्याऽर्थस्याऽवधारणम्, वादिनोः कलहव्यापोहो यो येन जीयते स तस्य शिष्य इत्यादेवादिप्रतिवादिभ्यां प्रतिज्ञातस्यार्थस्य कारणा, पारितोषिकवितरणादिकंच सभापतेः कर्म / "विवेकवाचस्पतिरुच्छ्रिताज्ञः, क्षमान्वितः संहृतपक्षपातः। सभापतिः प्रस्तुतवादिसभ्यैरभ्यर्थ्यते वाद-समर्थनार्थम्॥१॥" // 21 // अथ जिगीषुवादे कियत्करं वादिप्रतिवादिभ्यां वक्तव्यमिति निर्णेतुमाहुःसजिगीषुकेऽस्मिन् यावत्सम्यापेक्षं स्फूर्ती वक्तव्यम् / / 22 / / सह जिगीषुणा जिगीषुभ्यां जिगीषुभिर्वा वर्तते योऽसौ तथा तस्मिन् वादे, वादिप्रतिवादिगतायाः स्वपक्षसिद्धिपरपक्षप्रतिक्षेप-विषयायाः शक्तेरशक्तेश्च परीक्षणार्थ यावत् तत्र भवन्तः सभ्याः किलाऽपेक्षन्ते, तावत् कक्षाद्वयत्रयादिस्फूर्ती सत्यां वादिप्रतिवादिभ्यां वक्तव्यम् / ते चवाच्यौचित्यपरतन्त्रतया कदाचित्क्वचित् कियदप्यपेक्षन्ते इति नास्ति कश्चित् कक्षानियमः / इह हि जिगीषुतरतया यः कश्चिद् विपश्चित् प्रागेव पराक्षेपपुरः सरं वादसंग्रामसीम्नि प्रवर्तते, तस्य स्वयमेव वादवि