________________ वसहि 1036 - अभिधानराजेन्द्रः - भाग 6 वसहि तत्र-निर्गन्थीनामुपाश्रये अकारणं-वक्ष्यमाणकारणकलापं वि ना यद्गमनं यत्प्रतीत्य इदं सूत्रं समुदितं समायातं तदनेन प्रतिषिध्यते इति भावः। अथ कार्येण तत्र गताः, ततो गते-गमने पुनः संजाते त्वग्वर्तनादीनि कर्तु वारयति अनेन संबन्धेनायातस्यास्य (1) व्याख्या-नो कल्पते निर्ग्रन्थानां, निर्ग्रन्थीनामुपाश्रये स्थातुं वा निषत्तुं वा त्वग्वर्तयितुं वा निद्रायितुं वा प्रचलायितुं वा अशनं वा पानं वा खादिमं वा स्वादिम वा चतुर्विधमप्याहारमाहर्तुम्, उच्चारं वा प्रश्रवणं वा खेलं वा सिंधाणं वा परिष्ठापयितुम, स्वाध्यायं वा कर्तुम, ध्यानं वाध्यातुम, कायोत्सर्ग वा स्थातुमिति सूत्रसंक्षेपार्थः। अथ विस्तरार्थ भाष्यकृद्विभणिषुराहआपुच्छमणापुच्छा, व अकजे चउगुरुं तु वचंते। आपुच्छियपडिसिद्धे, सुद्धालग्गा उवेहंती ||4|| स्थविराणामापृच्छया अनापृच्छया वा यद्यकार्ये निर्ग्रन्थीनामुपाश्रयं व्रजति ततश्चतुर्गुरुकम्। स्थविरा आपृष्टाः सन्तो यदि प्रतिषेधं कुर्वन्तिमा व्रज नैव वर्तते निष्कारणं निर्ग्रन्थीनामुपाश्रयं गन्तुम, एवं प्रतिषिद्धे स्थविरा शुद्धः-न प्रायश्चित्तभाजः / अथ स्थविरा उपेक्षन्ते ततस्तेऽपि लग्नाः- चतुर्गुरुकमापन्ना इत्यर्थः। अथवाचउरो गुरुगा लहुगा, मासो गुरुगो य होति लहुगो य। आयरिए अमिसेगे, मिक्खुम्मिय गीतगीतत्थे॥॥ आचार्यों यदि निष्कारणं निर्ग्रन्थीप्रतिश्रयं गच्छति ततश्चत्वारो गुरवः। अभिषेको व्रजति चत्वारो लघवः, गीतार्थभिक्षुर्वजति गुरुको मासः, अगीतार्थभिक्षुर्ब्रजति लघुको मासः। यद्वागमणे दूरे संकिय, णिस्संकभिलावकक्खसतिकरणं / ओभासणपडिसुणणे, संपत्तारोवणा भणिता॥६॥ निष्कारणं संयतीनामुपाश्रये गच्छति तत्रगतो दूरेस्थितः संयतीः पश्यति 1. एतास्ता इति 2, कतरा पुनरियमित्येवं शङ्कां करोति 3, अमुका वा इयमिति निःशवितं जानाति 4, संयतीभिः सममिभिलापं करोति 5, कक्षान्तरादीनि विलोकयति 6, स्मृतिकरणमीदृशीमम स्यादिति लक्षणं करोति७, तामवभाषते, अथ भाषिता सतीसा प्रतिशृणोतिह,संपत्तिं तया सह करोति १०,एतेषु दशसुस्थानेष्वारोपणा वक्ष्यमाणा भणिता। अथात्र स्मृतिकरणपदंव्याचष्टेभावम्मि उ संबन्धो, सतिकरणं एरिसाव सा आसी। अहवाणं इणमटुं, पणएमि सती भवइ एसा।।७।। भावे-भावतःप्रतिसेवनाभिप्रायेण तया सह यः संबन्धःक्रियते यादृशी त्वम्-ईदृशी सा मद्भार्या आसीत्, एतत् स्मृतिकरणमुच्यते ! अथवैता संयतीमहममुमर्थ-प्रतिसेवनालक्षणं प्रणयामि-प्रार्थयामीत्येषा स्मृतिरुच्यते। अथवा अनन्तरोक्तेषु दशसु स्थानेषु प्रायश्चित्तमाह-- चउरो य अणुग्घाया, लहुगो लहुगा य हॉति गुरुगा य। छम्मासा लहु गुरुगा, छेदो मूलं तह दुगं च // 8 // संयतीप्रतिश्रयगमने चत्वारो अनुद्धाता मासाः, दूरदर्शन मासलघु, शङ्कायां चतुर्लधवः, निःशङ्कितेचतुर्गुरवः, आलापेषण्मासा गुरवः, स्मृतिकरणे छेदः, अवभाषणे मूलम्, प्रतिश्रवणे अनवस्थाप्यम्, संपत्त्यां पाराश्चिकम्। एवं तावदोघतः अनवस्थाप्यम्, संपत्त्यां पाराञ्चिकम्। एवं तावदोघतः प्रायश्चित्तमुक्तम्। अथ विभागतस्तदेव दर्शयितुमाहणिकारणगमणम्मि, बहवे दोसा य पचवाया य। जिणथेरपडिकुट्ठा, तेसिंचाऽऽरोवणा इणमो || निष्कारणगमने बहवो दोषाश्च प्रत्यपायाश्च भवन्ति। तत्र दोषा आत्मपरोभयसमुत्थाः, पारलौकिकाः प्रत्यपायाश्च / भोगिनी घाटितया इह लौकिकाः, तत्रोभयेऽपि जिनैस्तीर्थकृद्भिः स्थविरैश्च गणधरादिभिः प्रतिकुष्टाः, यथाऽमी भवन्ति तथा न विधेयमित्युपदिष्टमिति भावः / तेषां च दोषाणामियं वक्ष्यमाणा आरोपणा-प्रायश्चित्तम्। तचैतेषु सूत्रोक्तपदेषु भवति। चिट्ठित्तु णिसीइत्ता, तुयट्टणिहाय पयलसज्झाए। झाणाऽऽहारविहारे, पच्छित्ते मग्गणा होइ॥१०॥ स्थातुं निषत्तुं च त्वग्वर्तनं निद्रां-प्रचलां स्वाध्यायं ध्यानम् आहारं वा कर्तुं विहारं चंक्रमणमुपलक्षणत्वादुच्चारप्रश्रवणे कायोत्सर्ग वा कर्तुन कल्पते। अथ करोति ततः प्रायश्चित्तस्य मार्गणा भवति। इदमेव प्रकटयतिएतेसिं तु पयाणं, पत्तेयपरूवणा विभागो य। जो एत्थं आवण्णो-ऽणावण्णो वाऽवि जो एत्थं // 11 // एतेषां स्थापनादीनां प्रत्येकं प्ररूपणा विभागश्च दोषाणां विभाषालक्षणः कर्तव्यः। कथमित्याह-योऽत्र दोषजालेप्रायश्चित्तजाले वा आपन्नो यो वा अनापन्नस्तदेतद्वक्तव्यम्। यथाप्रतिज्ञातमेव निर्वाहयतिनिक्कारणमविहीए, णिकारणओ तहेव य विहीए। कारणओ अविहीए, कारणतो चेव य विहीए॥१२॥ आदिभयणाण तिण्हं, अण्णतरीए उसंजतीसेज्जं / जे भिक्खू पविसेजा, सो पावति आणमादीणि||१३|| साध्वीप्रतिश्रये प्रविशतां चत्वारोभङ्गाः। तद्यथा-निष्कारणे अविधिना साध्वीप्रतिश्रये, निष्कारणं विधिना, कारणतोऽविधिना, कारणतो विधिना प्रविशति। अत्रादिभजनानामाद्यानां त्रयाणां भङ्गानामन्यतरया भजनयाभङ्ग केन संयतीनां शय्यां-वसतिं यो भिक्षुः प्रविशति स आज्ञादीनि दूषणानि प्राप्नोति। तत्र प्रथमभङ्गव्याख्यानार्थमाह-- निकारणम्मि गुरुगा, तीसु वि ठाणेसु मासियं गुरुगं / चउलहुय दार मूले, अतिगयमित्ते गुरू पुच्छा॥१४॥ त्रीणि स्थानानि नाम अग्रद्वारमध्यासन्नलक्षणानि एतेषु नैषेधिकीमकुर्वतस्त्रीणि मासगुरुकानि भवन्ति। यदिद्वारमूले-द्वारसमीपे बहिस्तिष्ठतिततः चतुर्लघवः / अथैकमपि पदमुपाश्रय मध्ये अतिगतं प्रविष्टस्तदा अतिगतमात्रे चतुर्गुरुकः पृच्छति-नोदकः पृच्छां करोति। ता