________________ वाद 1077 - अभिधानराजेन्द्रः - भाग 6 वाद ततील ली च / तथा वादी स्वात्मनि तत्त्वनिर्णिनीषुः प्रतिवादी तु जिगीषुर्न स्वात्मनि तत्त्वनिर्णिनीषुर्न परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केवली च। तथा वादी परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली प्रतिवादी तु जिगीषुः, स्वात्मनि तत्त्वनिर्णिनीषुः, परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केवली च / तथा वादी पत्र तत्त्वनिर्णिनीषुः केवली च प्रतिवादीतुजिगीषुः, स्वात्मनितत्त्वनिर्णिनीषुः,परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केवलीचना एवमेते चत्वारश्वतुष्का षोडश नजुपलक्षितेषु चतुर्युपातितेषुद्वादशभवन्ति-"अङ्गनैयत्यनिश्चित्य, वादे वादफलार्थिभिः / द्वादशैवाऽवसातव्या, एते भेदा मनस्विभिः"। अङ्गनियममेव निवेदयन्तितत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव, अन्यतमस्याऽप्यङ्गस्यापाये जयपराजयव्यवस्थादिदौस्थ्यापत्तेः।।१०|| उक्तेभ्यश्चतुभ्यः प्रारम्भकेभ्यः प्रथमे जिगीषौ प्रारम्भके सतिप्रथमस्य जिगीषोरेव, तृतीयस्य परत्र तत्त्वनिर्णिनीषुभेदस्य क्षायोपशमिकज्ञानशालिनः तद्भेदस्यैव, तुरीयस्य केवलिनश्च प्रत्यारम्भकस्य प्रतिवादिनश्चतुरङ्ग एव प्रकरणाद् वादो भवति / वादिप्रतिवादिरूपयोरगयोरभावे वादस्यानुत्थानोपहततैव, इति तयोरयत्नसिद्धत्वेऽप्यपराङ्गद्वयस्यावश्यम्भावप्रदर्शनार्थ चतुरङ्गत्वं विधीयते / प्रसिद्धं च सिद्धांशमिश्रितस्याऽप्यसिद्धस्यांशस्य विधानम् / यथा-शब्दे हि समुच्चारिते यावनर्थः प्रतीयते तावति शब्दस्याभिधैव व्यापार इति, निःशेषच्युतचन्दनम्-इत्यादौ वाच्य एवैकोऽर्थ इति प्रत्यवस्थितं प्रति द्वावेतावों-वाच्यः,प्रतीयमानश्चेत्येवंरूपतया वाच्यस्य सिद्धत्वेऽपि प्रतीयमानपार्थक्यसिद्धयर्थं द्वित्वविधानम्। तत्र वादिप्रतिवादिनोरभावे वाद एव न संभवति, दूरे जय-पराजयव्यवस्था; इति स्वतः सिद्धावेव तौ। तत्र च वादिवत् प्रतिवाद्यपि चेजिगीषुः, तदानीमुभाभ्यामपि परस्परस्य शाठ्यक-लहादेर्जयपराजयव्यवस्थाविलोपकारिणो निवारणार्थलाभाद्यर्थ वाऽपराङ्गद्वयमप्यवश्यमपेक्षणीयम्! अथतृतीयस्तुरीयो वाऽसौ स्यात्, तथाऽप्यनेन जिगीषोर्वादिनः शाठ्यकलहाद्यपोहाय, जिगीषुणा च प्रारम्भकेण लाभपूजाख्यात्यादिहेतवे तदपेक्ष्यत एवेति सिद्धैव चतुरङ्गता / स्वात्मनि तत्त्वनिर्णिनीषुस्तु जिगीषु प्रति वादितां प्रतिवादितां च न प्रतिपद्यते, स्वयं तत्त्वनिर्णयानभिमाने परावबोधार्थ प्रवृत्तेरभावात् तस्मात् तत्त्वनिर्णयासम्भवाच्च; इति नायमिहोत्तरत्र च निर्दिश्यते // 10 // अनयैव नीत्या जिगीषुमिव स्वात्मनि तत्त्वनिर्णिनीषुमपि प्रत्यस्य वादिता प्रतिवादिता वा न सङ्गच्छत इति पारिशेष्यात् तृतीयतुरीययोरेवास्मिन्वादः सम्भवतीति। तृतीयस्य तावदङ्गनियममभिदधतेद्वितीये तृतीयस्य कदाचिद् व्यङ्गः, कदाचित् व्यङ्गः // 11 // स्वात्मनि तत्त्वनिर्णिनीषौ वादिनि समुपस्थिते सति तृतीयस्य परत्र तत्त्वनिर्णिनीषोः क्षायोपशमिकज्ञानशालिनः प्रतिवादिनः कदाचिद् व्यङ्गो वादो भवति, यदा जयपराजयादिनिरपेक्षयाऽपेक्षितस्तत्त्वाव बोधो वादिनि प्रतिवादिना कर्तुं पार्यते, तदानीमितरस्य सभ्यसभापतिरूपस्याऽङ्गद्वयस्यानुपयोगात्। न ह्यनयोः स्वपरोपकारायैव प्रवृत्तयोः शाठ्यकलहादिलाभादिकामभावाः सम्भवन्तियदा पुनरुत्ताम्यताऽपि क्षायोपशमिकज्ञानशालिना प्रतिवादिना न कथंचित्तत्त्वनिर्णयः कर्तु शक्यते, तदा तन्निर्णयार्थमुभाभ्यामपि सभ्यानामपेक्ष्यमाणत्वात् कलहलाभाद्यभिप्रायाभावेन सभापतेरनपेक्षणीयत्वात् त्र्यङ्गः॥१॥ द्वितीय एव वादिनिचतुर्थस्याङ्गनियममाहुःतत्रैव द्व्यङ्गस्तुरीयस्य // 12 // तत्रैव द्वितीये स्वात्मनि तत्त्वनिर्णिनीषौ वादिनि, तुरीयस्य परस्त्र तत्त्वनिर्णिनीषोः केवलिनः प्रतिवादिनः, द्व्यङ्ग एव वादः, तत्त्वनिर्णायकत्वाभावासंभवेन सभ्यानामभिहितदिशा सभापतेश्चाऽनपेक्षणात् // 12 // तृतीयेऽङ्गनियममाहुःतृतीये प्रथमादीनां यथायोगं पूर्ववत्॥१३॥ परत्र तत्त्वनिर्णिनीषौ क्षायोपशमिकज्ञानशालिनि वादिनि, निवेदितस्वरूपाणां प्रथमद्वितीयतृतीयतुरीयाणां प्रतिवादिनाम्, उक्तयुक्त्यैव प्रथमस्य चतुरङ्गः, द्वितीयतृतीययोः कदाचिद्व्यङ्गः, कदाचित् त्र्यङ्गः, तुरीयस्य तु व्यङ्ग एव वादो भवति। निःसीमा हि मोहहतकस्य महिमा, इति कश्चिदात्मानं निर्णीततत्त्वमिव मन्यमानः समग्रपदार्थपरमार्थदर्शिनि केवलिन्यपि तन्निर्णयोपजननार्थं प्रवर्तत इति न कदाचिदसम्भावना, भगवांस्तु केवली प्रवलकृपापीयूषपूरपूरितान्तः करणतया तमप्यवबोधयतीति को नाम नानुमन्यते? // 13 // परोपकारैकपरायणस्य भगवतः केवलिनः संभवन्त्यपि परत्र तत्त्वनिर्णिनीषा न केवलकलावलोकितसकलवस्तुतया कृतकृत्ये केवलिनि विलसितुमुत्सहत इति प्रथमादीनां त्रयाणामेवाङ्गनियममाहुःतुरीये प्रथमादीनामेवम् // 14 // परत्र तत्त्वनिर्णिनीषौ केवलिनि वादिनि, प्रथमद्वितीयतृतीयानामेवमिति पूर्ववत् / प्रथमस्य चतुरङ्गः, द्वितीयतृतीययोस्तु व्यङ्ग एव वादो भवतीत्यर्थः, "प्रारम्भकापेक्षतया यदेव मङ्गव्यवस्था लभते प्रतिष्ठाम्। संचिन्त्य तस्मादमुमादरेण, प्रत्यारभेतप्रतिभाप्रगल्भः॥१॥" ||14|| चतुरङ्गो वाद इत्युक्तम्, कानि पुनश्चत्वार्यङ्गानि? इत्याहुःवादिप्रतिवादिसभ्यसभापतयश्चत्वार्यानि।।१५।। स्पष्टम्॥१५॥ अर्थतेषां लक्षणं कर्मच कीर्तयन्तिप्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ ||16|| यौ तौ प्रारम्भकप्रत्यारम्भको पूर्वमुक्तौ, तावेव परस्परं वादिप्रतिवादिनौ व्यपदिश्यते, यथा-दौ नियुध्यमानौ मलप्रतिमल्लाविति॥१६॥ प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म // 17 // वादिना प्रतिवादिना च स्वपक्षस्थापनं परपक्षप्रतिक्षे पश्च