________________ वाउकाइय १०६१-अभिधानराजेन्द्रः - भाग 6 वाउक्काइय न्ति अयतप्रत्युपेक्षणादिक्रियया, किं तु-यतं परिहरन्ति परिभोगपरिहारेण धारणापरिहारेण चेति सूत्रार्थः। यत एवं सुसाधुवर्जितोऽनिलसमारम्भःतम्हा एयं वियाणित्ता, दोसं दुग्गइवडणं। वाउकायसमारंभ,जावजीवाइवजए॥३६॥ 'तम्ह' त्ति सूत्रम्, व्याख्या पूर्ववत्। दश०६ अ०२ उ०ा शस्त्रद्वाराभिधित्सयाऽऽह-तत्र शस्त्रं द्रव्यभावभेदाद् द्विविधम् / द्रव्यशस्त्राभिधित्सयाऽऽहवियणे य तालवेंटे, सुप्पसिए पत्तचेलकण्णे य / अभिधारणा य बाहिं, गंधडग्गी वाउसत्थाई॥१७॥ व्यजनं तालवृन्तं सूर्पसितपत्रचेलकर्णादयः द्रव्यशस्त्रमिति, तत्र सितमिति चामरं प्रस्विन्नो यदहिरवतिष्ठते वातागमनमार्गेसाऽभिधारणा। तथा गन्धाश्चन्दनोशीरादीनाम्, अग्निः-ज्वाला प्रतापश्च, तथा प्रतिपक्षवातश्च शीतोष्णादिकः, प्रतिपक्षवायुग्रहणेन स्वकायादिशस्त्र सूचितमिति, एवं भावशस्त्रमपिदुष्प्रणिहितमनोवाकायलक्षणमवगन्तव्यमिति / आचा०५ श्रु०१ अ०७उ01 वायुकायविधिमाहतालअंटेण पत्तेणं, साहाए विहुणेण वा। न बीइज्ज अप्पणो कायं, बाहिरं वा वि पुग्गलं / / / 'तालअंटेण' त्ति सूत्रम्, तालवृन्तेन--व्यजनविशेषेण पत्रेण पद्मिनीपत्रादिनाशाखयावृक्षडालरूपया विधूननेन वा व्यजनेन वा, किमित्याहन बीजयेत् आत्मनः कायं; स्वशरीरमित्यर्थः, बाह्यं वापि पुद्गलम् उष्णोदकादीति सूत्रार्थः। दश०५ अ०२ उ०। अधुना सकलनिर्युक्त्यर्थोपसंजिहीर्षुराहसेसाई दाराई, ताईजाई हवंति पुढवीए। एवं वाउद्देसे, निज्जुत्ती कित्तिया एसा / / 171 / / शेषाण्युक्तव्यतिरिक्तानि तान्येव द्वाराणिपृथिवीसमधिगमे यान्यभिहितानीति, एवं सकलद्वारकलापव्यावर्णनाद्वायुकायोद्देशके नियुक्तिः कीर्तितैषाऽवगन्तव्येति / गतो नामनिष्पन्नो निक्षेपः। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्। तच्चेदम्पहु एजस्स दुगुंछणाए। (सू०५५) अस्य चायमभिसंबन्धः, इहानन्तरोद्देशके पर्यन्तसूत्रे त्रसकायपरिज्ञानं तदारम्भवर्जनं च मुनित्वकारणमभिहितम्, इहापि तदेव द्वयं वायुकायविषयं मुनित्वकारणमेवोच्यते, तथा परम्परसूत्र-संबन्धः 'इहमेगेसिंणो णायं भवइ' ति किं तत् ज्ञातं भवति 'पहुएजस्स दुगुंछणाए' त्ति तथा आदिसूत्रसंबन्धश्च 'सुयं मे आउसंतेण' मित्यादि, किं तत् श्रुतम्, यत् प्रागुपदिष्ट तथैतच- 'पहू एजस्स दुगुंछणाए' त्ति। 'दुगुंछण' त्ति जुगुप्सा, प्रभवंतीति प्रभुः-समर्थः-योग्यो वा, कस्य वस्तुनः समर्थ इति, 'एज़' कम्पने एजयतीत्येजोवायुः कम्पनशीलत्वात्तस्यैजस्य जुगुप्सानिन्दा, तदासेवनपरिहारो निवृत्तिरिति यावत्, तस्याः-तद्विषये प्रभुर्भवति वायुकायसमारम्भनिवृत्तौ शक्तो भवतीति यावत् , पाठान्तरं वा-'पहु य एगस्स दुगुंछणाए' उद्रेकावस्थावर्तनेनैकेन गुणेन स्पर्शाख्ये-नोपलक्षित इत्येको-वायुस्तस्यैकस्यैकगुणोपलक्षितस्य वायोर्जुगुप्सायां प्रभुः चशब्दात् श्रद्धाने च प्रभुर्भवतीति, अर्थात्-यदि श्रद्धाय जीवतया जुगुप्सते ततो योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयति आयंकदंसी अहियंसि णचा,जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जाणइ से अज्झत्थं जाणइ एतं तुलमन्नेसिं। (सू०५६) (आयंकदंसीत्यादिपदव्याख्या 'आतंकदंसि'शब्दे द्वितीयभागे 154 पृष्ठे कृता। तदधिकमिह प्रदर्श्यते)-अतोय आतङ्कदर्शी भवति। विमलविवेकभावात् स वायुसमारम्भस्य जुगुप्सायां प्रभुः हिताहितप्राप्तिपरिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति वायुकायसमारम्भनिवृत्तेः कारणमाह.. 'जे अज्झत्थमि' त्यादि आत्मानमधिकृत्य यद्वर्तते तदध्यात्मं तच्च सुखदुःखादि, तद्यो जानातिअवबुध्यते स्वरूपतोऽवगच्छतीत्यर्थः / स बहिरपि प्राणिगणं वायुकायादिकं जानाति, तथैषोऽपि हि सुखाभिलाषी दुःखाच्चोद्विजते, यथा-मयि दुःखभापतितमतिकटुकमसद्वेधकर्मोदयादशुभफलं स्वानुभवसिद्धम्; एवं यो वेत्ति स्वात्मनि सुखं च सद्वेद्यकर्मोदयात् शुभफलमेवं च योऽवगच्छति स खल्वध्यात्म जानाति, एवं च योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्वपरसमुत्थं च शरीरमनः समाश्रयं दुःखं सुखं वा वेत्ति स्वप्रत्यक्षतया परत्राप्यनुमीयते। यस्यपुनः स्वात्मन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य बहिर्व्यवस्थितवायुकायादिष्वपेक्षा? यश्च बहिर्जानाति सोऽध्यात्म यथावदवैतीतरेतराव्यभिचारादिति / परात्मपरिज्ञानाच्च यद्विधेयं तद्दर्शयितुमाह- 'एतं तुलमन्नेसिमि' त्यादि एतां तुला यथोक्तलक्षणामन्वेषयेद्-- गवेषयेदिति / का पुनरसौ तुला? यथाऽऽत्मानं सर्वथा सुखाभिलाषितया रक्षसि तथाऽपरमपि रक्ष / यथा परं तथात्मान... मित्येतां तुला तुलितस्वपरसुखदुःखानुभवोऽन्वेषयेत्; एवं कुर्यादित्यर्थः / उक्तं च- 'कद्वेण कंटएण व,पाए विद्धस्स वेयणट्टस्स / जह होइ अनिव्वाणी, सव्वत्थ जिएसु तं जाण / / 1 / / ' तथा "मरिष्यामीति यद् दुःखं, पुरुषस्योपजायते / शक्यस्तेनानुमानेन, परोऽपि परिरक्षितुम् // 1 // " अतश्च यथाऽभिहिततुलातुलितस्वपरा नराः स्थावरजङ्गमजन्तुसंघातरक्षणायैव प्रवर्तन्ते। कथमिति दर्शयतिइह संतिगया दविया, णावकखंति जीविठं। (सू०५७) 'इहे' त्यादि इह-एतस्मिन् दयैकरसे-जिनप्रवचने शमनं शान्तिः-- उपशमः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग्दर्शनज्ञानचरणकलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात्, तामेवंविधां शान्ति गताः-प्राप्ताः शान्तिगताःशान्तौ वा स्थिताः शान्तिगताः, द्रविका नाम-रागद्वेषविनिर्मुक्ताः द्रवः-संयमः सप्तदशविधानःकर्मकाठिन्यद्र-वणकारित्वाद् विलयहेतुत्वात्; सयेषां विद्यते ते द्रविकाः नाऽव-काशति-न वाञ्छन्ति; नाऽभिलषन्तीत्यर्थः,