________________ वाउभूइ 1067 - अभिधानराजेन्द्रः - भाग 6 वाउभूइ नाहिति सुबहुयविण्णा-ण विसयखयभंगयाईणि॥१६७५|| यत् स्वविषयमात्रनियतं जन्मानन्तरहतं च प्रमातृविज्ञानम् तत्कथं सुबहुविज्ञानविषयगतान्क्षणभङ्गनिरात्मकत्व-सुखिदुःखितादीन् धर्मान् ज्ञास्यति? न कथञ्चिदित्यर्थः। अत्र परमतमाशय परिहरन्नाहगिहिज सव्वभंग,जइ य मई सविसयाऽणुमाणाओ। तं पिन जओऽणुमाणं, जुत्तं सत्ताइसिद्धीओ॥१६७६|| यदि च परस्यैवंभूता मतिः स्यात्, यदुत-एकमपि -एकालम्बनमपि क्षणिकमपि च प्रमातृविज्ञानं सर्ववस्तुगतक्षणभङ्ग गृह्णीयात्। कुतः? इत्याह-स्वविषयानुमानात् / एतदुक्तं भवति-यस्मादय-मस्मद्विषयः क्षणिकः, अहं च क्षणनश्वररूपंततो विज्ञानसाम्यादन्यान्यपि विज्ञानानि क्षणिकानिविषयसाम्याच्चान्येऽपि विषयाः सर्वेऽपि क्षणिकाः, इत्येवं स्वं चविषयाश्च स्वविषयास्तदनुमानात् सर्वस्यापि सर्वस्यापि वस्तुस्तोमस्य क्षणिकत्वादि गृह्यते / अत्र दूषणमाह-- 'तं पीत्यादि' तदपि न युक्तं न घटमानकम् / कुतः ? इत्याह-यतस्तत् स्वविषयानुमानमन्येषां विज्ञानानामन्य-विषयाणां च पक्षीकृतानां सत्तादिप्रसिद्धावेव युज्यते। नहि सत्येनाप्यप्रसिद्ध धर्मिणि क्षणिकतादिधर्मः साध्यमानोविभ्राजते। को हि नाम शब्दादिष्वादावेव सत्त्वेनाप्रतीतेषु कृतकत्वादिनाऽनित्यत्वादिधर्मान् साधयति, 'तत्र पक्षः प्रसिद्धो धर्मी' इत्यादिवचनात्? न चेदेकमेकालम्बनं क्षणिकं च ज्ञानमेतद् वोढुं शक्नोति; यदुतअन्यज्ञानानि सन्ति, तद्विषयाश्च विद्यन्ते, तेषांच विषयाणां स्वविषयज्ञानजननस्वभावादय एवंभूता धर्माः सन्तीति एतदपरिज्ञाने च कथमेतेषां क्षणिकतां साधयिष्यति,धर्मिण एवाप्रसिद्धः? स्यादेतत्, स्वविषयानुमानादेवान्यविज्ञानादिसत्ताऽपि सेत्स्य-त्येव, तथा हि-यथाऽहमस्मि तथाऽन्यान्यपि ज्ञानानि सन्ति, यथा च मद्विषयो विद्यते, एवमन्येऽपि ज्ञानविषया विद्यन्तएव, यथा चाहं मद्विषयश्च क्षणिकः, एवमन्यज्ञानानि तद्विषयाश्च क्षणिका एवेति, एवं सर्वेषां सत्त्वं क्षणिकता च स्वविषयानुमानादेव सेत्स्यतीति। एतदप्ययुक्तम्, यतः सर्वक्षणिकताग्राहकं ज्ञानं क्षणनश्वरत्वाज्जन्मानन्तरं 'मृतइवाहमस्मि, क्षणिकंच' इत्येवमात्मानमपि नावबुध्यते, अन्यपरिज्ञानं तु तस्य दूरोत्सारितमेव / किञ्च-तत् स्वविषयमात्रस्यापि क्षणिकतां नावगच्छति, समानकालमेव द्वयोरपि विनष्टत्वात्। यदि हि स्वविषयं विनश्यन्तं दृष्ट्वा तद्गतक्ष-णिकतां निश्चित्य स्वयं पश्चात् कालान्तरेतद् विनश्येत्, तदा स्यात् तस्य स्वविषयक्षणिकताप्रतिपत्तिः, न चैतदस्ति, ज्ञानस्य विषयस्यच निजनिजक्षणंजनयित्वा समानकालमेव विनाशाभ्युपगमात्। न चस्वसंवेदनप्रत्यक्षेण, इन्द्रियप्रत्यक्षेण वा क्षणिकता गृह्यत इति सौगतैरिष्यते, अनुमानगम्यत्वेन तस्यास्तैरभ्युपगमादिति। अत्र परस्योत्तरमाशङ्कय निराचिकीर्षुराहजाणेज्जा वासणा उ, सा वि हु वासित्त-वासणिजाणं। जुत्ता समेब दोण्हं, न उ जम्माणंतरहयस्स।।१६७७|| स्यादेतत् पूर्वपूर्वविज्ञानक्षणैरुत्तरोत्तरविज्ञानक्षणानामेवंभूता वासना जन्यते, ययाऽन्यविज्ञान-तद्विषयाणां सत्त्वक्षणिकतादीन धर्मानेकमेकालम्बनं क्षणिकमपि च विज्ञानं जानाति, अतः सर्वक्षणिकताज्ञानं सौगतानां च विरुध्यते तदप्ययुक्तम्, यतः साऽपि वासना वासकवासनीययोर्द्वयोरपि समेत्य संयुज्य विद्यमानयोरेव युक्ता, न तु जन्मानन्तरमेव हतस्य विनष्टस्य वास्य-वासकयोश्च संयोगेनावस्थाने क्षणिकताहानिप्रसङ्गः। किञ्च-साऽपि वासना क्षणिका,अक्षणिका वा? क्षणिकत्वे कथं तद्वशात् सर्वक्ष-णिकतापरिज्ञानम्? अक्षणिकत्वे तु प्रतिज्ञाहानिरिति / तदेवं परपक्षे दूषयित्वा, सांप्रतं स्वपक्षमुप दिदशयिपुरुषसंहरन्नाहबहुविण्णाणप्पभवो, जुगवमणेगत्थयाऽहवेगस्स। विण्णाणा वत्था वा,पडुच वित्तीविधाओवा॥१६७।। विण्णाणखणविणासे,दोसाइचादयो पसनंति। न उठियसंभूयच्चुय-विण्णाणमयम्मि जीवम्मि।।१६७६।। तदेवं विज्ञानस्य प्रतिक्षणं विनाशेऽभ्युपगम्यमाने इत्यादयो दोषाः प्रसजन्ति, के पुनस्ते दोषाः? इत्याह-'बहुविण्णाणे' त्यादि इत्येवं संबन्धः / क्षणनश्वरविज्ञानवादिना भुवनत्रयान्तर्वर्तिसर्वार्थग्रहणार्थं युगपदेव बहूनां ज्ञानानां प्रभवउत्पादोऽभ्युपगन्तव्यः, तदाश्रयभूतश्च तदृष्टानामनामनुस्मर्ताऽवस्थित आत्माऽभ्यु-पगन्तव्यः, अन्यथा-यत् सत् तत् सर्वं क्षणिकम्, क्षणिकाः सर्वे संस्काराः, 'निरात्मानः सर्वे भावाः' इत्यादि सर्वक्षणिकतादि-विज्ञानं नोपपद्येत, तदभ्युपगमे च स्वमतत्यागप्रसक्तिः / अथवा-क्षणिकं विज्ञानमिच्छतैकस्यापि विज्ञानस्य युगपदनेकार्थता-सर्वभवनान्तर्गतार्थग्राहिताऽभ्युपगन्तव्या,येन सर्वक्षणिकतादि-विज्ञानमुपपद्यते, न चैतदिष्यते, दृश्यते वा 'विण्णाणावत्था व' त्ति, यदिवा-अवस्थानम्-अवस्था, विज्ञानस्यावस्था विज्ञानावस्थाऽभ्युपगन्तव्या भवति / इदमुक्तं भवतिविज्ञानस्यानल्पकल्पाग्रशोऽवस्थानमेष्टव्यम्, येन तत्सर्वदा समासीनमन्यान्यवस्तु-विनश्वरतां वीक्षमाणां सर्वक्षणिकतामवगच्छेदिति सर्व प्रागेवोक्तमेव। एवं चाभ्युपगमे विज्ञानसंज्ञामात्रविशिष्ट आत्मैवाभ्युपगतो भवति। अथैतद्बहुविज्ञानप्रभावादिकं नेष्यते तर्हि प्रतीत्य वृत्ति-विधातः प्राप्नोति, इदमत्र हृदयम्-कारणं प्रतीत्याश्रित्य कार्यस्य वृत्तिः-प्रवृत्तिरुत्पत्तिरिति यावत्, नपुनः कारण कार्यावस्थायां कश्चिदप्यन्वेति, इत्येवं सौगतैरभ्युपगम्यते। इत्थं चाभ्युपगम्यमानेऽतीतस्मरणादिसमस्तव्यवहारोच्छेदप्रसङ्गः। एवं हि व्यवहारप्रवृत्तिः स्याद्, यद्यतीतानेकसंकेतादिज्ञानाश्रयस्तत्तद्विज्ञानरूपेण परिणामादन्वयी आत्माऽभ्युपगम्यते। तथाऽभ्युपगमे च सति प्रतीत्य वृत्त्यभ्युपगमविघातः स्यादिति / ननु यदि विज्ञानस्य क्षणविनाश एते दोषाः प्रसजन्ति, तर्हि क्वामी दोषान भवन्ति? इत्याह-'न उ ठिये' त्यादि न त्वस्मदभ्युपगते जीवेऽभ्युपगम्यमान एते दोषाः प्रसजन्ति / कथंभूते जीवे? स्थितसंभूतच्युतविज्ञानमये कथञ्चित् द्रव्यरूपतया स्थितम्, कथञ्चित्तूतरपर्यायेणसंभूतम्, कथञ्चित्पुनः पूर्वपर्यायण च्युतंविनष्टं यविज्ञान; तन्मय इत्यर्थः। तस्मादमुमेवोत्पादव्ययध्रौव्ययुक्तं