________________ वसहि 1038 - अभिधानराजेन्द्रः - भाग 6 वसहि प्रार्थयन्नप्या तरुणादिजनः शङ्कते-बिभेतीत्यर्थः, तथा प्रार्थ्यमानोऽपि संयतीजनो बलिनः-समर्थस्य शय्यातरस्य शङ्कते / अपि चयथा सेनाबलिना--सेनानायकेन यथा या बधूर्वलवता श्वशुरपक्षण गुप्तारक्षिता शोभते तथा आर्याऽपि बलवता शय्यातरेण परिगृहीता सती विराजते। अमुमेवार्थं व्यतिरेकभनयाद्रढयतिसुण्णाएँ सुसंघाया, दुब्बलगोवा य कस्सन वितका। इय दुब्बलनिस्सा नि-स्सियाउ अजा वितकाओ॥३०६|| शून्या-रक्षपालविरहिता दुर्बलगोपा वा-असमर्थरक्षपाल-परिगृहीताः पशुसङ्घाता-गवादिपशुवर्गाः कस्यते विता -अभिलषणीयान भवन्ति, इत्यमुना प्रकारेण दुर्बलशय्यातर-निश्रिता सर्वथैव अनिश्रिता वा आर्याः सर्वस्यापि विताः -प्रार्थनीया भवन्ति। अइया कुलपुत्तगभो-इयाउ पक्कन्नमेव सुन्नम्मि। इच्छमणिच्छे तरुणा, तेणा उवहिं व ताओवा॥३०॥ अजिका-छगलिका, कुलपुत्रकाणां च भोजिका महिला पक्वान्नंमोदकशैवादि यथैतानि शून्ये वर्तमानानि सर्वस्यापि स्पृहणीयानि भवन्ति, एवं श्रमण्योऽपि / तथा तरुणान् प्रार्थयमानान् यदि इच्छन्ति ततो ब्रह्मव्रतभङ्गः। अथ नेच्छन्ति ततस्ते बलादपि तासां ग्रहणं कुर्युः। स्तेना उपधिं वा ता वा संयतीरपहरेयुः। उच्छुयघतगुलगोरस-एलालुगमाउलिङ्गफलमादी। पुप्फविही गंधविही, आभरणविही य वत्थविही॥३०८|| इक्षुघृतगोरसाःप्रतीता:एलालुकानि चिटिकानि मातुलिङ्ग-फलानि- | बीजपूराणि आदिशब्दादाम्रादिपरिग्रहः। तथा पुष्पविधिश्चम्पकादिकापुष्पजातिःगन्धाः-कोष्ठपुटपाकादयस्तेषां विधिः-प्रकारो गन्धविधिः, एवमाभरणविधिर्वस्त्रविधिश्च / एते इक्षुप्रभृतयः,शून्या दुर्बलपरिगृहीता वा यथा सर्वस्यापि स्पृहणीयास्तथा संयत्योऽप्यनिश्रिता दुर्बलसागारिकनिश्रिता वा तरुणादीनां स्पृहणीयाः / अतोऽनिश्रया दुर्बलनिश्रया वा न स्थातव्यम्। भवेत्। कारणं येनानिश्रयाऽपि तिष्ठेयुः। कथमिति चेदुच्यते-- अद्धाण निग्गयादी, तिक्खुत्तो मग्गिऊण असईए। संथरणं वसभा वा, ताओ य अपच्छिमा पिंडी॥३०॥ अध्वनो निर्गता आदिशब्दादमूनि वहमानका अध्वशीर्षे प्राप्ता वा त्रिकृत्वः परिगृहीता वसतिर्गियितव्या। यदिन प्राप्यतेततः सागारिकस्याऽनिश्रयाऽपि तिष्ठेयुः / तत्र संस्तरणं-कपाटं तदन्यतो मार्गयित्वा दातव्यम् / अथकपाटन प्राप्तं ततो वृषभा गृही (पिण्डी) भूय यः कश्चित्तरुणादिः संयतीरुपद्रवति तं प्रहरणादिभिर्निवारयन्ति / अथ वृषभा न सन्ति ततस्ता एव संयत्यो दण्डकव्यग्रहस्ताः पिण्डीभूय तिष्ठन्ति / यस्तत्रोपद्रवं चिकीर्षति तं दण्डकमुद्दिश्य निवारयन्ति, बोलं च महता शब्देन कुर्वन्ति। एषा अपश्चिमा यतनेति। अथवाभोइयमहतरगाई, समागयं ता भणंति गामंतु / निवगुत्ताणं वसही, दिजउदोसा उभे उवरिं॥३१॥ तत्र ग्रामादौ यो भोगिको महत्तसेवा, आदिशब्दादन्यो वा प्रमाणभूतस्तम्, अथवा-ग्राममेकत्र सभादौ समागतं मिलितं दृष्ट्वा साधवो भणन्तिनृपो-राजा तेनगुप्तारक्षिताः सन्तो वयं तं-व्रताचारंपरिपालयामः, अतो नृपगुप्तानामस्माकं कथमप्येतद्दीयताम्, अन्यथा ये शून्ये प्रतिश्रये तिष्ठन्तीनां तरुणस्तेनाद्युपद्रवदोषा भवेयुः ते सर्वेऽपि युष्माकमुपरि भविष्यन्ति, एवमुक्ते ते भोगिकादयः संयतीप्रायोग्यां परिगृहीतां वसतिं दापयन्ति स्वयं वा प्रयच्छन्ति। अथ ये वृषभा बहिःप्रहरणादिव्यग्रहस्तास्तिष्ठन्ति ते ईदृशाः कर्त्तव्या इति दर्शयतिकयकरणा थिरसत्ता,गीया संबंधिणो थिरसरीरा। जियनिहिंदियदक्खा, तब्भूमा परिणयवया य॥३११|| कृतकरणा-धनुर्वेदकृताभ्यासाःस्थिरसत्त्वा-निश्चलमान-सावष्टम्भाः गीता:-सूत्रार्थे विहितसंबन्धिनस्तासामेवसंयतीनां नालबद्धाःभ्रात्रादिसंबन्धयुक्ता इत्यर्थः, स्थिरशरीराः-शारीर-बलोपेता जितावशीकृता निद्रा इन्द्रियाणि यैस्ते जितनिद्रेन्द्रियाः दक्षाः-कुशलाःतद्भौमाः तस्यामेव भूमौ भवास्तद्भूमिवास्तव्यलोकपरिचिता इत्यर्थः, परिणतवयसश्च-अतिक्रान्तयौवना मध्य-मवयःप्राप्ताः एवंविधा वृषभास्तत्र स्थापयितव्या इति। बृ०१ उ०३ प्रक०। कारणे अकारणे वा निन्थैनिन्थीनां वसतौन वस्तव्यम्नो कप्पइ निग्गन्थाणं, निग्गन्थीणं उवस्सए आसइत्तए वा चिट्ठित्तए वा निसीइत्तए वा तुअट्टित्तए वा पयलाइत्तए वा निहाइत्तए वा असणं वा पाणं वा खाइमं वा साइमं वा आहारं आहारित्तए उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा परिववित्तए सज्झायं वा करित्तए झाणं वा झाइत्तए काउस्सगं वा ठाणं वा ठाइत्तए॥१॥ अथास्य सूत्रद्वयोक्तानि निर्ग्रन्थीप्रायोग्याणि वस्त्राणि गृहीत्वा गणधरो निर्ग्रन्थीवर्तापकः प्रवर्त्तिन्यास्तानि वस्त्राणि स्वयमेव 'पणामेउ' ति अर्पयितुं व्रतिनीनां वसतिंव्रजति।अतस्तद्विषयो विधिरनेन सूत्रेण प्रतिपाद्यते। प्रकारान्तरेण संबन्धमाहवत्थाणि एवमादी-णि गणधरो गिण्हितुं सयं चेव। वबतिवतिणीवसहि,पवत्तिणीए पणावेतुं|१|| बीएहिं संसत्तो वितियस्सादिम्मि इह तु इत्थीहिं। बितिए उवस्सगावा, पगता इह इंपि सो चेव // 2 // द्वितीयोद्देशकस्यादिसूत्रे बीजैः संसक्त उपाश्रयो भणितः। इह तु तृतीयोद्देशकस्यादिसूत्रे स्त्रीभिः संसक्त उच्यते। यथा द्वितीये उद्देशके बहुषु सूत्रेषूपाश्रया प्रकृताः येषु साधूनां वस्तुंन कल्पते अत इहाप्यादिसूत्रे स एवोपाश्रयः। अत्रोच्यतेतत्थ अकारणगमणं,पडुच्च सुत्तं इमं समुदियं तु / कज्जेण वा गते तु-उवट्टणादीणि वारेति // 3 //