SearchBrowseAboutContactDonate
Page Preview
Page 1089
Loading...
Download File
Download File
Page Text
________________ वाउभूइ 1065 - अभिधानराजेन्द्रः - भाग 6 वाउभूइ दाये दर्शनात्, इत्याशङ्कयाह- 'मजंगेसु' इत्यादि धातकीकुसुमादिसु मद्याङ्गेषु पुनर्विष्वक् पृथगन सर्वथा मदो नास्ति, अपितु-या चयावती च मदमात्रा पृथगपि तेष्वस्त्येवेत्यर्थः / ततो नानैकान्ति-कता हेतोरिति। भूतेष्वप्येवं भविष्यतीति चेत्, नैतदेवं कुतः? इत्याहभमिधणि वितण्हयाई, पत्तेयं पि हु जहा मयंगेसु। तह जइ भूएसु भवे, चेया तो समुदये होज्जा / / 1653 / / यथा प्रत्येकावस्थायां धातकीकुसुमेषु या च यावती चभ्रमिश्चित्तभ्रमापादनशक्तिरस्ति, गुडद्राक्षे क्षुरसादिषु पुनर्धाणिरतृप्तिजननशक्तिरस्ति, उदके तु वितृष्णताकरणशक्तिरस्ति आदिशब्दादन्येष्वपि मद्यानेष्वन्याऽपि यथासंभवं शक्तिर्वाच्या तथा-तेनैव प्रकारेण व्यस्तेष्वपि पृथिव्यादिभूतेषु यदि काचिचैतन्यशक्तिरभविष्यत, तदा तत्समुदाये संपूर्णा स्पष्टा चेतना स्यात्न चैतदस्ति, तस्माद्नभूतसमुदायमात्रप्रभवेयमिति। ननुयदि प्रत्येकावस्थायां मद्याङ्गेषु सर्वथैव मदशक्तिर्नस्यात् तदा किं दूषणं स्यात्? इत्याहजइ वा सव्वाभावो,वीसुं तो किं तदंगनियमोऽयं / तस्समुदयनियमो वा, अनेसु वि तो हवेज्जाहि॥१६५४॥ यदि च मद्याङ्गेषु पृथगवस्थायां सर्वथैव मदशक्त्यभावः तर्हि कोऽयं तदङ्गनियमः कोऽयं धातकीकुसुमादीनां मद्याङ्गतानियमः तत्समुदायनियमा वा, किमिति मद्यार्थी धातकीकुसुमादीन्येवान्वेषयति, तत्समुदायं किमिति नियमेन मीलयति? इत्यर्थः, नन्वन्येष्वपि च भस्माश्मगोममादिषु समुदितेषु मद्यं भवेदिति। अथ मद्याङ्गेषु प्रत्येकावस्थायामपि मदशक्तिसद्भावं साधि तमाकर्ण्य कदाचित् पर एवं ब्रूयात्। किम् ? इत्याहभूयाणं पत्तेयं, पिचेयणा समुदए दरिसणाओ। जह मजंगेसु मओ, मइ त्ति हेऊन सिद्धोऽयं / / 1655|| स्यात् परस्य मतिः-साधूक्तं यत्-पृथगपि मद्याङ्गेषु किञ्चिद्मदसामर्थ्यमस्तीति / एतदेव हि मम भूतेषु व्यस्तावस्थायां चैतन्यास्तित्वसिद्धावुदाहरणं भविष्यतितथाहि-व्यस्तेष्वपि भूतेषु चैतन्यमस्ति, तत्समुदाये तद्दर्शनात्, मद्याङ्गेषु मदवदिति / यथा मद्याङ्गेषु मदः पृथगल्पत्वाद्नातिस्पष्टः, तत्समुदाये त्वभिव्यक्ति मेति, तथा भूतेष्वपि पृथगवस्थायामणीयसी चेतना, तत्समुदाये तुभूयसीयमिति। अत्रोत्तरमाह- 'हेऊ न सिद्धोऽयमि' ति चेतनाया भूतसमुदाये दर्शनात्, इत्यसिद्धोऽयं हेतुरित्यर्थः / आत्मनो भूतसमुदायान्तर्गतत्वेनचेतनायास्तद्धर्मत्वात्, आत्माभावेचतत्समुदायेऽपितदसिद्धरसिद्धोऽयं हेतुरिति भावः, यदि हि भूतसमुदायमात्रधर्मश्चेतना भवेत्तदा मृतशरीरेऽप्युपलभ्येत, वायोस्तदानीं तत्राभावात्, तदनुपलम्भ इति चेत्, नैवम् नलिकादि-प्रयोगतस्तत्प्रक्षेपेऽपि तदनुपलब्धेः, तेजस्तदानीं तत्र नास्तीति चेत; न तत्प्रक्षेपेऽपि तदनुपलम्भात् / विशिष्ठतेजोवाय्वाभावादनुपलम्भ इति चेत्, किं नामात्मसत्त्वं विहायान्यत्तद्वैशिष्ट्यम्? ननु संज्ञान्तरेणात्मसत्त्वमेव त्वयाऽपि प्रतिपादितं स्यादिति। अथ परस्योत्तरमाशङ्कय प्रतिविधातुमाहनणु पञ्चक्खविरोहो, गोयम ! तं नाणुमाणभावाओ। तुह पच्चक्खविरोहो, पत्तेयं भूयचेय त्ति॥१६५६|| ननुप्रत्यक्षविरूपमेवेदम्-यत् भूतसमुदाये सत्युपलभ्यमानाऽपि चेतना न तत्समुदायस्येत्यभिधीयते, न हि घटे रूपादय उपलभ्यमाना न घटस्येति वक्तुमुचितम्, तदयुक्तम्, यतोनभूजलसमुदायमात्रे उपलभ्यमाना अपि हरितादयस्तन्मात्रप्रभवा इति शक्यते वक्तुम् / तद्बीजसाधकानुमानेन बाध्यतेऽसावुपलम्भ इति चेत् तदेतदिहापि समानम्, एतदेवाह-'गोयमेत्यादि' वायुभूतेरपीन्द्रभूतिसोदर्यभ्रातृत्वेन समानगोत्रत्वाद् गौतम इत्येवमामन्त्रणम्, यत्त्वं ब्रूषे-तदेतद् न भूतसमुदायातिरिक्तात्मसाधकानुमानसद्भावात्, ततस्तेनैवत्वत्प्रत्यक्षस्य बाधितत्वादिति भावः / प्रत्युत तवैव प्रत्यक्षविरोधः, किं कुर्वतः? इत्याह'पत्तेयं भूयचेय त्ति बुवतः इति शेषः / प्रत्येकावस्थायां पृथिव्यादिभूतेषु चैतन्याभावस्यैव दर्शनात्, तदस्तित्वं प्रत्यक्षेणैव बाध्यत इति प्रत्येक भूतेषु चेतना इति ब्रुवतस्तवैव प्रत्यक्षविरोध इत्यर्थः / किं पुनस्तदात्मसाधकमनुमानम्? इत्याह-- भूइंदियोवलद्धा-णुसरणओ तेहि भिन्नरूवस्स। चेया पंचगवक्खो-वलद्धपुरिसस्स वा सरओ॥१६५७।। तेभ्यो भूतेन्द्रियेभ्यो भिन्नरूपस्य कस्यापि धर्मश्चेतनेतिप्रतिज्ञा, भूतेन्द्रियोपलब्धार्थानुस्मरणादिति हेतुः / यथा पञ्चभिर्गवाक्षरुपलब्धानर्थाननुस्मरतस्तदतिरिक्तस्य कस्यापि देवदत्तादेः पुरुषस्य चेतनेति दृष्टान्तः।अयमत्रतात्पर्यार्थः इह यएको यैरनेकैरुपलब्धानर्थाननुस्मरति स तेभ्यो भेदवान् दृष्टः, यथा पञ्चभिर्गवाक्षरुपलब्धानथनिनुस्मरन् देवदत्तः यश्च यस्माद् भूतेन्द्रियात्मकसमुदायाद् भिन्नो न भवति,किं तर्हि? अनन्यः, नायमेकोऽनेकोपलब्धानामर्थानामनुस्मर्ता, यथाशब्दादिग्राहकमनोविज्ञानविशेषः, तैरुपलभ्यानुस्मरतोऽपि च तदनतिरिक्तत्वे देवदत्तस्यापि गवाक्षमात्रप्रसङ्गो बाधकं प्रमाणम्। इन्द्रियाण्येवोपलभन्ते, न पुनस्तैरन्य उपलभत इति चेत्; तदुपरमेऽपि तदुपलब्धार्थाननुस्मरणात्, तद्व्यापारेच कदाचिदनुपलम्भात् इत्यनन्तरमेव वक्ष्यमाणत्वादिति। अनुमानान्तरमप्यात्मसिद्धये प्राहतदुवरमे विसरणओ, तत्वावारे वि नोवलंभाओ। इंदियभिन्नस्स मई, पंचगवक्खाणुभविणो व्व // 1658 / / इन्द्रियेभ्यो भिन्नस्यैवं कस्यापीयं घटादिज्ञानलक्षणा मतिरिति प्रतिज्ञा / तदुपरमेऽपि अन्धत्ववाधिधिवस्थायामिन्द्रियव्या-पाराभावेऽपि, तद्द्वारेणोपलब्धानामर्थानामनुस्मरणादिति हेतुः। अथवा-अस्यामेव प्रतिज्ञायां तद्व्यापारेऽपि इन्द्रियव्यापृतावपि कदाचिदनुपयुक्तावस्थायाम्, वस्त्वनुपलम्भादित्यपरो हेतुः। यदि हीन्द्रियाण्येव द्रष्टणि भवेयुः, तर्हि किमिति विस्फारिताक्षस्यापि प्रगुणश्रोत्रादीन्द्रियवर्गस्यापि योग्यदेशस्थितानामपि रूपशब्दादिवस्तूनामनुपयुक्तस्य अन्यमनस्कस्य शून्यचित्तस्योपलम्भो न भवति? ततो ज्ञायते-इन्द्रिय-ग्रामव्यतिरिक्तस्यैव कस्यचिदयमुपलम्भः,यथा पञ्चभिर्गवाक्षोषिदादिवस्तून्यनुभवि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy