________________ वसहि 1042- अभिधानराजेन्द्रः - भाग 6 वसहि उच्चगगतामि मतों सा, इहराण विपत्तिअंतोऽमि॥३४॥ संयतस्तां संयतां निश्चलया दृष्ट्या निरीक्षते, ततः सा ब्रवीति-किमेवं पश्यथ? स प्राह मदीयभोगिन्या सह यद्भवत्याः सर्वथैव सादृश्यं तन्मां मोहं नयति; किमेषा सैवेति; विभ्रमं जनयतीत्यर्थः। सा ब्रवीति-ममापि त्वं तथैव मोहं जनयसि। स प्राह-किं करोमि ममोत्सङ्गे गता स्थिता सा मृता, इतरथा यदि परोक्षं सा मृताऽभविष्यत् ततो देवानामपि वचनेन प्रत्ययं नागमिष्यम्, यथा त्वं सा मम पत्नी न भवसीति। इय संदसणसंभा-सणेहि भिन्नकधविरहजाएहिं। सेज्जातरादिपासण-वोच्छेदे दुधम्मत्ति॥३५॥ इत्येवं यत्परस्परं संदर्शनम्, यच संभाषणम्-किमिति त्वमद्य न गतेत्यादि पृच्छारूपं ताभ्याम् ; तथा यास्तया सह भिन्नकथायस्य विरह एकान्ते योगः, एतैश्चारित्रस्य भेद उपजायते तथा शय्यातर आदिशब्दादन्यो वा तत्परिजनादिस्तयोः तथाविधं चेष्टितं पश्यति, सतद्रव्यान्यद्रव्ययोर्व्यवच्छेदं कुर्यात्। दुष्टधर्माण एते इत्येवं विपरिणाममुपगच्छेत्। अथासौ तया सह संपत्तिं गच्छति, ततो नरकायुर्बध्नाति / तीर्थकृतां सङ्घस्य च महतीमाशातनां विधाय बोधिलाभप्रतिबन्धकं कर्मजालमुपचिनोति / उक्तं च- "लिङ्गेण लिङ्गणीए, संपत्तिं जइ निगच्छई मूढो। निरयाऊय निबंधइ, आसायणया अबोही य" इत्याहपयलाणिहतुअट्टे, अच्छिट्ठिम्मिचमढणे मूलं / पासवणे सचित्ते, संकादुच्छम्मि उड्डाहो // 36|| प्रचला नाम-निषण्णस्य सुप्तजागरावस्था, निद्रायणं तुनिषण्णस्यैव स्पप्नम्, त्वग्वर्त्तनं-संस्तारकं प्रस्तीर्यशयनम्,अक्षिच-मढनं-चक्षुषोर्मलनम् / एतानि कुर्वणो यद्यपि सागारिकादिना न दृष्टः तथापि चतुर्गुरु, दृष्टतुशङ्कायां चतुर्गुरु। निःशङ्कितेमूलम्, प्रश्रवणं संयतीनां कायिकीभूमौ करोति चतुर्लघु सचित्ते' संयत्याः कायिकी व्युत्सृजन्त्या योनौ संयतनिसृष्टं शुक्रं बीजमवगाहते ततो मूलम्, 'संकावुत्थम्मि' त्ति तं संयतं तत्र कायिकी व्युत्सृजन्तं दृष्ट्वा सागारिकादिः शङ्का कुर्यात्, किमेष श्रमणको रजन्यामत्रैवोषितः? ततो महानुड्डाहः प्रवचनस्य भवतीति। एषा पुरातनगाथा। अथास्या एव व्याख्यानमाहपयलाणिहतुवट्टे, अच्छीणं चमढणम्मिचउगुरुगा। दिढे वि य संकाए, गुरुगा सेसेसु वि पदेसु // 37 / / प्रचलां निद्रां त्वग्वर्तनम् अक्षिचमढनं च कुर्वाणं यदि परो न पश्यति ततश्चतुर्गुरुकाः, दृष्टऽपि प्रचलादौ शङ्कायां चतुर्गुरुकाः, निःशीङ्कतेमूलम्, शेषेष्वपि अशिवादिसमुद्देशनस्वाध्यायपारणादिषु पूर्वोक्तप्रदेशेषु पारणादिष्वदृष्टषु चत्वारोगुरवः। दृष्टेष्वपिशङ्कयां चतुर्गुरु, निःशङ्कितेमूलम्। का पुनः शङ्का भवेदिति चेदुच्यतेसज्झाएण णु खिण्णो, आउं अण्णेण जेण पयलाति। संकाएँ हॉति गुरुगा, मूलं पुण होति णिस्संके // 38|| नुरिति वितर्के, किमेष संयतः स्वाध्यायजागरेण खिन्नः,आहोस्विदन्येन सागारिकप्रसङ्गेन रात्रौ स्विन्नः। येनैवं प्रचलायते एवं शङ्कायां चतुर्गुरुकाः। निःशङ्कितेतु मूलं भवति। अन्नत्थ मोयगुरुओ, संजतिवोसिरणभूमिए गुरुगा। जोणोगाहणबीए, केऽयी धाराए मूलं तु // 36 // संयती कायिकां भूमिं विमुच्यान्यत्र मोकस्य व्युत्सर्जने मासगुरु, अथ संयतीव्युत्सर्जनभूमौ व्युत्सजति ततश्चतुर्गुरु, उभयत्र च कदाचिद् दृष्टिक्लीवस्यान्यस्य वा बीजनिसर्गो भवेत् तच बीजं संयतीधाराहतं सदूर्ध्वमुद्धावितं योनाववगाहते तत्र संयतस्य मूलम्, होडितायां च तस्यामुड्डाहादयो दोषाः। केचिदाचार्या ब्रुवते धारया स्पृष्टमात्र एव बीजे मूलं भवति, यत एते दोषाः अतो निष्कारणं संयतीवसतिमविधिना न प्रविशेत्। गतः प्रथमो भङ्गः। द्वितीयभङ्गमाहनिकारणे विधीए, दोसा ते चेव जे भणियपूटिव / वीसत्थाई सुत्तं, गेलनाई उवरिमाओ||१०|| निष्कारणे विधिनाऽपि नैषेधिकीत्रयकरणरूपेण प्रवेशे त एव दोषाः, ये पूर्व प्रथमभङ्गे सप्रपञ्चमुक्ताः, नवरं विश्वस्ताविषया ये दोषा उक्ताः, आदिशब्दात्तेषामेवानेकभेदसूचकः तान् मुक्त्वा ये ग्लानादिविषया उपरितना दोषास्ते द्वितीयभङ्गे संभवन्ति, विश्वस्ता दोषास्तुनषेधिकीत्रयकरणे न संभवन्तीति भावः / निकारणे विधीए, तिहाणे गुरुगों जेण पडिकुटुं। कारणगमणे सुद्धो, णवरं अविधीऍ मासतियं // 41 // निष्कारणे विधिनाऽपि प्रविशन् यस्त्रिषु स्थानेषु नैषेधिकीं प्रयुङ्क्ते तस्यापि मासगुरुकम्।कुत इत्याह-येन प्रतिक्रुष्टं भगवता निष्कारणमाबिकासतौ गमनम्। अथ तृतीयभङ्गमाह-'कारणे' इत्यादि कारणे यः संयतीवसतौ गच्छति सशुद्धः, नवरमविधिना असमाचार्या प्रवेशनिष्पन्नं त्रिषु स्थानेषु यदि नैषेधिकीत्रयं न करोति ततो मासलघुत्रयम्, द्वयोः स्थानयोन करोति मासलघुद्वयम्, एकस्मिन् स्थाने न करोति एकं मासलघुकम्। कारणतो अविधीए, दोसा ते चेव ये भणियपुव्वं / कारणविधी सुद्धो, इच्छं तं कारणं किं तु ||4|| कारणतो विधिना प्रविशतो दोषास्तएव भवन्ति,ये विश्वस्तादिविषयाः पूर्व भणिता इति। कारणे तु विधिना त्रिषु स्थानेषु नैषेधिकीत्रयं कृत्वा प्रविशन्शुद्धः / शिष्यः पृच्छति- इच्छाम्यहं ज्ञातुं किं तत् कारणं येन तत्र गम्यते। सूरिराहगम्मइ कारणजाए,पाहुणए गणहरे महिड्डीए। पच्छादणा य सेहे, असहुस्स चउक्कभयणा उ॥४३|| गम्यते संयतीनां प्रतिश्रये कारणजाते उपाश्रयम्, संस्तारकप्रदानादिके प्राघूर्णको वा साधुः संयतीनामबोधपच्छानिमित्तं गच्छेत्, गणधरो वा मूर्छाविसूचिकादौ संयतीनामागाढे कारणे समुत्पन्ने दिवा रात्रौ वा गच्छेत् / महर्द्धिको वा राजामात्यादिः प्रव्रजितः संयतीनां तेजोगौरवादिजननार्थं यायात्, सेहि' त्ति शैक्षस्य राज पुत्रप्रव्रजितादिरमात्यादिभिरुन्निष्क्रामयितुमारब्धस्य प्रच्छादना संयतीप्रतिश्रये ज्ञात्वा कर्तव्या। काचिद्वा संयती ग्लाना तस्याश्चिकित्सा