________________ वसहि 1054 - अभिधानराजेन्द्रः - भाग 6 वसहि मयितुं तत्रैव-संयतीवसतौ गणधरस्यान्यस्य वा तथाविधोपशमनलब्धिसम्पन्नस्य गमनं प्रशस्तं भवति। गणद्वारमाहजइ कालगया गणिनी, नऽत्थि उ अन्नाउ गणहरसमत्था। एतेण कारणेणं, गणचिंताए वि गच्छेज्जा॥५३| यदि गणिनी कालगता, नास्ति चाऽन्या संयती गणधरोद्वहनसमर्था / अत-एतेन कारणेन गणचिन्ताकरणार्थमपि गच्छेत्। अथानात्मवशाद्वारमाहअज्जं जक्खाइटुं, खित्तचित्तं च दित्तचित्तं वा। उम्मातप्पत्तं वा, काउंगच्छेज्ज अप्पज्झं // 5 // यक्षेणाविष्टा-गृहीता यक्षाविष्टा अपमानतया क्षिप्तं नष्टं चित्तं यस्याः सा क्षिप्तचित्ता, या तु हर्षातिरेकेणापहृतचित्ता सा दीप्तचित्ता भण्यते, या तु मोहनीयकम्र्मोदयेन चित्तस्तब्धतामुपगता सा उन्मादप्राप्ता, ईदृशीमायाँ विज्ञायाचार्या मन्त्रेण वा 'अप्पज्झं' ति आत्मवशांस्वचित्तां कर्तुं संयतीवसतियायात्-गच्छेत्। __ अनिद्वारमाहजह अगणिना उ वसही, दड्डा डज्झई डज्झिहिति व त्ति। नाऊण व सोऊण व, उवघेत्तुं जे व जाएज्जा / / 5 / / यद्यग्निना संयतीवसतिर्दग्धा, दह्यते वा संप्रति काले, अथवा--प्रत्यासन्नाग्निप्रदीपनदर्शनेन धक्ष्यते इति ज्ञात्वा वा स्वयम्, श्रुत्वा वापरमुखेनाकर्ण्य तां वसतिमुपग्रहीतुं-संस्थापयितुं निर्वापयितुं वा 'जे' इति पादपूरणे, संयतीवसतिं यायात्-गच्छेत्। __ अथाप्कायद्वारमाहनइपूरेण व वसही, वुज्झइ बूढावं वुज्झिहिति व ति। उदगभरियं व सोचा, उवधेत्तुं तं तु वचेजा / / 56|| नदीपूरेण प्रसरता वसतिः साम्प्रतमुह्यते-नीयते, व्यूढा वानीता, वक्ष्यते वा--नेष्यते उदकेन वा वसतिर्वृता / एवं श्रुत्वा तां वसतिमुप-ग्रहीतुमुल्लोचनादिकं कर्तुं व्रजेत्। विचारद्वारमाहघोडेहि व धुत्तेहि व,अहवा वि जती वियारभूमीए। जयणाए व करेउं, संठवणाए व वञ्चिज्जा / / 57|| घोटैश्वाश्वधूतैर्वा वसत्याः पुरोवगडेगच्छन्त्यस्ता उपसर्ग्यन्ते ततस्तेषां सानुनयनिवारणार्थं गच्छेत् / अथ संयतीनां विचारभूमौ ते समागच्छन्ति तन्निवारणार्थ गच्छेत्। अथवा-यतनया तासां कायिकीभूमिविचारभूमि वा कर्तु पूर्वकृता या वा संस्थापनानिमित्तं व्रजेत्। पुत्रद्वारमाहपुत्तो वा भाया वा, भगिणी वा होज ताण कालगया। अजाए दुखियाए, अणुसट्ठीए विगच्छेज्जा / / 58|| पुत्रो वा भ्राता वा भगिनी वा तासां कालगता, भवेत्, ततो या तत्रार्यिका दुःखिताशोकसागरावगाढा भवति तस्याअनुशिष्ट्यर्थमपि सूरिः स्वयमेव गच्छेत्। तस्याश्चेयमनुशिष्टिातव्यातेलोक्कदेवमहिया, तित्थयरा नीरया गया सिद्धि। थेरा वि गया केई, चरणगुणपभावया धीरा ||59l येऽपि तावत्प्रैलोक्यदेवमहिता-भुवनत्रयवासिभिः सुरासुरैरभ्य-- र्चितास्तीर्थकरास्तेऽपि भगवन्तो नीरजस्सकलकर्मनिर्मुक्ता गताः-- प्राप्ताःसिद्धिम्, तथा स्थविरा अपि ऋषभसेनगौतमादयः केचिच्चरमदेहधारिणो गताः सिद्धिम्, कथंभूताः? चरणगुणानां मूलोत्तरगुणरूपाणां स्वगमेनैव चराणां नान्येषांवोपदेशद्वारेण प्रभावकाः-प्रकर्षण स्फातितार-- श्वरणगुणप्रभावकाः धीराः-परीषहोपसर्गरक्षोभ्याः, यद्येवंविधा अपि महापुरुषाः कालगतास्ततश्शेषजनस्य मरणे किमाश्चर्यमिति भावः। तथाबंभीय सुंदरी या, अन्ना वि य जाउलोगजेट्ठाओ। ताओ विय कालगया, किं पुण सेसाउ अजाओ॥६०|| ब्राह्मी सुन्दरी च अन्या अपि च या लोकज्येष्ठा आर्यचन्दनामृगावतीप्रभृतय आर्यिकास्ता अपि कालगताः, किं पुनः शेषा आर्यिकाः। ततःनहु होइ सोइयव्वो, जो कालगओ दढो चरित्तम्मि। सो होइ सोतियव्वो, जो संजमदुबलो विहरे // 61|| (नहु) नैवाऽसौ साधुसाध्वीजनः शोचितव्यो भवति। यश्चारित्रे दृढोनिष्प्रकम्पः सन् भक्तप्रत्याख्यानादिविधिना कालगतः,किं तु–श्रावकः शोचनीयो भवति यः पृथिव्याधुपमईनानेषणीयं पिण्डादिग्रहणं वा कुर्वन् संयमेन दुर्बलो विहरति। (बृ०) (आज्ञाया विषयः 'आणा' शब्दे द्वितीयभागे 118 पृष्ठे गतः।) अथ संगमद्वारमाहपुत्तो पिया व भाया, अजाणं आगतो तहिं कोई। घित्तूण गणहरो तं, वचति तो संजतीवसहिं॥६३|| पुत्रः पिता वा भ्राता वा आर्याणां संबग्धी चिरप्रोषितस्तत्र कश्चिदागतो भवेत्, ततस्तं गृहीत्वा गणधरः संयतीवसतिं व्रजति। येन तासांतस्मिन् संज्ञातकसाधौ दृष्टे समाधिरुपजायते। अथसंलेखनव्युत्सृष्टद्वाराणि युगपदाहसंलिहियं पि य तिविहं, वोसिरियव्वं च तिविह वोसह। कालगये त्तिय सोचा, सरीरमहिमाइ गच्छेज्जा / / 6 / / इह संलेखितम् अपिशब्दात्-संलेख्यमानं वस्तु त्रिधाआहारः शरीरमुपकरणं वा / यद्वा-उपधिः शरीरं कषायाश्चेति / व्युत्सृष्टव्यमप्येवमेव त्रिविधम्, अनशनप्रतिपत्तिकाले एतदेव त्रयं व्युत्सर्जनीयमिति भावः / एवं निसृष्टमपि त्रिविधमेषु त्रिष्वपि तस्याः स्थिरीकरणार्थं सूरिणा गन्तव्यम्। यावत् कालगता सा संयतीति वार्ता श्रुता तां च श्रुत्वा तस्याः शरीरमहिमार्थं गणधरः स्वयमेव गतः। जाहे विय कालगया, ताहे वि य दुन्नि तिनि वा दिवसे। गच्छेज्ज संजईणं, णणुसहि गणहरो दाउं॥६॥ यदाऽपि च प्रवर्तिनीप्रभृतिका महानिनादसंयती कालगता भवति तदा द्वौ त्रीन् वा दिवसान् संयतीनामनुशिष्टिं प्रदातुं गणधरो गच्छेत् / गतं गम्यते कारणजाते इति मूलद्वारम्। अथ प्राघूर्णकद्वारमाहअप्पबितिऽप्पततिया, पाहुणया आगया सउवचारा। सिज्जायरमामाए, पडिकुठुद्देसिए पुच्छा॥६६॥ ताउनयनिवारणा वसत्याः पुनाव चिया