________________ वाइय 1055 - अभिधानराजेन्द्रः - भाग 6 वाइसमोसरण न्तो भवति-"एगो तचनिओ जलयरभावारूढो तस्थ तस्स पुरओ अहाभावेण अगारी असंवुडा निविट्ठा / तस्स य तचनियस्स तं द? सागारियं वद्धतेण वेयउक्कडयाए असहमाणेण जणपुरओ पडिगाहिया अगारी। तं च पुरिसा हंतुमारद्धा, तहा वि तेण न मुक्का जाहे से बीरियो सग्गो जाओ ताहे मुक्का / " अयमप्यलभमानो-ऽप्राप्नुवन् निरुद्धवेदो नपुंसकतया परिणमति। उक्तो वातिकः / बृ० ४उ०। स्था०। नि०चू० पं० भा०। पं० चूला वीतरागोद्भवे, तं०। उच्छूनत्वभाजने, विशेष स्थान वातरोगिणि, वातिक इव वातिकः। अयन्त्रिते, प्रश्र०३ आश्र० द्वार। *वादित-त्रि०। शब्दत्वेन कृते, स्था०२ ठा०३ उ०ा पटहा- दिवादने, प्रश्न० 4 संब०द्वार। वाद्यकलायाम्, साचततवितत-शुषिरधनवाद्यानां चतुःपञ्चत्र्येकप्रकारतया त्रयोदशधा / स०७२ सम० प्रश्न०। औ०। "सुठुगाइयं सुठुवाइयं सुठु नचियं" आव०४अ०। वाइल-पुं०(वातिल) पालकग्रामवास्तव्ये वाणिजके, ततो सामी पालयं नाम गामं गतो तत्थ याइलो नाम वाणिययो सोऽसिंगहीत्वा तत्र वीरस्वामिन प्रति प्रधावित इति स्वशिर एव चिच्छेद। आ० चू०१ अण आ०म० वाइसमोसरण-न०(वादिसमवसरण) वादिनस्तीर्थकाः समवसरन्त्य वतरन्ति एष्विति समवसरणानि / विविधमतमीलकास्तेषां समवसरणानि वादिसमवसरणानि। क्रियावाद्यादिषु वादिमीलकेषु, स्था०। चत्तारि वाइसमोसरणा पण्णत्ता / तं जहा-किरियावाई, अकिरियावाई, अण्णाणिअवाई, वेणइयवाई। णेरइयाणं चत्तारि वाइसमोसरणा पण्णत्ता। तं जहा-किरियावाई०जाव वेणइयवाई। एवमसुरकुमाराण वि०जाव थणियकुमारणं एवं विगलिंदियवज्जंजाव वेमाणियाणं // 345|| वादिनः-तीर्थिकाः गमवसरन्ति-अवतरन्त्येष्विति समवसरणानि विविधमतमीलकास्तेषां समवसरणानि वादिसमवसरणानि, क्रियांजीवाजीवादिरर्थोऽस्तीत्येवंरूपां वदन्तीति क्रियावादिन आस्तिका इत्यर्थः, तेषां यत्समवसरणं तत्त एवोच्यन्तै अभेदादिति, तन्निषेधादक्रियावादिनोनास्तिका इत्यर्थः, अज्ञानमभ्युपगमद्वारेण येषामस्ति ते अज्ञानिकाः त एव वादिनोऽज्ञानिकवादिनः; अज्ञानमेव श्रेय इत्येवं प्रतिज्ञा इत्यर्थः, विनय एव वैनयिकं तदेव निः- श्रेयसायेत्येवं वादिनो वैनयिकवादिन इति, एतद्भेदसङ्ख्या चेयम्- "असियसयं किरियाणं, अकिरियवाईण होइ चुलसीइ / अन्नाणियसत्तट्ठी, वेणझ्याणं चबत्तीसा // 1 // " इति, तत्राशीत्यधिकं शतं क्रियावादिनां भवति / इदं चामुनोपायेनावगन्तव्यम्--जीवऽजीवाऽऽश्रवसंवरबन्धनिर्जराऽपुण्यापुण्यमोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्चन्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्तव्याःअस्तिजीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्वायम् विद्यते खल्ययमात्मा स्वेन रूपेण न परापेक्षया ह्रस्वत्वदीर्घत्वे इव नित्यश्च कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्व-रकारणिनः, तृतीयो विल्प आत्मवादिनः 'पुरुष एवेद' मित्यादि प्रतिपत्तुरिति, चतुर्थों नियतिवादिनः, नियतिश्च पदार्थानामवश्यन्तया यद्यथाभवने प्रयोजनकम्त पञ्चमः स्वभाववादिनः- एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः / परतः इत्यनेनापि पञ्चैव लभ्यन्ते, तत्र परत इत्यस्यायमर्थःइह सर्वपदार्थानां पररूपापेक्षः स्वरूपपरिच्छेदो यथा ह्रस्वत्वाद्यपेक्षो दीर्घत्वादि-परिच्छेदः, एवमेव चात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्व्यतिरिक्ते हि वस्तुन्यात्मबुद्धिः प्रवर्तत इत्यतो यदात्मनः स्वरूप तत्परतः एवावधार्यते न स्वत इति / नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशतिर्जीवपदार्थेन लब्धाः अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतोविंशतिर्नवगुणा शतमशीत्युत्तर क्रियावादिनामिति। एते च विकल्पा एकैकशोनलभ्यन्ते शीलाङ्गवदिति। तथा अक्रियावादिनांतु चतुरशीतिर्द्रष्टव्याः, एवञ्चेयम्पुण्याऽपुण्यविवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपररूपविकल्पद्वयोपन्यासः असत्त्वादात्मनो नित्यानित्यभेदौ न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते / इयं चानभिसन्धिपूर्विकाऽर्थप्राप्तिरितिपश्चाद्विकल्पाभिलापः-नास्तिजीवः स्वतः कालतः इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः सर्वेषड् विकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव विकल्पा इत्येकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रत्येकं द्वादश विकल्पाः,एवञ्च द्वादश सप्तगुणाश्चतुरशीतिर्विकल्पाः नास्तिकानामिति / अज्ञानिकानां तु सप्तषष्टिर्भवति, इयं चामुनोपायेन द्रष्टव्या-तत्र जीवाजीवादीन् नव पदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्व 1 मसत्त्वं 2 सदसत्त्वं 3 अवाच्यत्त्वं 4 सद्वाच्यत्वं 5 असदवाच्यत्वं 6 सदवाच्यत्व ७मिति, तत एते नव सप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा-सत्त्व 1 मसत्त्वं 2 सदसदत्त्व 3 मवाच्यत्वं 4 चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति, विकल्पाभिलापश्चैवम्-को जानाति जीवःसन्निति किं वा तेन ज्ञातेनेत्येको विकल्पः, एवमसदादयोऽपि वाच्याः, तथा सती भावोत्पतिरिति को जानाति, किं वा-अनया ज्ञातया? एवमसती सदसती अवक्तव्या चेति, सत्त्वादिसप्तभङ्गयाश्चायमर्थः-स्वरूपमात्रापेक्षया वस्तुनः सत्त्वं 1 पररूपमात्रापेक्षया त्वसत्त्वम् 2 तथा एकस्य घटादिद्रव्यदेशस्य ग्रीवादेः सद्भावपर्यायण ग्रीवात्वादिनाऽऽदिष्टस्य सत्त्वात्, तथा घटादिद्रव्यदेशस्यैवापरस्य बुध्नादेरसद्भावपर्यायेण वृत्तत्वादिना परगतपर्यायेणैवादिष्ट-- स्यासत्त्वावस्तुनः सदसत्त्वम् 3 तथा सकलस्यैवाखण्डितस्यघटादिवस्तुनोऽर्थान्तरभूतैः पटादिपर्यायनिजैश्चोर्ध्वकुण्डलोष्ठायतवृत्तग्रीवादिभिर्युगपद्विवक्षितस्य सत्त्वेनाऽसत्त्वेन वा वक्तुमशक्यत्वात् तस्य घटादेद्रव्यस्याऽवक्तव्यत्वम् 4, तथा घटादिद्रव्यस्यैकदेशस्य सद्भावपर्यायैरादिटस्य सत्त्वादपरस्य स्वपरपर्यायैर्युगपदादिष्टतया सत्त्वेनासत्त्वेन वावक्तुमश