________________ वसहि 1041 - अभिधानराजेन्द्रः - भाग 6 वसहि शं लोकाच गर्हामासादयति, तन्निष्पन्नं तस्य–संयतस्य प्रायश्चित्तम्। अथ भिक्षाद्वारमाहसइकालफेडणाए-सणादि पेल्लंत पेलणा हाणी। संका अभाविएसुय, कुलेसुदोसा चरंतीणं // 24|| संयत्यो भिक्षायां प्रस्थिताः, स च साधुः समायातः। ततस्तस्या दाक्षिण्येन तावत् स्थितो यावद्भिक्षाया सत्कालदेशकालः स्फिटितः। ततोऽवेलायां भिक्षामटन्त्य एषणाशुद्धेः आदिशब्दादुद्गमोत्पादनाशुद्धेश्व प्रेरणं कुर्युः / अथन प्रेरयेयुः ततश्च आत्मनोहानिः-परितापो महादुःखादिना भवेत्। अभावितकुलेषु वा अकालचरन्तीनां शङ्कादयो दोषा भवेयुः। शङ्का मैथुनार्थविषया, आदिशब्दागोजिकादिपरिग्रहः / अथस्वाध्यायद्वारमाहसज्झाए वाघातो विहारभूमिं च पत्थियणियत्ता। अकरणणासारोवण-सुत्तत्थ विणा य जे दोसा।।२५।। ज्येष्ठार्य आगत इति कृत्वा ताः पठनं परावर्तनं वा न कुर्वन्ति, एवं स्वाध्यायव्याघातो भवेत् / वसतौ वा अस्वाध्यायिके जाते विहारभूमि स्वाध्यायभुवं प्रस्थिताः, भूयस्तत्र संयतमागतं दृष्ट्वा निवृत्ताः। अतः 'अकरणे ति सूत्रपौरुषीं न कुर्वन्ति मासलघु, अर्थपौरुषीं न कुर्वन्ति मासगुरु, सूत्रार्थनाशनिष्पन्ना चाऽरोपणा ! सा चेयम्-सूत्रं नाशयति चतुर्लघु, अर्थ नाशयति चतुर्गुरु, सूत्रार्थाभ्यांच विनाये दोषाश्चरणकरणहान्यादयस्तन्निष्पन्नं सर्वमपि संयतस्य प्रायश्चित्तम्। पालीभेदद्वारमाहसंजममहातडाग-स्सणाणवेरगसुपडिपुनस्स। सुद्धपरिणामजुत्तो, तस्स उ अणइकमो पाली // 26|| संयमः-पञ्चाश्रवादिविरमणात्मकः स एव महद्-विस्तीर्णं यत्तडागं तस्य ज्ञानवैराग्यसुप्रतिपूर्णस्य; ज्ञानमाचारादि श्रुतं तत्समुत्थं यद्वैराग्यं प्रतिसमयाविशुध्यमानभवनिर्वेदः तेन जलस्थानीयेन तु अतीव प्रतिपूर्णस्य यः सुद्धपरिणामयुक्तस्तस्यानतिक्रमः स पालिरित्युच्यते। तस्य भेदः कथं भवतीत्याहसंजमआभिमुहस्सव, विसुद्धपरिणामभावजुत्तस्स। विकहादिसमुप्पन्नो, तस्स उ भेदो मुणेयव्वो // 27 // संयमाभिमुखस्य विशुद्धपरिणामभावयुक्तस्य पालिस्थानीयस्यानतिक्रमस्य यो विकथादिसमुत्पन्नो मिथः कथादिकरणसमुद्भूतो भेदोविनाशः स इह पालिभेदो ज्ञातव्यः / स चात्मपरोभयसमुत्थो भवेत्। अहवा पालयतीति, उवस्सयं तेण होति सा पाली। तीसे जायति भेदो, अप्पाण परोभयसमुत्थो॥२८॥ अथवा या तत्र उपाश्रयं पालयति सा 'सत्यभामा भामे' ति न्यायात् पाली भण्यते; तस्या एकाकिन्यास्तं संयतं दृष्ट्वा आत्मसमुत्थः परसमुत्थ उभयसमुत्थो वा भेदो जायते। कथमिति चेदुच्यते मोहतिगिच्छाखमणं, करेमि अहमवि य बोहि पुच्छा य। मरणं वा अवियत्ता, अहमवि एमेव संबंधो // 29 // स संयतस्तं संयतीप्रतिश्रयं गतो यावदेका वसतिपालिका तिष्ठति। ततस्तेन सा पृष्टा-आर्य ! किमिति भवती भिक्षांनावतीर्णा? सा प्राहअद्य मम क्षपणम्,। स प्रश्नयति-किं निमित्तम्, सा प्रतिब्रूते-मोहचिकित्सार्थम् / तयाऽपि स संयत एवमेव पृष्टो ब्रवीति-अहमपि मोहचिकित्सार्थ क्षपणं करोमि। ततस्तेन पृच्छा कृता-आर्ये ! भवत्या कथं बोधिरासादिता? सा प्राह-- मरणं मदीयभर्तुरजनिष्ट, तस्य वा अहमप्रीतिका-द्वेष्या पूर्वमभूवम् अतः प्रव्रजिता। ततस्तया सोऽप्येवमेव पृष्टः प्राह-अहमप्येवमेवाभीष्टकलत्र-वियोगादिना प्राब्राजिषम् / एवं भिन्नकथासद्भावकथनैर्भावसंबन्धो भवति। इदमेव स्फुटतरमाहओमाणस्स वदोसा, तस्स व गमणेण सग्गलोगस्स। महतरियपभावेण य, लद्धा मे संयम बोही // 30 // अपमानं नाम सापत्न्यतया यद्भर्ता मामवनततया पश्यति स्म तस्य दोषादहं प्राब्राजिषम्। अथवा-मदीयो भर्ता मय्येकान्तानुरक्त आसीत्, अतस्तस्य स्वर्गलोकस्य गमनेन तथा महत्तरिकया यन्मानवरते धर्माख्यानकानि कथितानि तत्प्रभावेण च लब्धा संयमबोधिः-संयम प्रतिपनवतीत्यर्थः। यद्वापदूमिताऽम्हि घरासे, तेण हतासेण तो ठिया धम्मे / सिटुं एय रहस्स,ण कहिलइ जं अणत्तस्स // 31 // प्रदूमिता-प्रकर्षण क्लेशिता अस्मि अहं 'घरासे' गृहवासे प्राकृतत्वाद्वाशब्दलोपः, तेन हताशेन--कुपतिना, ततः स्थिताऽहमेवंविधे धर्मे, इदं च रहस्यमिदानी मया भवते शिष्टन कथ्यते। रिक्खस्स वा विदोसो, अलक्खणो से अभागधिजो णु। नय निग्गुणामि अजो ! तुज्झ वि याणाहि य विसेसं // 32 / / मम पाणिग्रहणदिवसे यद् ऋक्षम्-नक्षत्रंतस्य वा कोऽपि दोष आसीत्, तेन स तादृशो निस्नेहोऽलक्षणोऽभागधेयश्च मम भर्ता अभवत्, न चाहं निर्गुणा-गुणविकला, यद्वा-आर्या ! यूयमपि जानीथ मदीयं विशेषम्सगुणतानिर्गुणताविभागम्। एवमुक्ते संयतो ब्रूयात्इट्ठकलत्तविओगे, अन्नम्मिय तारिसे अविजंते। महतरयपभावेण य, अहमवि एमेव संबंधो // 33 // इष्टकलत्रस्य वियोगे संजाते अन्यस्मिश्च तादृशे कलत्रे अविद्यमाने महत्तरक-आचार्योमम धर्ममाख्याति स्म, ततस्तत्प्रभावेणाह-मपि प्रव्रजितः 'एमेव' त्ति यथा तया सविकारमात्मीयं चरितमाख्यातं तथा संयतोऽप्येवमेव कथयति एवं तयोः परस्परं भावसंबन्धो भवति। किं चान्यत्किं पिक्खह सारिक्खं, मोहं मे णेति मज्झवि तहेव /