________________ वाउक्काइय 1062- अभिधानराजेन्द्रः- भाग 6 वाउक्काइय किं नावकासन्ति? जीवितुं--प्राणान् धारयितुं केनोपायेन जीवितुं नाभिकाङ्गन्ति; वायुजीवोपमर्दनेनेत्यर्थः / शेषपृथिव्यादिजीवकायसंरक्षणं तु पूर्वोक्तमेव / समुदायार्थस्त्वयम्-इहैव जैने प्रवचने यः संयमस्तव्यवस्थिता एवोन्मूलितातितुङ्गरागद्वेषद्रुमाः प्रभूतोपमर्दनिष्पन्नसुखजीविकानिरभिलाषाः साधवो नान्यत्रैवंविधक्रियावबोधाभावादिति। एवं व्यवस्थिते सतिलजमाणे पुढोपास अणगारामो त्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्येहिं वाउकम्मसमारंभेणं वाउसत्थं समारम्भमाणे अण्णे अणेगरूवे पाणे विहिंसति / तत्थ खलु भगवया परिण्णा पवेइया इमस्स चेव जीवियस्स परिवंदणमाणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं से सयमेव वाउसत्थं समारंभति, अण्णेहिं वा वाउसत्थं समारंभावेइ अण्णे वाउसत्थं समारंभंते समणुजाणति तं से अहियाए तं से अबोहीए से त्तं संबुज्झमाणे आयाणीयं समुहाए सोया भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे एस खलु णिरए इचत्थं गडिए लोए जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति / (सू०५८) से बेमि-- संति संपाइमा पाणा आहच संपयंति य फरिसं च खलु पुट्ठा एगे संघायमावजंतिजे तत्थसंघायमावजंति, ते तत्थ परियावअंति जे तत्थ परियावचंतिते तत्थ उहायंति, एत्थ सत्थं समारंभमाणस्स तेचेइ आरम्भा अपरिण्णाया भवंति / एत्थ सत्थं असामरंभमाणस्स इयेते आरंभा परिणाया भवंतितं परिणाय मेहावी व सयं वाउसत्थं समारंभेजा णेवऽण्णेहिं वाउसत्थं समारंभावेजा जेवण्णे वाउसत्थं समारंभंते समणुजाणेज्जा जस्सेते वाउसत्थसमारभा परिणाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि / (सू०५६) 'लज्जमाणा पुढो पासे' त्यादिपूर्ववन्नेयं यावत्-'सेहुमुणीपरिण्णायकम्मे त्ति बेमि'। संप्रति षड्जीवनिकायविषयवधकारिणामपायदिदर्शयिषया तन्निवृत्तिकारिणां च संपूर्णमु निभावप्रदर्शनाय सूत्राणि प्रक्रम्यन्तेएत्थं पि जाणे उवादीयमाणा जे आयारे ण रमंति आरंभमाणा विणयं वयंति छंदोवणीया अज्झोववण्णा आरंभसत्ता पकरंति संगं / (सू०-६०) . एतस्मिन्नपि प्रस्तुते वायुकाये अपिशब्दात्-पृथिव्यादिषु च समाश्रितमारम्भं ये कुर्वन्तितेउपादीयन्ते; कर्मणा बध्यन्त इत्यर्थः, एतस्मिन् जीवनिकाये वधप्रवृत्ताः शेषनिकायवधजनितेन कर्मणा बध्यते, किमिति? यतो न होकजीवनिकायविषय आरम्भः शेषजीवनिकायोपमर्दमन्तरेण कर्तुं शक्यत इत्यतस्त्वमेवं जानीहि, श्रोतुरनेन परामर्शः। अत्रच द्वितीयार्थे प्रथमा, ततश्चैवमन्वयो लगयितव्यः--पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणा उपादीयमानान् जानीहि, के पुनः पृथिव्याद्यारम्भिणः। शेषकायारम्भकर्मणोपादीयन्ते? इत्याह- 'जे आयारेण रमं ति' ये-ह्यविदितपरमार्था ज्ञानदर्शनचरणतपोवीर्याख्ये पञ्चप्रकाराचारे न रमन्ते-न धृतिं कुर्वन्ति, तदधृत्या च पृथिव्याधारम्भिणः, तान् कर्मभिरुपादीयमानान् जानीहि / के पुनराचारे न रमन्ते? शाक्यदिगम्बरपार्श्वस्थादयः, किमिति? यत आह-आरम्भमाणा अपि पृथिव्यादीन् जीवान् विनयं संयममेव भाषन्ते कर्माष्टकविनयनाद्विनयः संयमः, शाक्यादयो हि वयमपि विनयव्यवस्थिताः इत्येवं भाषन्ते, न च पृथिव्यादिजीवाभ्युपगमं कुर्वन्ति, तदभ्युपगमे वा तदाश्रितारम्भित्वात् ज्ञानाद्याचारविकलत्वेन नष्टशीला इति। किं पुनः कारणम्? येनैवं ते दुष्टशीला अपि विनयव्यवस्थितमात्मानं भाषन्ते इत्यत आह'छंदोवणीया अज्झोववण्णा' छन्दः-स्वाभिप्रायः इच्छामात्रमनालोचितपूर्वापरं विषयाभिलाषो वा तेन छन्दसोपनीताः-प्रापिता आरम्भमार्गमविनीता अपि विनयं भाषन्ते, अधिकमत्यर्थमुपपन्नाः, तच्चित्तास्तदात्मकाः अध्युपपन्नाः; विषयपरिभोगायत्तजीविता इत्यर्थः, ये एवं विषयाशाकर्षितचेतसस्ते किं कुर्युरित्याह-'आरम्भसत्ता पकरन्तिसंग' आरम्भणमारम्भः सावद्यानुष्ठानं तस्मिन् सक्तास्तत्पराः प्रकर्षण कुर्वन्ति, सज्यन्ते येन संसारे जीवाः स सङ्गः अष्टविधं कर्म विषयसङ्गो वा तं सङ्गं प्रकुर्वन्ति, सङ्गाच्च पुनरपि संसारः आजवं-जवीभावरूपः (पुनः पुनस्तत्रैवोत्पत्तिः।) एवं प्रकारमपायमवाप्नोति षट्जीवनिकायघातकारीति। अथ यो निवृत्तस्तदारम्भात् स किंविशिष्टो भवतीत्यत आह-- से वसुमं सव्वसमण्णागयपण्णाणेणं अप्पाणेणं अकरणिज्जं पावं कम्मणो अण्णेसिंतं परिण्णाय मेहावी णेव सयं छज्जीवनिकायसत्थं समारंभेजा जेवण्णेहिं छजीवनिकायसत्थं समारम्भावेज्जा णेवण्णे छजीवनिकायसत्थं समारंभंते समणुजाणेज्जा, जस्सेते छग्जीवनिकायसत्थसमारंभा परिण्णाया मवंति से मुणी परिण्णायकम्मे त्ति बेमि। (सू०-६१) 'से' इति पृथिव्युद्देशकाद्यभिहितनिवृत्तिगुणभाक् षड्जीवनिकायहनननिवृत्तो वसुमान्-वसूनि द्रव्यभावभेदाद् द्विधा द्रव्यवसूनिमरकतेन्द्रनीलवजादीनि भाववसूनिसम्यक्त्वादीनि तानि यस्य यस्मिन्-वा सन्ति स वसुमान; द्रव्यवानित्यर्थः, इह च भाववसुभिर्वसुमत्त्वमङ्गीक्रियते, प्रज्ञायन्ते यैस्तानि प्रज्ञानानि यथावस्थितविषयग्राहीणि ज्ञानानि सर्वाणि समन्वागतानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागतप्रज्ञानः सर्वावबोधविशेषानुगतः सर्वेन्द्रिय-ज्ञानैः पटुभिर्यथावस्थितविषयग्राहिभिरविपरीतैरनुगत इति यावत्, तेन सर्वसमन्वागतप्रज्ञानेनात्मना। अथवा-सर्वेषुद्रव्यपर्यायेषु सम्यगनुगतं प्रज्ञानं यस्यात्मनः स सर्वसमन्वागतप्रज्ञानः, आत्मा भगवद्वचनप्रामाण्यादेवमेतत् द्रव्यपर्यायजातं नान्यथेति सामान्यविशेषपरिच्छेदान्निश्चिताशेषज्ञेयप्रपञ्चस्वरूपः सर्वसमन्वागतप्रज्ञान आत्मे