________________ वाद 1076 - अभिधानराजेन्द्रः - भाग 6 वाद वार्तायाम्, बृ०१उ०३प्रक० / विकत्थने, स्था०६ ठा०३ उ०ा स्वदर्शनस्थापनलक्षणे; (संथा०1) पूर्वपक्षे, अष्ट० 5 अष्ट०। द्वा० अङ्गीकारे, सूत्र०१ श्रु०१अ०४ उसमभ्युपगम्यपञ्चावयवेन त्र्यवयवेन वा वाक्येन छलजातिविरहिते भूतान्वेषणपरे समर्थने, स०१२ सम०। सूत्रा प्रमाणनयतत्त्वं व्यवस्थाप्य संप्रति तत्प्रयोगभूमिभूतं वस्तुनिर्णयाभिप्रायोपक्रमं वादं वदन्तिविरुद्धयोधर्मयोरेकधर्मव्यवच्छेदेन स्वीकृत्य तत्तदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वादः।।१।। विरुद्धयोरेकत्र प्रमाणेनाऽनुपपद्यमानोपलम्भयोधर्मयोर्मध्यादिति निर्धारणे षष्ठी सप्तमी वा / विरुद्धावेव हि धर्मावेकान्तनित्यत्वकथश्चिन्नित्यत्वादी वादं प्रयोजयतः, न पुनरितरौ तद्यथा-पर्यायवद् द्रव्यं गुणवच्च, विरोधश्चैकाधिकरणत्वैककालत्वयोरेव सतोः संभवति / अनित्या बुद्धिर्नित्य आत्मेति भिन्नाधिकरणयोः पूर्व निष्क्रियम् , इदानीं क्रियावद् द्रव्यमिति भिन्नकालयोश्च तयोः प्रमाणेन प्रतीतौ विरोधासंभवात्। अयमेव हि विरोधो यत्प्रमाणेनाऽनुपलम्भनं नाम, अन्यथाऽपि तस्याभ्युपगमे सर्वत्र तदनुषङ्ग-प्रसङ्गात् इति विरुद्धत्वान्यथानुपपत्तेरेकाधिकरणत्वैककालत्वयोरवगतौ। यद्न्यायभाष्ये- "वस्तुधमविकाधिकरणौ विरुद्धावेककालावनवसितौ" इति तयोरुपादानम्, तत् पुनरुक्तम्, अपुष्टार्थं वा / यदप्यत्रैवानवसिताविति, तदप्यव्यापकम्, यतो वीतरागविषयवादकथायामनवसितत्वसद्भावेऽपि जिगीषुर्गोचरवादकथायां तदसद्भावात् / वीतरागवादो ह्यन्यतरसन्देहादपि प्रवर्तते। जिगीषुगोचरः पुनर्वादोन नाम निर्णयमन्तरेण प्रवर्तितुमुत्सहते। तथाहिवादी शब्दादौ नित्यत्वं स्वयं प्रमाणेन प्रतीत्यैव प्रवर्तमानोऽसमानप्रतिपक्षप्रतिक्षेपमनोरथोऽहमहमिकयाऽनुमानमुपन्यस्यति, प्रतिवाद्यपि तत्रैव धर्मिणि प्रतिपन्नानित्यत्वधर्मस्तथैव दूषणमुदीरयतीति व नाम वादकथाप्रारम्भात् प्रागनवसायस्यावकाशः? ततोऽयं सूत्रार्थ:यावेकाधिकरणावेककालौ च धर्मो विरुध्येते, तयोर्मध्यादेकस्य सर्वथा नित्यत्त्वस्य कथंचिन्नित्यत्वस्य वा, व्यवच्छेदेन निरासेन, स्वीकृततदन्यधर्मस्य कथंचिन्नित्यत्वस्य सर्वथा नित्यत्वस्य वा, व्यवस्थापनार्थ वादिनः प्रतिवादिनश्च साधनदूषणवचनं वाद इत्यभिधीयते। सामर्थ्याच्च स्वपक्षविषयं साधनम्, परपक्षविषयं तु दूषणम्, साधनदूषणवचने च प्रमाणरूपे एव संभवतः, तदितरयोस्तयोस्तदाऽऽभासत्वात् न च ताभ्यां वस्तु साधयितुं दूषयितुं वा शक्यमिति / ननुयस्मिन्नेव धर्मिण्येकतरधर्मनिरासेन तदितरधर्मव्यवस्थापनार्थं वादिनः साधनवचनम्, कथं तस्मिन्नेव प्रतिवादिनस्तद्विपरीतंदूषणवचनमुचितं स्यात्? व्याघातात्, इति चेत्, तदसत्, स्वाभिप्रायानुसारेण वादिप्रतिवादिभ्यां तथा साधनदूषणवचने विरोधाभावात् / पूर्वं हि तावद् वादी स्वाभिप्रायेण साधनमभिधत्ते,पश्चात् प्रतिवाद्यपि स्वाभिप्रायेण दूषणमुद्भावयति / न खल्वत्र साधनं दूषणं चैकत्रैव धर्मिणि तात्त्विकमस्तीति न विवक्षितम्, किन्तु-स्वस्वाभिप्रायानुसरणेन वादिप्रतिवादिनी ते तथा प्रयुञ्जाते, इति तथैवोक्ते // 1 // अङ्गनियमभेदप्रदर्शनार्थ वादे प्रारम्भकभेदौ वदन्ति-- प्रारम्भकश्चात्र जिगीषुः, तत्त्वनिर्णिनीषुश्च / / 2 / / तत्र जिगीषुः प्रसह्य प्रथमं च वादमारभते. प्रथममेव च तत्त्वनिर्णिनीषुः, इति द्वावप्येतौ प्रारम्भको भवतः / तत्र जिगीषोः-"सारङ्गमातङ्गतुरङ्गयूथाः, पलाय्यतामाशु वनादमुष्मात्। साटोपकोपस्फुटकेसरश्रीमृगाधिराजोऽयमुपेयिवान् यत् // 1 // " इत्यादिविचित्रपदोत्तम्भनम्। अयि ! कपटनाटकपटो ! सितपट ! किमेतान् मन्दमेधसस्तपस्विनः शिष्यानलीकतुण्डताण्डवाडम्बरप्रचण्डपाण्डित्याविष्कारेण विप्रतारयसि? क जीवः? न प्रमाणदृष्टमदृष्टम्, दवीयसी परलोकवार्तेति साक्षादाक्षेपोवा, न विद्यते निरवद्यविद्यावदातस्तव सदसि कश्चिदपि विपश्चि.. दित्यादिना भूपतेः समुत्तेजनंच, इत्यादिर्वादारम्भः। तत्त्वनिर्णिनीषोस्तु सब्रह्मचारिन् ! शब्दः किं कथञ्चिद् नित्यः स्याद् नित्य एव वेति संशयोपक्रमो वा, कथञ्चिद् नित्य एव शब्द इति निर्णयोपक्रमो वा इत्यादिरूपः / वचनव्यक्ती सूत्रेष्वतन्त्रे, क्वचिदेकस्मिन्नपि प्रौढ़े प्रतिवादिनि बहवोऽपि संभूय विवदेरन् जिगीषवः, पर्यनुयुञ्जीरंश्च तत्त्वनिर्णिनीषवः, सच प्रौढतयैवतांस्तावतोऽप्यभ्युपैति, प्रत्याख्यातिच, तत्त्वं चाचष्टे / क्वचिदेकमपि तत्त्वनिर्णिनीषु बहवोऽपि तथाविधाः प्रतिबोधयेयुः। इत्यनेकवादिकृतः,स्त्रीकृतश्च वादारम्भः संगृह्यते॥२॥ तत्र जिगीषोः स्वरूपमाहुःस्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छुर्जिगीषुः // 3 // स्वीकृतो धर्मः शब्दादेः कथञ्चिद् नित्यत्वादियः तस्य व्यवस्थापनार्थम्, यत्सामर्थ्यात्तस्यैव साधनं परपक्षस्य च दूषणम्, ताभ्यां कृत्वा परं पराजेतुमिच्छुर्जिगीषुरित्यर्थः / एतेन यौगिकोऽप्ययं जिगीषुशब्दो वादाधिकारिनिरूपणप्रकरणे योगरूढ इति प्रदर्शितम् // 3 / / (तत्त्वनिर्णिनीषोः स्वरूपं "तत्तणिण्णिणीसु" शब्दे चतुर्थभागे 2181 पृष्ठगतम्।) वादिप्रतिवादिनोर्हस्तिप्रतिहस्तिन्यायेन प्रसिद्धेर्यावद् वादिनः, तावद् वैव प्रतिवादिभिरपि भवितव्यम्? इत्याहुः-- एतेन प्रत्यारम्भकोऽपि व्याख्यातः || आरम्भकं प्रति प्रतीपं चाऽऽरभमाणः प्रत्यारम्भकः,सोऽयमेतेन प्रारम्भकभेदप्रभेदप्ररूपणेन व्याख्यातः / प्रदर्शितभेदप्रभेदः सहृदयैः स्वयमवगन्तव्यः / एवं च प्रत्यारम्भकस्यापिजिगीषुप्रभृतयश्चत्वारः प्रकाराभवन्ति / तत्र यद्यप्येकैकशः प्रारम्भकस्य प्रत्यारम्भकेण साधू वादेषोडशभेदाः प्रादुभवन्ति, तथापि जिगीषोः स्वात्मनितत्त्वनिर्णिनीषुणा, स्वात्मनितत्त्वनिर्णिनीषोर्जिगीषुणा, स्वात्मनि तत्त्वनिर्णिनीषोः स्वात्मनि तत्त्वनिर्णिनीषुणा च, केवलिनश्च केवलिना सह वादोन संभवत्येव, इति चतुरो भेदान् पातयित्वा द्वादशैवतेऽत्रगण्यन्ते। तद्यथा-वादीजिगीषुः, प्रतिवादीतुजिगीषुः स्वात्मनि तत्त्वं निर्णिनीषुर्न, पस्त्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केव