________________ मणदुप्पणिहाण 85 - अभिधानराजेन्द्रः - भाग 6 मणपज्जवणाण दुष्प्रणिधानम्। कृतसामाथिकस्य गृहे कर्त्तव्यतां कथयता सकृदुष्कृतपरिचिन्तने, उपा०१ अ०। आचा० / सामाइयं तु काउं, परिचिंतं जो य चिंतए सड्ढो। अट्टवसट्टोबगओ, निरत्थयं तस्स सामइयं / / 313 / / सामायिकमित्येवं कृत्वा आत्मानं संयम्य परचिन्तां संसारे इतिकर्तव्यताविषयां यस्तु चिन्तयति श्रावक आर्त्तवशार्तश्च स उपगतश्चेति समासः आर्तध्यानसामर्थ्य नाऽऽतः, उपसामीप्येन गतो भवस्येति भावार्थः / निरर्थक तस्य सामायिकमनात्मचिन्तावतः निष्फल सामापिकमित्यर्थः / आत्मचिन्ता च सद्ध्यानरूपेति॥३१३|| आ०। पञ्चा० / मणपज्जत्ति स्त्री० (मनःपर्याप्ति) पर्याप्तिभेदे, यया पुनर्मनोयोग्यवर्गणा दलिकमादाय मनस्त्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा मनःपर्याप्तिः / कर्म०६ कर्म० / प्रव० / प्रज्ञा० / पं०सं०। मणपज्जवणाण न० (मनःपर्यवज्ञान) मनसो मन्यमानमनो द्रव्याणां पर्यवःपरिच्छदो मनः पर्यवः, स एवज्ञानं, मनः पर्यायाणां वा तदवस्थाविशेषाणां ज्ञान् मनः पर्यवज्ञानम्। भ०८ श०२ उ०। कर्म०।०। ध०। पं० सं० / स्था। सूत्राआ०म०। मणपजवणाणे दुविहे पन्नत्ते / तं जहाउजुमई चेव, विउलमई चेव। स्था०२ ठा०१ उ०। पा०। प्रज्ञा०। ज्ञानभेदे, विशे०। अथ मनःपर्यायज्ञानविषयां व्युत्पत्तिमाहपञ्जवणं पज्जयणं, पज्जाओ वा मणम्मि मणसो वा। तस्स व पज्जायादिन्नाणं मणपज्जवं नाणं / / 83|| (पज्जवणं ति) 'अव' गत्यादिष्वितिवचनादवनं गमन वेदनमित्यवः, परिःसर्वतोभावे, पर्यवनं समन्तात् परिच्छेदनं पर्यवः / क्वायमित्याह(मणम्मिमणसो व त्ति) मनसि मनोद्रव्यसमुदाये ग्राह्ये, मनसो वा ग्राह्यस्य सबन्धी पर्यवः मनःपर्यवः, स चासौ ज्ञान च मनः पर्यवज्ञानम्। अथवा (पजयण ति) अय वय मय' इत्यादि दण्डकधातुः, अयनं गमनं वेदनमित्ययः, परिः सर्वतो भावे, पर्ययन सर्वतः परिच्छेदनं पर्ययः / क्त पुनरसौ ? इत्याह-(मणम्मि मणसो व त्ति) मनसि ग्राह्ये, मनसो वा ग्राह्यरस सम्बन्धी पर्थयो मनःपर्ययः, सचासौ ज्ञानं च मनःपर्ययज्ञानम् / (पख़ाओ व ति) अथवा-इण गतौ, अयनम् आयः, लाभः प्राप्तिरिति पर्यायाः, परिस्तथैव, समन्तादायः पर्यायः / ल ? इत्याह- (मणम्मि मणसो व त्ति) मनसि ग्राह्ये, मनसो वा ग्राह्यस्य पर्यायो मनः पर्यायः। स चासौ ज्ञानं च मनःपर्यायज्ञानम् / एवं तावज्ज्ञाशब्देन सह सामानाधिकरण्यमङ्गीकृत्योक्तम् / अथ वैयधिकरण्यमङ्गीकृत्याऽऽह (तस्स येत्यादि) वशब्दः पक्षान्तरसूचकः, तस्येति-मनसः, पर्यायाः, पर्यवाः, पर्यया धर्मा इत्यनर्थान्तरम् इति / आदिशब्दात्पर्यवपर्ययपरिग्रहः / ततश्याऽयमर्थः, अथवा-तस्य मनसो ग्राह्यस्य संबन्धिनो बाह्यवस्तुचिन्तनानुगणा ये पर्यायाः, पर्यवाः, पर्ययास्तेषां तेषु वा इदमित्थंभूतमनेन चिन्तितम् इत्येवंरूपं ज्ञानं मनः पर्ययज्ञानं, मनः पर्यवज्ञानं, मनः पर्यायज्ञानं चेति ज्ञानशब्देन सह व्यधिकरणः समासः। अत एव "पाय च नाणसद्दा, नामसमाणाहिगरणोऽयं।'' इत्यत्र प्रायोग्रहणं करिष्यतीति गाथाऽर्थः। विशे०। अथ ज्ञानपञ्चकभणनक्रमाऽऽयातस्य मनः पर्यायज्ञानस्य प्रस्तावनां कर्तुमाहओहिविभागे भणियं, पिलद्धिसामन्नओ मणोणाणं / विसयाइविभगत्थं, भणई नाणक्कमाऽऽयातं // 50 // प्रकटार्थव / / 806 // तदेवं प्रतिज्ञात मनः पर्यायज्ञानमाहमणपज्जवणाणं पुण, जणमणपरिचिंतियऽत्थपागडणं। माणुसखेत्तनिबद्धं, गुणपचइयं चरित्तवओ॥८१०।। मनःपर्यायज्ञानं प्रागनिरूपितशब्दार्थम् / पुनःशब्दोऽवधिज्ञानादस्य विशेषद्योतनार्थः / इदं हि रूपिद्रव्यनिबन्धनत्वक्षायोपशमिकत्वप्रत्यक्षत्वाऽऽदिसाम्येऽपि सत्यवधिज्ञानात्स्वाम्यादिभेदेन विशिष्टमिति / तत्र विषयमाश्रित्य स्वरूपत इदं प्रतिपादयति-जायन्त इति जनास्तेषां मनांसि जनमनांसि तैः परिचिन्तितो जनमतः परिचिन्तितः स चासावर्थश्च तं प्रकटयति-प्रकाशयति जनमनः परिचिन्तितार्थप्रकटनम्। मानुषक्षेत्रमर्द्धतृतीयद्वीपसमुद्रपरिमाणं तन्निबद्धं, न खलुतरहिर्भूतप्राणिमनास्यवगच्छतीति भावः / गुणा विशिष्टद्धिप्राप्तिक्षान्त्यादयस्त एव प्रत्ययाः कारणानि यस्य तद्वणप्रत्ययम् / चारित्रमस्यास्तीति चारित्रवाँस्तस्य चारित्रक्त एवेदं भवति, तस्याप्यप्रमत्तद्धिप्राप्तत्वाऽऽदिसमयोक्तविशेषविशिष्टस्यैव / इति नियुक्तिगाथाऽर्थः / / 810 // अथ भाष्यं तत्र पुनःशब्दां तावदाहपुणसद्दो उ विसेसे, रूविनिबंधाइँ तुल्लभावे, वि। इदमोहिन्नाणाओ, सामिविसेसाइणा भिन्नं / / 811 // गताथैव / / 811 // अथ कस्य तद्भवति? कियत्क्षेत्रविषयं चेत्याह - तं संजयस्स सव्वप्पमायरहियस्स विविहरिद्धिमओ। समयखेत्तभिंतरसन्निमणोगयपरिण्णाणं // 812 / / प्रकटाऽर्था / / ८१२शा विशे०। जाणइ य पिहुजणो वि हु, विफुडमागारेहि माणसं भावं। एमेव य तस्सुवमा, मणदव्वपगासिए अत्थे / / 36|| पृथग्जनोऽपि लोको, हु निश्चितमाकारैर्मानसं भावं जानाति, एवमेव तस्याऽपि मनः पर्यायज्ञानिनो मनोद्रव्यप्रकाशितेऽर्थे उपमा द्रष्टव्या। किमुक्तं भवति ? यथा प्राकृतो लोकः स्फुटमाकारैर्मानसं भावं जानाति, तथा मनः पर्यवज्ञान्यपि मनोद्रव्यगतानाकारानवलोक्य तंत मानसं भावं जानाति / बृ०१ उ०१ प्रक०। से कि तंमणपज्जवनाणं? मणपज्जवणाणे णं भंते! किं मणुस्साणं उप्पज्जइ, अमणुस्साणं ? गोयमा! मणुस्साणं, नोअमणुस्साणं / जइ मणुस्साणं किं समुच्छिममणुस्साणं, गब्भवक्कंतियमणुस्साणं ? गोयमा! नो समुच्छिममणुस्साणं उप्पज्जइ, गन्भवतियमणुस्साणं / जइ गब्भवक्कंति यमणुस्साणं किं कम्मभूमियगब्भवक्कंतियमणुस्साणं, अकम्मभूमियगब्भवक्कंतियणुस्साणं,