________________ वसहि १०४०-अभिधानराजेन्द्रः - भाग 6 वसहि कथमित्याहपाणाइवायमादी, असेवतों केण होति गुरुगा उ। कीस उण बाहि लहुगा, अंतो गुय चोदग ! मुणेहि // 15 // प्राणातिपातादिकमपराधमसेवमानस्य केन कारणेन चतुर्गुरुका भवन्ति? कस्माद्वा बहिारमूले चतुर्लघुकाः? कस्माच्चान्तः प्रविष्टमात्रस्य चतुर्गुरुकम्? आचार्य आह-हेनोदक! शृणुनिशमय अत्र कारणं येनैवं प्रायश्चित्तं दीयते। किं तदित्याहवीसत्थाय गिलाणा, खवियवियारे य भिक्खसज्झाए। पालीऍ होइ भेदो, अप्पाण परे तदुभए य॥१६|| काचिदार्यिका तत्र विश्वस्ता-अपावृतशरीरा भवेत्, सासंक्षोभमुपेयात्। ग्लाना क्षपिका वा संयतसंक्षोभेण न भुञ्जीत् / विचारभूमौ भिक्षायां स्वाध्यायभूमौ वा प्रस्थितानां तासां व्याघातो भवेत्। पाली नामसंयममहातडागस्यानतिक्रमलक्षणः सेतुः तस्या आत्मपरोभयसमुत्थो भेदो भवति। यद्वा-पालीति-वसति-पालिका भण्यते, सार्द्ध संलापादिकुर्वतः आत्मसमुत्थपर-समुत्थोभयसमुत्थो वा भेदो भवतीति द्वारगाथासमासार्थः। साम्प्रतमेनामेव विवृणोतिकाई सुहवीसत्था, दरजेमिय अवाउडाय पयलाति। अतिगतमेत्ते य तहिं, संकियपयलाइया थद्धा / / 17 / / काचिदार्यिका वसतेरन्तः स्थिता सुखविश्वस्ता आत्मसुखेनापावृतशरीरा तिष्ठति। दरजिमिता वा-अर्द्धभुक्ता दरं निवसना काचिदास्ते, अपावृतनिषण्णा वा काचित् प्रचलायते, ततस्तस्मिन् संयते अकस्मादतिगतमात्रे प्रविष्टमात्र एव दृष्टाऽहमनेनापावृतेति शङ्किताशङ्काऽऽकुलासती प्रपलायते; सहसैवनपश्यतीत्यर्थः। प्रपलायिता सती संक्षोभतः स्तब्धगात्रा सा भवेत्। अथेदमेव व्याचष्टेवीरलसउणवित्ता-सियं जहा सउणिवंदयं दुण्णं। वचंतिय णिरवेक्खं, दिसि विदिसाओ विवजंति||१८|| वीरलशकुनाहो लावकः तेन समागच्छता वित्रसितं सद्यथा शकुनिकानाम्-पक्षिणीनां वृन्दं 'वुण्णं' विषण्णं सन्निरपेक्षपुत्र भाण्डाद्यपेक्षारहितम् दिशो विदिशश्वाविभज्यमानं व्रजतिसहसैव पलायते। एष दृष्टान्तः। अयमर्थोपनयःतम्मिय अतिगतमत्ते, वित्तत्थाओ जहेव ता सउणी। गिण्हंति य संघाडिं, रयहरणेयाऽवि मग्गंति // 16 // तस्मिन् संयतेऽतिगतमात्र एव यथैव ताः शकुनिकास्तथैव ता अपि संयत्यो विवस्ता भवन्ति / ततश्च काचिदपावृतगात्रा त्वरित प्रावृणोति। अन्याः काश्चन संघाटिका गृह्णति / यास्तु संयतं दृष्ट्वा रजोहरणं मुक्त्वा नष्टाः ताः पश्चात् सुस्थीभूताः सत्यो रजोहरणानि मार्गयन्ति इति। यत्तु नोदकेनोक्तं प्राणातिपातादिकमसेवमानस्य कस्माच्चतुर्गुरुकं दीयते तदेतत्परिहरन्नाहछकायाण विराहण, पक्खुलणं खाणुकंटए विलिया। थद्धाय पेच्छिउं भा–व भेओं दोसा उ वीसत्थे // 20 // ताः संयत्यः कुम्भकारशालादौ स्थिता भवेयुः / तत्र च निरपेक्षा नश्यन्त्यो मृत्तिकादीनां पृथिवीकायम्, उदकुम्भप्रलोठनेनाप्कायम्, उल्मुकघट्टनेनाग्निकायम्, यत्राग्निस्तत्र नियमादायुरिति कृत्वा वायुकायम, बीजहरितमर्दनेन वनस्पतिम्, कुन्थुकीटिकादिमर्दनेन त्रसकायं च विराधयेयुः / एषा षट्कायविराधना, सा च तत्त्वतस्तेन एव साधुना कृता / प्रस्खलनं नाम-अधस्तादुपरि वा स्फालनम्, यदा-तासां नश्यन्तीनां भवेत्, स्थाणुना वा कण्टकेन वा पादयोरुपघातः स्यात्। 'विलिया' ब्रीडिया अकस्मात्तद्दर्शनालज्जिता सती काचित् वैहायसोदन्धनादि कुर्यात् / भयातिरेकता वा तथा भवेत्। तां च तथाभूतां दृष्ट्वा भावभेदो भवति / सात्विकभा–वप्रभवोऽयमस्य शरीरे स्तम्भ इत्येवमितराः संयत्यश्चिन्तयेयुरिति भावः। एवमादयो दोषा विश्वस्तार्यिकाविषया मन्तव्याः। गतं विश्वस्ताद्वारम्। अथ म्लानाद्वारमाहकालाइमक्कमदाणे, गाढतरं होज णेव पउणेजा। संखोमेण णिरोधो, मुच्छा मरणंच असमाही॥२१॥ ग्लाना संयतीतस्य संक्षोभेण न भुक्ते। प्रतिचरिका वा तदर्थ भिक्षांन गच्छति, ततः कालातिक्रमेण तस्या भक्तपानप्रदाने माढतरं ग्लानत्वं भवेत्, क्षपिकया वा सान प्रगुणी भवेत्। अथवा तदीयसंक्षोभेण तस्या वातकर्मणः कायिक्याः संज्ञाबाधा भवेत् / ततस्तद्राधया मूर्छा संजायेत। निरोधेन वा मरणमाप्नुयात् / असमाधिर्वा तस्या भवेत्, तत्रानागाढपरितापनादिनिष्पन्नं प्रायश्चित्तम् / अथ क्षपिकाद्वारमाह-- पारणगपट्ठिया आ-णीयं वऽविगडियदंसित ण मुंजे। अचियत्तअंतराए, परियाव असज्झवयणे य||२|| क्षपिका-चतुर्थादितपःकर्मकारिणी पारणकार्थं प्रस्थिताऽपि जेष्ठार्य आगत इति मत्वा निवर्तते / तथा च क्षपिकया पारणकमानीतं परमविकटितमनालोचितमदर्शितंच, अनालोकितं सा नभुङ्क्त इति कृत्वा प्रवर्तिनीं प्रतिपालयन्ती तिष्ठति। ततश्च तस्या अप्रीति-कमन्तरायोऽनागाढमामाद वा परितापो भवेत्, असत्यवचनं वा सा ब्रूयात्, अहो अयमस्मत्कार्याणां कीलक इव सांप्रतमुपस्थित इति। विचारद्वारमाहनोलेऊण ण सका, अंतो वा होजणऽत्थि वीयारो। संते वाण य वत्तति,णिक्खमणविणासगरिहाय॥२३|| स साधुभरमूले उपविष्टत्वान्नोदयितुं-लङ्घयितुं न शक्यते / तासां च संयतीनामन्तर्विचारभूमि स्ति, अस्ति वा परं तस्यां संज्ञा न वर्तते, शय्यातरेण वा सा नाऽनुज्ञाता तस्यां व्युत्सर्जन निष्काश-नमसौ कुर्यात्, निष्काशिता च श्वापदादिभिर्विना