________________ वाउक्काइय 1056 - अमिधानराजेन्द्रः - भाग 6 दाउकाइय पछत्तगा य, अपजत्तगा य / तत्थ णं जे ते अपज्जत्तगा ते णं असंपत्ता। तत्थणं जे ते पज्जत्तगा एतेसिणं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाइं संखिजाई जोणिप्पमुहसयसहस्साईपज्जत्तगणिस्साए अपनत्तया वक्कमंति, जत्थ एगो तत्थ नियमा असंखेजा। सेत्तं बादरवाउकाइया। सेत्तं वाउकाइया। (सू०१८) प्रतीत नवरं पाईणवाए' इति यः प्राच्या दिशः समागच्छति वातः स प्राचीनवातः, एवं प्रतीचीनवातो दक्षिणवात उदीचीनवातश्च वक्तव्यः, ऊर्द्धमुद्गच्छन्योवाति वातस्सऊर्ध्ववातः, एवमधोवा-ततिर्यगवातावपि परिभावनीयौ / विदिग्वातोयो विदिग्भ्यो वाति, वातोभ्रामःअनवस्थितवातः वातोत्कलिकाः-समुद्रस्येव वा-तोत्कलिकाः वातमण्डली-वातोली उत्कलिकावातः-उत्कलिकाभिः प्रचुरतराभिःसम्मिश्रितो यो वातः मण्डलिकावातो--मण्डलिकाभिर्मूलत आरभ्य प्रचुरतराभिः समुत्थो यो वातः, गुञ्जावातो-योगुञ्जन् शब्दं कुर्वन् वाति, झञ्झावातः-सवृष्टिरशुभनिष्ठुर इत्यन्ये, संवर्तकवातः-तृणादिसंवर्तनस्वभावः, घनवातो-घन-परिणामो रत्नप्रभापृथिव्याद्यधोवर्ती, तनुवातो-विरलपरिणामोधनवातस्याधः स्थायी, शुद्धवातो-मन्दस्तिमितो वस्तिदृत्यादिगत इत्यन्ये। तेसमासतो' इत्यादि प्राग्वत्, अत्रापि संखेयानि योनिप्रमुखाणि शतसहस्राणि सप्तावसेयानि / प्रज्ञा०१ पद। अचित्तवायुकायिकमाहपंचविहा अचित्ता वाउकाइया पन्नत्ता। तं जहा-अकंते धंते पीलिए सरीराणुगए समुच्छिमे। (सू०४४४) आक्रान्ते पादादिना भूतलादौ यो भवति स आक्रान्तः, यस्तु ध्माते दृत्यादौसध्मातः,जलार्द्रवस्त्रे निष्पीड्यमाने पीडितः उद्गारोच्छ्रासादिःशरीरानुगतः, व्यजनादिजन्यः सम्मूञ्छिमः, एते च पूर्वमचेतनास्ततः सचेतना अपि भवन्तीति: स्था०५ ठा०३ उ०। __ सम्प्रति वायुकायपिण्डमाहवाउकाओ तिविहो,सचित्तो मीसओ य अचित्तो। सचित्तो पुण दुविहो, निच्छयववहारओ चेव // 38 // वायुकायस्त्रिविधस्तद्यथा-सचित्तो मिश्रोऽचित्तश्च / सचित्तः पुनर्द्विधानिश्चयतो व्यवहारतश्च। एतदेव निश्चयव्यवहाराभ्यां सचित्तस्य द्वैविध्यमचित्तं चाऽऽहसवलय घणतणुवाया, अइहिमअइदुहिणे य निच्छयओ। ववहारपाइणाई, अकंताई य अचित्तो॥३९॥ सह वलयैर्वर्तन्ते इति सवलयाः, ये 'घणतणुवाय' ति वात शब्दः प्रत्येकमभिसंबध्यते, घनवातास्तनुवाताश्च। किमुक्तं भवति? ये नरकपृथिवीनां पार्श्वेषु धनवातास्तनुवातावावलयाकारेण व्यवस्थिता वलयशब्दवाच्याः। ये च नरकपृथवीनामेवोधस्तात् धनवातास्तनुवाताश्चातथा 'अइहिम अइदुद्दिणे य' त्ति अतिशयेन हिमे निपतति, अतिशयेन च दुर्द्धिने मेघतिमिरे मेधैर्गगनमण्डलस्याच्छादने ये वायवः एष सर्वोऽपि वायुकायो निश्चयतः सचित्तः, अतिहिमातिदुर्द्धिनाभावे तु यः प्राचीनादिवातः पूर्वादिदिग्वातः स व्यवहारतः सचित्तः / यस्तु आक्रान्तादिकः आक्रान्तः पङ्कादिसमुत्थप्रभृतिकः पञ्चप्रकारो वक्ष्यमाणस्वरूपः सोऽचित्त इति। आक्रान्तादिस्वरूपमेवाऽऽहअकंतघंतघाणे, देहाणुगए य पीलियाइसुय। अच्चित्तावाउकाओ, मणिओ कम्मट्ठमहणेहिं / / 40|| आक्रान्ते-पादेनाक्रान्ते कर्दमादौ यो वातश्चिदिति शब्दं कुर्वन् समुच्छलति, यश्चाध्माते मुखवातभृते दृत्यादौ वर्तते, यो वा घाणेतिलपीडनयन्त्रे तिलपीडनवशात् सशब्दं विनिर्गच्छन्नुपलभ्यते, यश्च देहानुगतः शरीराश्रित उच्छ्वास निःश्वासवातनिसर्गरूपः, पीलितं-सजलं निश्चोत्यमानं वस्त्रादिआदिशब्दात्तालवृन्तादिपरिग्रहः तेषु च यः संभवति वातःएष पञ्चप्रकारोऽपि वातः कर्माष्टकमथनैरचित्तः प्रतिपादितः। संप्रति मिश्र वायुकार्य प्रतिपिपादयिषुर्दृत्यादिस्थस्याचित्तवातकायस्य जले स्थितस्यक्षेत्रमाश्रित्य स्थलस्थितस्य च काल माश्रित्याचित्तादिविभागमाहहत्थसयमेगगंता, दइओ अपित्तवीयए मीसो। तइयम्मि उ सचित्तो, वत्थी पुण पोरिसिदिणेसु // 41|| इह ऊर्ध्वमपाटितेनापनीतमस्तकेन निकर्षितचन्तिर्वर्तिसर्वास्थ्यादिकचवरेणापरचर्ममयस्थिग्गलकस्थगितापानच्छिद्रेण संकीर्णमुखीकृतग्रीवान्तर्विवरेणाजापश्वोरन्यतरस्य शरीरेण निष्पन्नश्चम्ममयः प्रसेवकः कोत्थलकापरपर्यायो दृतिः / स चाचित्तमुखवातभृतः सन् दवरकेण गाढबद्धमुखो नद्यादिजले प्लाव्यमानः क्षेत्रतो हस्तशतमेकं यावत् गन्ता तावत् स दृतिर्दृतिस्थो वातकायोऽचित्तः प्रथमे च हस्तशतेऽतिक्रान्ते सति द्वितीये प्रविशन् मिश्रोभवति, सच मिश्रस्तावद्भवति यावद् द्वितीयहस्तशतपयन्तः, ततो द्वितीये हस्तशतेऽतिक्रान्ते तृतीये प्रविशन् सचित्तो भवति / तत ऊर्ध्वं सचित्त एव / अथवा-एकस्मिन्नेव हस्तशते गमनेनागम-नेन च पुनर्गमनेन च क्रमेणाचित्तत्वादिकमवगन्तव्यम् / यदि वा-हस्तशतगमनकालं परिभाव्यैकस्मिन्नपि स्थाने जलमध्यस्थित-स्योक्तक्रमेणाचित्तत्वादिकं परिभावनीयम्। दृतिग्रहणं चोपलक्षणं तेन वस्तावप्येवं द्रष्टव्यम् / वस्तिश्व दृतिवत् स्वरूपतो भावनीयः, नवरमपरचममयस्थिग्गलकस्यगितग्रीवान्तर्विवरोऽतिविवृतमुखीकृतपाश्चात्यप्रवेशः स विज्ञेयः, तथा 'वत्थिपुण पारसि दिणेसु' त्ति / स्थले स्निग्धं रूक्षं च कालमाश्रित्य वस्तिर्वस्तिस्थितो वातः उपलक्षणमेतत् / तेन दृतिस्थोऽपि वातः स्थलस्थः स्निग्धं रूक्षं च कालमधिकृत्य यथाक्रमं पौरुषीषु दिनेषु चाचित्तादिरूपो वेदितव्यः। एनमेवगाथावयवं भाष्यकृद् गाथाचतुष्टयेन व्याख्यानयतिनिद्धेयरो य कालो, एगंतसिणिद्धमज्झिमजहन्नो। लुक्खो वि होइ तिविहो,जहन्नमज्झो य उक्कोसो॥१२॥