________________ वाणारसी १०७३-अभिधानराजेन्द्रः - भाग 6 वाणारसी मद्राक्षोत्। सर्पमाक्रम्य स्थितं कुललं तमेव चण्डग्रासैः खादन्तं सर्प च कुललवशगतमपि विकुणिमण्डूकभक्षणं वीक्ष्य प्रतिबुद्धः प्रव्रज्याक्रमादेकरात्रिकी प्रतिमां प्रपद्य विहरन् पुनरिमां नगरीमगात्। मासक्षपणपारणके यज्ञपाटकं प्रविष्टस्तत्र विप्रैर्भक्ष्यमादित्सुभिः प्रतिषिद्धस्ततः श्रुत्वाऽभिहितचर्यामुपदिश्य भ्रातरं विप्रांश्च प्रत्यबूबुधद् विरक्तो विजयघोषः प्रावाजीद द्वावपि मोक्ष प्रापतुः। ती०। (नन्दाभिधाननाविकवृत्तम् 'णंद' शब्दे चतुर्थभागे 1748 पृष्ठे गतम्।) अस्यां संवाहननरपतिः सातिरेककन्यासहरीः सन्नपि परनृपतिपृतनावेष्टितायां पुरि राज्यलक्ष्मी गर्भस्थोऽप्यङ्गवीरस्वातवान्, अस्यां मातङ्गऋषिर्वलनामा मृतगङ्गातीरलब्धजन्मा तिन्दुकोद्याने स्थितवान् गण्डीतिन्दुकं च यक्षं गुणगणैर्हतहृदयमकार्षीत् / कौशिलिकनृपदुहिता च भद्रा मलक्लिन्नाङ्गं तमृषिं विलोक्य निष्ठ्यूतवती / ततस्तेन यक्षेणाधिष्ठिताङ्गी तेनैव मुखे वपुषि संक्रम्य परिणीता त्यक्ता च मुनिना, ततो रुद्रदेवेन यज्ञपत्नी कृता। मासक्षपणपारणे च भिक्षार्थमुपागतो मातङ्गमुनिर्द्विजातिभिरुपहस्य कदर्थ्यमानः तत्प्रेक्ष्य भद्रयोपलक्ष्य बोधितास्तं क्षमयामासुाह्मणाः प्रत्यलाभयंश्च भक्ताद्यैः, विदधे विबुधैर्गन्धोदकवृष्टिः पुष्पवृष्टिर्दुन्दुभिवादनं वसुधारापातश्च / अस्याम्- "वाणारसीऍ कोट्टएँ, पासे गोचारिभद्दासणे य / णंदसिरीपउमद्दहरायगिहे सो चिए वीरे॥१॥ वाणारसी य नगरी, अणगारे धम्मघोसधम्मजसे। मासस्सय पारणए गोआलगंगा य अणुकंपा // 2 // " एतदावश्यकनियुक्तौ संविधानकद्वयमजनि। ती०४२ कल्प० / (नन्दश्रीवार्ता 'णंदसरी' शब्दे चतुर्थभागे 1751 पृष्ठे गता।) अत्रैवपुर्यां धर्मघोषधर्मयशसौद्वावप्यनगारौ वर्षारात्रावस्थाताम, तौ मास 2 क्षपणेनास्ताम्, अन्यदा चतुर्थपारणके तृतीयपौरुष्यां विहाराय प्रस्थितौ शारदातपेना” तृषितौ गङ्गामुत्तरन्तौ मनसाऽपि नाम्भ पेक्षतामनेषणीयमिति देवता तद्गुणावर्जिता गोकुलं विकुऱ्या गङ्गातीर्णीतौ दध्योदनादिभिरुपन्यमन्त्रयत्। तौ दत्तोपयोगी ज्ञातवन्तौ यथेयं मायेति प्रत्यषेधताम्, पुरः प्रस्थितयोरनुकम्पया वार्दलं व्यकार्षीत् देवता, तौ चायां भूमौ शीतलवाताप्यायितौ ग्रामं प्राप्य शुद्धोञ्छमादिषातामिति / श्रीमदयोध्यायामिक्ष्वाकुवंश्यः श्रीहरिश्चन्द्रो महानरेन्द्रस्त्रिशकुपुत्र उशीनरनृपसुतायाः सुतारादेव्या रोहिताश्वेनचपुत्रेण सहितः सुखमनुभवंश्चिरमशात्काश्यपीम्। एकदा सौधर्माधिपतिर्दिविदेवेन्द्रपरिषदितस्य सत्त्ववर्णनामकरोत्, तदश्रद्दधानावुभौ गीर्वाणौ चन्द्रचूडमणिप्रभनामानौ वसुन्धरामवतीर्णी / तयोरेको वनवराहरूपं विकृत्यायोध्यापरिसरस्थितशक्रावतारचैत्याश्रमं ससंभ्रमं भक्तुं प्रववृते / अन्येषुः सदसि सिंहासनस्थितो हरिश्चन्द्रमहीन्द्रस्तमाश्रमोपप्लवं शूकरोपज्ञं श्रुत्वा तत्र गत्वा वाणप्रहारेण तं वराह प्रहतवान्। तस्मिश्च शरेऽन्तर्हिते गर्हितेतरवरितः स यावत्तं प्रदेशमविशत्तावत्तत्र हरिणीं स्ववाणप्रहतां तस्याः स्फुरन्तंच गलितं गर्भ निभाल्य कपिञ्जलकुन्तलमित्राभ्यां सह पर्यालोच्य भ्रूणनं स्वमशोचयत्। प्रायश्चित्तग्रहणार्थं कुलपतिकन्यकानुमत (माम्ल) मकार्षीत् / व्यवहारार्थं च ततोऽनेनपापीयसा मन्मृगी हता | तन्मरणे च मम मातुश्च मरणं भविष्यतीति निशम्य कुपिताः, कुलपतिनृपतयः, ततस्तत्पदोर्निपत्य नरपतिरलपत्-प्रभो! सकलामपि वसुधां प्रतिगृह्य मामेतस्मात् एनसो मोचय, तयोश्च मरणनिवारणाय हेमलक्षं दास्यामीति तेनाप्यामिति प्रतिपन्ने सति कौटिल्यमृषि सह कृत्वा नृपः स्वपुरीमागात, ततो वसुभूतेर्मन्त्रिणः कुन्तलस्य च सुहृदस्तत्स्वरूपमावेद्य कोशादेकलक्षमानाययत्, ततः स्मिल्वा तापसः सागारको व्याकरोदस्मभ्यं जलधिमेखलामखिलामिला त्वमदाः ततोऽस्मदीयमेव वस्त्वस्मभ्यमेवं दीयत इति कोऽयं न्यायः / अथ वसुभूतिः किमपि ब्रुवाणः कुलपतिनाशापादपारिकारः,कुन्तलस्तुशृगालः, तौ चवन-मध्येऽवसताम् / राजा च मासमवधि मार्गयित्वा रोहिताश्वमङ्गुलौ लगयित्वा सुतारया सह काशी प्रति प्राचलत्, क्रमादिमां पुरीं प्राप्य संस्थायां स्थितः, तत्र शिरसि तृणं दत्त्वा वज्रहृदयविप्रहस्ते देवी कुमारं च हेमसहयैर्विचिक्राय। सा तत्र खण्डनपेषणादिकर्माणि निर्ममे। दारकश्च समित्पत्रपुष्पफलाद्याजहार!राज्ञीचिन्ताध्वान्तचेताः सकुलपतिः कनकं मार्गयितुमगाद् / दत्तं तस्मै राज्ञीकाञ्च-नसहस्रषट्कम् कुलपतौ स्तोकमिति कुप्यत्यङ्गारकोऽवोचत्, भोः! किमर्थं पत्नीमपत्यं च विक्रीणीथाः अत्रत्यचन्द्रशेखरं नरेश्वरं किं न याचसे वसु लक्षम् / राज्ञोक्तम्-अस्मत्कुलेनेदं सिद्ध्यति, डोंबडस्यापि वेश्मनि कर्मकरणमुररीकृत्य दास्यामि तव काञ्चनमिति, ततः कर्म कर्तुं प्रवृत्तश्चण्डालेन श्मशानरक्षणे नियुक्तः, ततः परं यथा ताभ्याममराभ्यामकारि मारिःपुर्याम्, यथा भूपादेशानीतमान्त्रिकेण राक्षसीप्रवादमारोऽप्य सुतारा मण्डलमानीय रासभमारोपिता, यथा सुतः पावके दत्तझम्पोऽपिनदग्धः, संस्कार कर्तुमानीतः, तस्याः करमयाचिष्ट नृपतिः। यथाच सत्त्वपरीक्षानिर्वाणप्रमुदितप्रकटितनिजरूपः त्रिदशकृतपुष्पवृष्टिजयरध्वनिः सर्वजनैः प्रशंशितः सात्त्विकशिरोमणिः इति, यथा च बर्हिर्मुखसुखाद्वराहादिपुष्पवृष्टिपर्यन्तं दिव्यमायाविलसितमवबुध्य यावच्चेतसि चमत्कृतस्तावत् स्पपुर्या सदसि सिंहासनस्थं परिवारमपश्यत्, तद्देवीकुमारविक्रयादिदिव्यपुष्पवर्षावसानं श्रीहरिश्चन्द्रस्य चरित्रं सत्त्वपरिक्षानिकषोऽस्यामेव पुर्यामजनि / जनजनितविस्मयं यच्च काशीमाहात्म्ये प्रथमगुणस्थानीयैरभिधीयते यद्वाराणस्यां कलियुगप्रवेशोनास्ति, तथात्र प्राप्तनिधनाः कीटपतङ्गभ्रमरादयः कृतानेकचतुर्विधहत्यादिपाप्मानोऽपि मनुष्यादयो वा शिवसायुज्यामियतीत्यादि युक्तिरिक्तं तदस्मदादिभिः श्रद्धातुमपि दुःशकम्, किं पुनः कल्पे जल्पितुमित्त्युपेक्षणीयमेवैतत्, धातुवादर सवादखन्यवादमन्त्रविद्याविधुराः शब्दानुशासनतर्कनाटकालङ्कारद्योतितचूडामणिनिमित्तशास्त्रसाहित्यादिविद्यानिपुणा निश्चलपुरुषा अस्यां परिव्राजकेषु जटाधरेषु योगिषु ब्राह्मणादिचातुर्वर्ण्यवचनैकरसिकमनासि प्रीणयन्ति चतुर्दिगन्तदेशान्तरवास्तव्याश्चास्यां जना दृश्यन्ते सकलकलापरिकलनकौतूहलिनः / वाराणसी चेयं संप्रति चतुर्द्धा विभक्ता दृश्यते। तद्यथा-देववाराणसी यत्र विश्वनाथप्रासादः तन्मध्ये वाऽऽश्मनं जैनं चतुर्विंशतिपट्ट पूजारूपमद्यापि विद्यते, द्विती