SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ वसहि 1051 - अमिधानराजेन्द्रः - भाग 6 वसट्टि दयति। बृ०३उ०। पं०भा०ा पं०चू०। अनन्तरहितायां पृथिव्यां स्थानादीनि न कुर्यात् / नि०चू०१३ उ०। (अभिनिषद्यागमनम्--'अभिणिसज्जा' शब्दे प्रथमभागे७१८ पृष्ठे व्याख्यातम्।)-(उपसंपद्यमानेन कथं वस्तव्यम् इति 'उवसंपया' शब्दे द्वितीयभागे 663 पृष्ठे उक्तम्।)-- (आचार्योपाध्याययोर्वसतेरन्तः एकाकी वस्तुं कल्पते इति 'अइसय' शब्दे प्रथमभागे 26 पृष्ठे व्युत्पादितम्।)-('जिणकप्पिय' शब्दे चतुर्थभागे 1481 पृष्ठ जिनकल्पिकानां वसतिः।)-("णितियवास' शब्दे चतुर्थभागे 2067 पृष्ठे नित्यवास-निषेध उक्तः।)-(वृद्धावासः उवसपया' शब्दे द्वितीयभागे 668 पृष्ठे गतः।) (27) श्रावकस्य वसतिमाहनिवसेज तत्थ सद्धो, साहूर्ण जत्थ होइ संपाओ। चेइयहराइँ जम्मि, तयण्णसाहम्मिया चेव // 41 // निवसेद्-आवसेत्तत्र-नगरादौ श्राद्धः-श्रावकःसाधूनां-यतीनां यत्र नगरादौ भवति-जायते संपात-आगमनम, तथा चैत्यगृहाणि प्रतीतानि, यस्मिन् नगरादौ भवन्तीति गम्यते। तथा तस्मादधिकृतश्रावकादन्येअपरे ये साधम्मिकाः समानधम्मिकास्ते तदन्य-साधर्मिकाः श्रावकाः, चशब्दः समुच्चये, एवकारोऽवधारणे, तस्य चतत्रैवेत्येवं संबन्धो दृश्यः / अथैवंविधे स्थाने निवसतः किं फलमिति चेदुच्यते-गुणानां वृद्धिः। तथा चोक्तम्-साधुसंपातादिपुरस्काराय"साहूण वंदणेणं, नासति पावं असंकिया भावा / फासुयदाणे निज्जर, उवग्गहो नाणमाईणं / / 1 / / भिच्छादसणगहणं, सम्मद्देसणविसुद्धिहेउंच। चियवंदणाइविहिणा, पन्नत्तं वीयरागेहिं // 2 // साहम्मियथिरकरणे, वच्छलं सासणस्स सारो त्ति। मग्गसहायतणओ, तहा अणासोयधम्माओ // 3 // " इति गाथार्थः / / 3 / / पञ्चा०१ विव०। (कस्यां वा वसतौ स्वाध्याय इति 'सज्झाय' शब्दे वक्ष्यते / ) गृहे 'भवणं घर आवासो, निलयो वसही निहेलणं अगारं'। पाइ० ना०४६ गाथा। वसतिस्वामिनि देवलोकंगते कः शय्यातरः स्यादिति? प्रश्नः, अत्रोरम्-स्वामित्वेन तचिन्ताकारी स एव शय्यातरो भवतीति॥७७॥ सेन०२ उल्ला०। साधुभिर्वसतिप्रमार्जनानन्तरं श्राद्धाः प्रतिलेखनां कुर्वन्ति, तदा पुनरपि श्राद्धानां वसतिप्रमार्जनं मृग्यते न वेति? प्रश्नः, अत्रोत्तरम्-यतिभिर्वसतिप्रमार्जनानन्तरं श्राद्धानां प्रतिलेखनाकरणे काजकोद्धरणं कृतं बिलोक्यत इति ||11|| सेन०३ उल्ला०। विषयसूची(१) कीदृशी वसतिराश्रयणीया। (2) साण्डा वसतिर्न मार्गयितव्या। (3) प्रतिश्रयगता उद्गमादिदोषाः ! (4) औद्देशिकी शय्यां न गृह्णीयात् / (5) संयतार्थमसंयतः प्रतिश्रयं कुर्यात्। (6) प्रतिकर्म / (कतिप्रकारा शोधिः) (7) पिण्डादिषु वसतिदोषाः। (8) वर्षावासयोग्या वसतिः। (E) वसतौ पीठादिसञ्चालननिषेधः / (10) स्कन्धादिषु अन्तरिक्षे वसतिः। (11) निर्ग्रन्थीनां सागारिकवसतौ निषेधः। (12) स्त्रीपुंससागारिकोपाश्रये वस्तुं कल्पते न वा। (13) वसतिदोषविशेषप्रतिपादनम्। (14) तृणादिपुजेषु वसतिदोषाभिधानम्। (15) अभीक्ष्णं साधुष्ववपतत्सुन वसेत्। (16) कालातिक्रान्तवसतिदोषः।। (17) तथाविधकार्यवशाचरककार्पटिकादिभिः सह संवासे विधिः। (18) गृहमध्यान्मार्गवत्युपाश्रये न निवसेत्। (19) यत्र गृहपतिजनाः कलहंगात्राभ्यङ्गं वा कुर्वन्तितत्र वासनिषेधः। (20) अभिनिर्वगडायां वासविधिः। (21) वर्षासुकीदृशे उपाश्रये वसेत्। (22) हेमन्तग्रीष्मयो मासौ वस्तुंकल्पेते। (23) एकवगडायामेकपरिक्षेपायां वसतौ वासनिषेधः। (24) शीतोदकशय्यायां प्रवेशनिषेधः। (25) यत्र राजा तिष्ठति तस्यां वसतौ नवसेत्। (26) निर्ग्रन्थानां वसतौ निम्रन्थीभिर्न गन्तव्यम्। (27) श्रावकस्य वसतिः। वसहिदाणफल-न०(वसतिदानफल) वसतिदानफले, बृ०॥ वसहिफलं धम्मकहा, कहणमलद्धीउ सीसवावारे। पच्छा अइंति वसहिं,तत्थ य भुओ इमा मेरा // 740 // धर्मकथां कुर्वन्तः सूरयो वसतिफलं कथयन्ति यथा"रयणगिरिसिहरसरिसे, जंबूणयपवरवेइअक्खलिए। मुत्ताजालगपयरग-खिंखिणिवरसोभितविडंगे / / 1 / / वेरुलियपयरविहुम-खंभसहस्सोवसोभिअमुदारं। साहूण वसहिदाणा, लभते एयारिसे भवणे // 2 // " इत्यादि / 601 उ०२ प्रक वसहिपाल-पुं०(वसतिपाल)वसतिरक्षके, ओघा (भिक्षागतानांसाधूनां यो वसतिरक्षपाल आस्ते तेन किं कर्तव्यमिति भोयण' शब्दे पञ्चमभागे 1616 पृष्ठे गतम्।) (आचार्योवसतिपालत्वेनस्थापनीय इति वसति' शब्दे एवोक्तम्।) वसा-स्त्री०(वसा) शरीरस्नेहे, प्रश्न०१ आश्र० द्वार / शरीरावयवे, सका अस्थिमध्यरसे स्था०४ ठा०१ उ०। वसार्थं व्याघ्रमकरादयो मार्यन्ते। आचा०१ श्रु०१अ०६ उ० वसिअ-त्रि०(वसित) वसते, 'कुत्थो वसिओ' पाइना० 225 गाथा। वसिउ-अव्य०(उषित्वा) स्थित्वेत्यर्थे, बृ०१ उ०२ प्रक०। वसिउं-अव्य०(वसितुम्) धातूनामनेकार्थत्वात् बन्धितुमित्यर्थे, तं०। वसिट्ठ-पुं०(वशिष्ठ) स्वनामख्याते वाशिष्ठमूलगोत्रप्रवर्तके महर्षों , यद्गोत्रे आर्यसुहस्तिषष्ठगणधरा आसन् / स्था०७ठा०३ उ० आ०म०ा पार्श्वनाथस्य तृतीये गणधरे, स्था० 8 ठा०३ उकल्पा आ०म० औत्तराहाणां द्वीपकुमाराणामिन्द्रे, स्था०२ ठा०३उ० भ० स०)
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy