________________ वसहि 1046 - अभिधानराजेन्द्रः - भाग 6 वसहि तत्र वाऽनन्तज्ञानिना-तीर्थकृतां करोति, सद्वितीयो वसन्तस्य-द्वितीयस्य धर्म कथयति। अथैकाकी वसति ततः सर्वामपि रात्रि परिवर्तयति। पडिजग्गिया य खिप्पं, दोण्ह सहूणं तिगिच्छजतणाए। तत्थेव गणहरो अ, अण्हहि जयणाइ तो णेइ / / 106 / / एवं तेन साधुना प्रतिजागरिता सा क्षिप्रं शीघ्रं प्रगुणीभवेत्, इत्थं द्वयोः सहिष्णोर्यतनया चिकित्साकरणमुक्तम्। तां च प्रगुणीभूतां गृहीत्या यदि तस्या गणधरस्तत्रैवासन्ने समस्ति ततस्तं गाढं खरण्टयित्वा तस्य समर्पयति। अथान्यत्र दूरदेशे ततः सार्थेन सह तां तत्र प्रस्थापयति, स्वयं वा यतनया तत्र नयति। कथमित्याहनिकारणे चमढणा, कारण गिण्हेति अहव अप्पाहे। गमणऽत्थि मिस्ससंबं-घि वञ्जिते असति एमागी।।१०७।। यदि सा ग्लाना संयती निष्कारणं गणादतिक्रम्यकाकिनीभूता ततस्तां चमढयति; निर्भर्त्सयतीत्यर्थः / अथ कारणिकी ततस्तां स्वयं नयति, येषां वा आचार्याणां सा संयती तेषां संदिशति / यथा-युष्माकं संयती साम्प्रतमन्न तिष्ठति, अस्या आनयनकृते संघाटकः प्रहेयः। यदा पुनः स स्वयं नयति। तदा इयं यतना। 'गमणित्थि' इत्यादिस्त्रीसार्थेन संबन्धिना समंप्रथमतोनयति, ततः स्त्रीसार्थेनैवासंबन्धिना, ततः पुरुषमिश्राभिरपि स्त्रीभिः, प्रथमं संबन्धिपुरुषयुक्ताभिरपि, ततः पुरुषैरेव केवलैः, प्रथम सबन्धिभिस्ततोऽसंबन्धिभिरपि समं नयति / एषां प्रकाराणामभावे स साधुरेककोऽपि तां नयति। तत्र चात्मना पुरतो गच्छति, संयतीन नासन्ने नातिदूरे पृष्ठतः स्थिता आगच्छति। ततः प्रथमो भङ्गः। ___ अथ द्वितीयभङ्गं बिभावयिषुराहनविय समत्थो सय्वो, हवेज एतारिसम्मि कजम्मि। कायव्वों पुरिसकारो, समाहिसंधारणहाए।।१०८॥ साध्वी सहिष्णुःसाधुरसहिष्णुरित्ययं भङ्गो भाव्यते / नापि च नैव सर्वोऽपि साधुरेतादृशे स्त्रियाः स्पर्शादावपि मनोनिग्रहात्मतके कार्ये समर्थो भवेत्। ततः किंसाग्लानासती तेन परित्यक्तव्या? नेत्याहज्ञानदर्शनचारित्राणां यः समाधिरन्योन्याविरोधिनैकत्रा-वस्थानं तस्य संधारणार्थ तथा साधुना पुरुषकारः कर्त्तव्यः यथा तस्याः चिकित्सा क्रियते, आत्मनश्च शीलखण्डना न भवति।। सपुनः साधुः कथमसहिष्णुर्भवतीत्युच्यतेसोऊण य पासित्ता, संलावणं संलावणं तहेव फासेणं / एतेहि असहमाणे, तिगिच्छजयणाइ कायव्वा / / 10 / / स्त्रियाःशब्दं श्रुत्वा रूपं वा तदीयं दृष्टा तया सार्द्ध वा यः संलापो वा तस्याः स्पर्शस्तेन वा तस्य मोहोद्भवे सति एतैः प्रकारैरसहमानइन्द्रियनिग्रहं कर्तुमक्षमो यस्तेन यतनया चिकित्सा कर्तव्या। तद्यथाप्रथम सा ग्लाना प्रष्टव्या, आर्ये ! भवति ! किं सहिष्णुर-सहिष्णुः? सा गीतार्था वा भवेदगीतार्था वा? अविकोविया उपुट्ठा, भणाइ किं मंन पाससी णियए। छगमुत्ते लोलंतिं. तो पुच्छसि किं सहू असहु॥११०॥ अविकोविदा--अगीतार्था पृष्टा इदं भणंति-किं मां न पश्यसि? निजके छगणे-मूत्रे लोलन्तीम्, तत एवं पृच्छसि-किं सहिष्णुर-सहिष्णुरिति। साधुराहपासामि णाम एतं, देहाऽवत्थं तु भगिणि जा तुझं। पुच्छामि घितिबलं ते, मा बंभविराहणा होजा||१११॥ नामेति-कोमलामन्त्रणे, भगिनि! पश्याम्यहमेतां दोहवस्थांया साम्प्रतं तववर्तते। परमहं ते-तवधृतिबलं पृच्छामि माममतव च ब्रह्मव्रतविराधना भवेदिति कृत्वा। ततःसाध्वी ब्रूतेइहरा विताव सद्धे, रूवाणि य बहुविहाणि पुरिसाणं। सोऊण व दठूण द, ण मणक्खोमो महं को वि॥११॥ इतरथाऽपि-नीरोगाया अपि मम तावत्पुरुषाणां गीतादीन श्रुत्वा, रूपाणि च बहुविधानि विशिष्टनेपथ्यालंकृतानि दृष्ट्वा कोऽपि न मनागपि मनःक्षोभो भवति। किं चसंलवमाणी दियए, णयामि विगतिंण संफुसित्ताणं हहा वि किं तु सहि, तं पुण णियगं धितिं जाण / / 113 // अहं सकलमपि दिवसं पुरुषेण सह संलपन्ती विकृतं-विकारं न यामि, न वा पुरुषहस्ताद्यवयवसंस्पृशाऽपि विकारं गच्छामि, तदेवं हृष्टाऽपि नीरोगाऽप्यहमेवं सहिष्णुः, किं पुनरिदानी ग्लानावस्थां प्राप्ता। त्वं पुनर्निजकामात्मीयां धृति जानीहि / एवमुक्ते स किं करोतीत्याहसो मग्गति साहम्मि, सण्णियहा महगं वि सूइंच। देति य से वेदणगं, भत्तं पाणं च पाउम्गं / / 115| सोऽसहिष्णुः साधुस्तत्रान्यत्र वा ग्रामे साधर्मिी संयती मार्गयति। तत्र प्रथम संविनां गीतार्थां, तदभावे संविग्नामगीतार्थाम, तदलाभे पार्श्वस्थां गीतार्थाम, तदप्राप्तौ पार्श्वस्थामगीतार्थाम् / अथ संयती न प्राप्यते ततः संज्ञिनीश्राविकाम, तामपि प्रथमं गृहीताणुव्रताम्, ततो दर्शनश्राविकामपि तदप्राप्तौ यथा भद्रिकामपि गवेषयति / तदलाभे सूतिकांनवप्रसूतस्त्रीं सूतीकर्मकारिणी मार्गयति / सा च धर्मकथया प्रज्ञाप्यते, यथा-मुधिकयैव संयत्या वैयावृत्त्यं करोति। अथासौ मुधिकया नेच्छति ततो वेतनमपि तस्यै भक्तपानं वा प्रायोग्यं ददाति। एयासिं असतीए,ण कहेति जहा अहं खु मितं असहू। सद्दाही जयणं पुण, करेमु एसा खलु जिणाणा // 11 // एतासामनन्तरोक्तस्त्रीणामभावे ससाधुस्तस्यां सुरतो नैवं कथयति, यथाऽहमसहिष्णुरस्मि, पराभवंश्च चेतसि निश्चिनोति, यथा शब्दादिविषयां यतनां कुर्मः / एषा खलु निश्चितं जिनानामाज्ञा।