________________ वसहि 1043 - अभिधानराजेन्द्रः - भाग 6 वसहि कर्तव्या। तत्र असहिष्णुसाधोश्चतुष्कभजना भवति, चतुर्भङ्गीत्यर्थः। सा चेयम्-साध्वी सहिष्णुः साधुरपि सहिष्णुः, साध्वी सहिष्णुः साधुरसहिष्णुः, साध्वी असहिष्णुः साधुः सहिष्णुः। साध्वी साधुश्च द्वावप्यसहिष्णू / एष द्वारगाथासंक्षेपार्थः। अथ विस्तरार्थमभिधित्सुः प्रथमदारमङ्गीकृत्याऽऽहउवस्सए य संथारे, उवहीसंघपाहुणे। सेहहवणुद्देसे, अणुना भंडणा गणे॥४४॥ अणप्पज्झ अगणिआऊ, वीआरे पुत्तसंगमे। संलेहणवोसिरणे, वोसट्टे निहिए तिऽहं // 15 // उपाश्रयस्य संस्तारकस्योपधेर्वा प्रदानार्थ संयतीप्रतिश्रयं गच्छेत्, काश्चिद्वा संयत्यः परीषहपराजितास्तासामवधारणा भवति-विमुखा वर्तन्ते, तासां स्थितीकरणा) संघः प्राघूर्णो गच्छेत्, इह कुलस्थविरा गणस्थविरः संघस्थविरोवा संघस्य गौरवार्हतया प्राघूर्ण उच्यते। शैक्षस्य वा उपस्थापना कुलानां वा स्थापनां कुर्तुं तत्र व्रजेत् / वसतावस्वाध्यायिके श्रुतस्योद्देशमनुज्ञांवा कर्तुं तत्र गच्छेत्। भण्डनं कलहः तदा तासां परस्परं समुत्पन्नम्, तदुपशमनार्थं गन्तव्यम्। 'गणे' त्ति प्रवर्तिन्यां कालगतायां गणार्पणार्थं गच्छेत् / अणप्पज्झ'त्ति देशीपदमनात्मवशवाचकः ततश्चात्मवशाया यक्षाविष्टादिरूपाया आर्यिकाया मन्त्रतन्त्रादिप्रयोगेणात्मवशतां कर्तुं गच्छेत् / अग्निना वा संयतीवसतिर्दग्धा, अप्कायपूरेण वाप्लाविता, विचारभूमौ वा गच्छन्तीनां तासां सोपसर्गे, 'पुत्ते' त्ति उपलक्षणत्वात् पुत्रं पिता भ्राता वा तासां कालगतो भवेत् 'संगमे' त्ति पुत्रभ्रात्रादिरेव तासां संज्ञातकश्चिरादागतो भवेत्, तस्य यः संगमो-- मीलकस्तदर्थम्, तथा संलेखनं भक्तप्रत्याख्यानाय परिकर्मणं काचिदार्यिका करोति, व्युत्सर्जनं वा-भक्तप्रत्याख्यानम् कर्तुकामा काचिद् व्युत्सृजते व्युत्सृष्टं वा कयाचिद्भक्तं प्रत्याख्यातम्-अनशनं प्रतिपन्नमित्यर्थः, एतेषु कारणेषु गच्छेत्। अथ काचित् निष्ठिता कालगता, ततः शेषसंयतीनां शोकापनयनार्थत्र्यहं त्रीन् दिवसान् यावदुपर्यपि सूरिणा गन्तव्यमिति श्लोकद्वयसंक्षेपार्थः। ___ अथैतदेव प्रतिपदं बिभावयिषुराहअज्जाणं पडिकुटुं, वसहीसंथारगाण गहणं तु। ओभासिउ दाउंवा,वर्चचा गणहरो तेणं॥४६|| आर्याणां स्वयं वसतेःसंस्तारकाणां च ग्रहणं भगवता प्रतिक्रुष्ट- | प्रतिषिद्धम् अतो वसतिमवभाषितुंगणधरो गच्छति, संस्तारकांश्च तासां प्रायोग्यमुत्पाद्य तान् प्रदातुं गणधरस्तत्र व्रजेत्। __ अथोपधिद्वारमाहपडियं पम्हटुं वा, पलावियं अवहियं च उग्गमियं / उवहिं भाएतुंजे, दाएजं वा विवओज्जा / / 47 / / भिक्षादौ पर्यटन्तीनां तासामुपधिः पतितः स्वाध्यायभूमौ वा गतानां 'पम्हुटुं' ति विस्मृतः / उदकेन वा प्लावितः, स्तेनैर्वाऽपहृतः। स च भूयोऽपि साधुभिर्लब्धः, अपूर्वो वा उपधिस्तैरुद्गमित उत्पादितः / अतस्तमुपधिं भाजयितुंवा दातुंवा गणधरो व्रजेत् / तत्र पतितविस्मृतादेरुपकरणस्य यस्याः सत्कंतस्याएव यद्विभज्य समर्पणं तद्भाजनमुच्यते, यत्पुनरपूर्वं उपधिरुत्पाद्य तासां दीयते तद्दानम् / प्रवर्त्तिन्या अभावे शेषसंयतीनां विभज्य समर्पणं विभजनम्, यत्तु प्रवर्तिन्या हस्ते समर्प्यते तद्दानम्। ___ अथ संघप्राघूर्णद्वारमाहओहाणाभिमुहीणं, थिरकरणं काउ अभियाणं तु। गच्छेजा पाहुणओ, संघकुलथेरगणथेरो॥४८|| अवधावनाभिमुखाना परीषहपराजितानामार्यिकाणां स्थिरीकरणं कर्तुं प्राघूर्णको गच्छेत्। कः पुनः प्राघूर्णक इत्याह-संघस्थविरः कुलस्थविरो वा उपलक्षणमिदम् तेनान्योऽपि यः स्थिरीकरणलब्धिसम्पन्नः स गच्छति। अथ शैक्षद्वारमाहअन्नत्थ अप्पसत्था, होज पसत्था य अधिगोवसए। एएण कारणेणं, गच्छेज्ज उवट्ठवेचं जे ||49ll अन्यत्र विधीयमाना उपस्थापना क्षाराङ्गारे कचवराद्य-प्रशस्तद्रव्ययुक्तत्वादप्रशस्ता भवेत्। आर्यिकोपाश्रये प्रशस्ता एतेन कारणेन शैक्षमुपस्थापयितुं 'जे' इति पादपूरणे, आर्यिकावसतिं गच्छेत्। स्थापनाद्वारमाहठवणकुलाइ ठवेडं, तासिं ठवियाणि वा णिवेदेउं / परिहरि ठवियाणि य, ठवणादियणं व वोत्तुंजे // 10 // दानश्रद्धादीनि स्थापनाकुलानि तासां समक्ष स्थापयितुम्, यद्रातानि स्ववसतौ स्थापितानि परंतासां निवेदयितुममुकममुकं च कुलं स्थापितमित्येवं ज्ञापयितुम् इदानी वा तानि कुलानिस्थापितानिततः परिहतुन निर्वेष्टव्यानीत्येवं निवारयितुम, येषु जन्मसूतकमृतसूतकादियुक्तेषु कुलेषु पूर्वमित्वरस्थापना कृता तेषु विवक्षितावधिपरिपूर्त्यनन्तरं भूयोऽप्यादानंग्रहणं कुरुत इत्याज्ञावचनं वक्तुंगन्तव्यम्। अथोद्देशानुज्ञाद्वारमाहवसहीएसज्झाए, गोरवभयसद्धमंगले चेव। उहेसादी काउं, वाएवं वा विगच्छेज्जा ||11|| वसतावस्वाध्यायिके जातेसंयतीवसतिमुद्देशमनुज्ञा वा कर्तुं गच्छेत्, अथवा-यद्याचार्यः स्वयं तासामुद्देशादिकं करोति ततस्ता आधार्यविषयं यद्गौरवं यच्च तदीयं भयं ताभ्यां शीघ्रं तदङ्ग श्रुतस्कन्धादिकमधीयते, आचार्येण वा स्वयमुद्दिष्ट तासां महती श्रद्धोपजायते प्रशस्तद्रव्यादिगुणयुक्तत्वाच तत्रोद्देशादौ विधीयमाने मङ्गलं भवेत्। एतैः कारणैरुद्देशादिकं कर्तुं तत्र गच्छेत् / प्रतिवाचिन्यां वा कालगतायामन्या काचित्तासां वाचनादात्री न विद्यते ततो गणधरो वाचयितुं गच्छेत्। भण्डनद्वारमाहउप्पन्ने अहिगरणे, ठिउं सवेउं तहिं पसत्थं तु। अच्छंतिखउरियाउं,संजम सार ठवेजे // 5 // अधिकरणे उत्पन्ने सति ताः संयमस्य सारं सर्वस्वभूतमुपशमं पार्श्वे स्थापयित्वा 'जे' इति प्राग्वत् / 'खउरियाउ' त्ति कलुषित-चेतसः परस्परमालपन्त्यस्तिष्ठन्ति, ततस्ता युपश