________________ वसहि 1048 - अभिधानराजेन्द्रः - भाग 6 वसहि अथवा--आत्मपरोभयसमुत्थदोषान् परिहरमाणो ग्लानकृत्यं करोति। कुत इत्याह- 'जतो खिप्पं' ति यत आत्मसमुत्थादिदोषानपरिहरतः क्षिप्रमेव संयमविराधना भवति। कीदृशः पुनस्तां प्रतिजागर्तीत्युच्यतेपियधम्मो दधम्मो, मिसवादी अप्पकोउहल्लोय। अजंगिलाणयं खलु, पडिजग्गति एरिसो साहू |5|| प्रिय इष्टो धो यस्य स प्रियधर्मा, धर्मे दृढो-निश्चलो दृढ धर्मा राजदन्तादित्यात् दृढशब्दस्य पूर्वनिपातः, मितं-परिमिताक्षरं वक्तुं शीलमस्येति मितवादी, अल्पशब्दस्यहाभाववचनत्वादल्पम्-अविद्यमानं कौतूहलं स्वीरूपदर्शनादिषु यस्य सोऽल्पकौतूहलः / ईदृशः साधुरार्या ग्लानां प्रतिजागर्ति। सो परिणामविहिण्ण, इंदियदारेहि संदरियदारो। जं किंचि दुन्भिगंध, सयमेव विगिचणं कुणति // 96|| स वैयावृत्त्यकरो वर्णगन्धादिभिः शुभा अपि भावा भूयोप्य-शुभा भवन्ति; अशुभा अपि च संस्कारविशेषतो विश्रसया वा शुभा जायन्ते इत्येवंपुद्गलानां परिणामविधिं जानातीतिपरिणामविधिज्ञः। तथेन्द्रियद्वारेभ्यः संवृतद्वारः इह 'गम्ययपः कर्माधारे' // 2 // 27 // इत्यनेन पञ्चमी / ततोऽयमर्थः- इन्द्रियरूपाणि द्वाराण्यधिकृत्य संवृतद्वारो न पुनर्बाह्यद्वाराणि। ईदृशः साधुर्यत्किचिदार्यिकायाः संज्ञादिकं दुरभिगन्धं तस्य स्वयमेव विवेचनं स्फेटनं परिष्ठापनं वा करोति। संवृतद्वारपदस्य सफलं वा करणार्थमाहगुरुझंगवदणकक्खो -राअंतरे तह थणंतरे दटुं। संहरति ततो दिहि, न य बंधति दिहिए दिहिं ||17|| गुह्याङ्गस्य वदनस्य कक्षयोरूर्वोश्च यान्यन्तराणि-अवकाशास्तानि, तथा स्तनान्तराणि च दृष्ट्वा संहरति-भास्करादिव ततो दृष्टि निवर्त्तयति! नच नैवार्यिकायां दृष्टौ दष्टिं बध्नाति-मीलयतीत्यर्थः। अथ यत्किचित् दुरभिगन्धमित्यादिव्याचष्टेउचारे पासवणे,खेले सिंघाडए विगिंचणया। उव्वत्तणपरियत्तण, णंतगणिल्लेवणसरीरो॥९८|| उचारस्य प्रश्रवणस्य खेलस्य सिंधाणस्य च विवेचनं करोति। उद्वर्तनं नाम तस्या उत्तानायाः पार्श्वतः करणम्, ततः इतरस्यां दिशि स्थापनं परिवर्तनं तदपि करोति, नन्तकंवस्त्र तथा शरीरंच यदि संज्ञया मूत्रेण वा लिप्तं ततस्तदपि निर्लेपयितव्यम्। किरियातीतं णाउं, जं इच्छति एसणाएँ तं तत्थ। सद्धावणा परिण्णा, पडियरणकहा णमोकारो || क्रियायां क्रियमाणायामपि या न प्रगुणीभवति सा क्रियातीता, तां ज्ञात्वा सा प्रष्टव्याकेन भवत्या समाधिरुत्पद्यते? ततोयद्रव्यमिच्छतितदेषणया शुद्ध शुद्धस्यालाभे पञ्चकहानियतनयाऽपि गृहीत्वा दातव्यम्। ततः सा तथा श्रद्धाप्यते; यथा परिज्ञाय स्वयमनशनं प्रतिपद्यते। अनशनप्रतिपन्नायाश्च सर्वप्रयत्नेन प्रतिचरणं धर्मकथा च तथा कर्त्तव्या; यथा सम्यगुत्तमार्थमाराधयति / नमस्कारश्च तस्या मरणवेलायां दातव्य इति। क्रियासाध्याया विधिमाहदव्वं तु जाणियव्वं, समाधिकारं तु जस्स जं होति / णायम्मिय दवम्मिय, गवेसणा तस्स कायव्वा / / 10 / / यस्य रोगस्य यद्रव्यं यस्या वा ग्लानाया यत् समाधिकारकं तत्प्रथमत एव ज्ञातव्यम्। ज्ञाते च तस्मिन् द्रव्ये सर्वप्रयत्नेन तस्य गवेषणा कर्तव्या। सयमेव दिहपाढी, करेति पुच्छति अजाणओ वेशं / दीवणदव्वादिम्मिय, उवदेसे वादिजालंभे॥१०१।। वैद्यकशास्वरूपो दृष्टः पाठो येन स एवंविधः स्वयमेव चिकित्सां करोति, अथवा-वैद्यकशास्त्राभिप्रायं न जानाति, ततो वैद्यं पृच्छति,तस्य च वैद्यस्य दीपनं करोति / यथाऽहं कारणत एकाकी संजातः, अतो मा अपशकुनं गृह्णीध्वम्। ततो वैद्येन द्रव्यक्षेत्रकालभावभेदाच्चतुर्विधे उपदेशे दत्ते सति ब्रवीति। यदि वयमेतन्न लभामहे ततः किं प्रयच्छामः ! एवं पृष्ट भूयो द्रव्यान्तरे उपदिष्ट ब्रूते यद्येतदपि न लभामहे ततः किं कर्तव्यम्एवं तावत् पृच्छति; यावद्यस्य ध्रुवो लाभः तदुपदेशे च पृच्छा तिष्ठति; उपरमत इत्यर्थः। अथ रात्रौ विधिमाहअब्भासे व वसेज्जा, संबद्धं उवस्सयस्स वा दारे। आगाढे गेलण्णे, उवस्सए चिलिमिलिविभत्ते॥१०॥ संयतीप्रतिश्रयस्याभ्यासे-समीपे यदसंबद्धमन्यद् गृहं तत्र वसेत्, तस्याभावे संबद्धेऽप्यन्यगृहे, तदभावे उपाश्रयस्य वा द्वारे / अथ गाढं ग्लानकार्य भवति तत उपाश्रयेऽपि चिलिमिलिकाविभक्ते सति। किमर्थपुनरुपाश्रयस्यान्तर्वसतीत्याहउव्वत्तण परियत्तण, उभयविर्गिचट्ठपाणगट्ठावा। तक्करभयभीरक्खण, णमुकारट्ठा वसे तत्थ // 103|| तस्या उद्नंवा कर्तुम् उभयस्य वा कायिकीसंज्ञालक्षणस्य विवेचयनार्थम्, तृषार्ताया वा रात्रौ पानकदानार्थम्, यद्वा-तत्रतस्करभयम्; सा चसंयती स्वभावेनैव भीरुः ततो भयरक्षणार्थम, अथेति-अथवा मरणवेलायाः प्रत्यासन्नत्वे नमस्कारदानार्थं वा तत्र वसेत्। धिइबलजुत्तोऽविमुणी,सेज्जातरसण्णिसजिगादिजुतो। वसति परपचयहा, सलाहणट्ठाय अवराणं // 104|| यद्यपि समुनिः सहिष्णुत्वाद्धृतिबलयुक्तस्तथापि शय्यातरेण संज्ञिना वा श्रावकेण सिद्धकेन वा सहवासिना युक्तः-सहितः संयतीप्रतिश्रयं वसति, शय्यातरादिकमित्थं भणति न वर्तते ममैकाकिनः संयतीप्रतिश्रये रात्रौ वस्तुम्, अतो मम द्वितीयेन भवता भवितव्यम् / अथ किमर्थमेवं करोतीति चेदित्याह-परप्रत्ययार्थम्-परेषामगारिणां प्रतीत्युत्पादननिमित्तम्, यथा-नैष विरुद्धाभिप्रायेणात्र वसति अपरेषां वा साधूनां श्लाघार्थम्-धन्या अभी येषामेवंविधः सुदृढो धर्म इति। सो निजराए वट्टति, कुणति य वअणं अणंतणाणीणं / सपितिओ कहेती, परिवटेगागि वसमाणे / / 10 / / स साधुरेव कुर्वन् विपुलायां निर्जरायां वर्तते / आज्ञां