________________ वसहि 1036 - अभिधानराजेन्द्रः - भाग 6 वसहि अस्य सूत्रस्य संबन्धमाहपढमचउत्थवयाणं, अतिचारो होज दगसमीवम्मि। इह विय हुन्ज चउत्थे, सचित्तकम्मे स संबंधो // 26 // प्रथमचतुर्थव्रतयोरप्कायपानस्त्रीपशुसंसर्गादिभिरतिचारो दकसमीपे तिष्ठतां भवेदिति कृत्वा तत्र न तिष्ठतीत्युक्तम् / इहापि च सचित्रकर्मणि प्रतिश्रये तिष्ठतां चतुर्थव्रतस्यातिचारो भवेदिति कृत्वा तत्र न तिष्ठतीत्यनेने प्रतिपाद्यते एष संबन्धः। प्रकारान्तरेण तमेवाहनो कप्पइ जागरिया, चिट्ठणमाईपया य दगतीरे। चित्तगयमाणसाणं,जागरिकाया कुतो अहवा / / 29|| नो कल्पते जागरिका-धर्मध्यानं स्थानं-स्थाननिषीदनादीनि दकतीरे कर्तुमित्युक्तम्, इह तु चित्रगतमानसानां कुतो जागरिका-स्वाध्यायौ संभवत इत्ययम्, अथवा-द्वितीयसंबन्धः। अनेन संबन्धद्वयेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा सचित्रकर्मणिचित्रकर्मणा संयुक्ते उपाश्रये वस्तुम्, कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अचित्रकर्मणि उपाश्रये वस्तुमिति सूत्रार्थः।।२०-२१॥ अथ भाष्यविस्तरमाहनिद्दोससदोसे वा, सचित्तकम्मे उदोस आणादी। सइकरणं विकहा वा, बिइयं असतीऍ वसहीए।।२६४|| निर्दोषे वा सदोषे वा सचित्रकर्मणि प्रतिश्रये तिष्ठतामाज्ञादयो दोषाः, यत्र तादृशे वा चित्रकर्मखचिते वेश्मनि पूर्वभोगान् बुभुजिरे, तेषां स्मृतिकरणमुपलक्षणत्वादितरेषां कौतुकमुपजायते / विकथा वा तत्र वक्ष्यमाणलक्षणाभवेत्। द्वितीयपदं चान्यवसतावसत्यां तत्रापि वसेत्। अथैनामेव नियुक्तिगाथां व्याख्याति-- तरुगिरिनदीसमुद्दो, भवणा वल्ली लया विताणाय। निघोसचित्तकम्म, पुण्णकलससोत्थियादीय॥२६|| तरवः--सहकारादयो गिरयो-हिमवदादयो नद्यो-गङ्गासिन्धु-प्रभृतयः समुद्रो-लवणोदादिकः भवनानि-गृहाणि वल्लयो नाग-वल्ल्यादयः लता-माधवीचम्पकलतादयः तासां वितान-निकुरम्बं तथा पूर्णकलशस्वस्तिकादयश्च ये माङ्गलिकाः पदार्थाः, एतेषां रूपाणि यत्रालिखितानि तचित्रकर्म निर्दोषं ज्ञातव्यम्। अथसदोषमाहतिरियमणुयदेवीणं, जत्थ य देहा भवंति भित्तिकया। सविकार निव्विकारा, सदोसचित्तं हवइ एयं // 266|| तिर्यगमनुजदेवीनामिति तिरश्चीनां मानुषीणां देवीनां चेत्यर्थः, एतासां देहाः सविकारा वा यत्र भित्तौ कृता-आलिखिता भवन्ति एतचित्रकर्म सदोष भवति। अथात्रैव तिष्ठतां प्रायश्चित्तमाहलहुगुरु चउण्ह मासो, विसेसितो गुरुगों आदि छलहुगो। चउलहुगादी छम्गुरु, उभयस्स वि दुविहचित्तम्मि॥२७॥ निर्दोषे चित्रकर्मणि तिष्ठतां चतुर्णामपि तपःकालविशेषितोलघुमासः। तद्यथा-आचार्यस्य द्वाभ्यामपि तपः कालाभ्यां गुरुकः। उपाध्यायस्य तपोगुरुकः काललघुकः, वृषभस्य कालगुरुकः तपोलघुकः, क्षिभोर्दाभ्यामपिलधुकः। निर्ग्रन्थीनामपि निर्दोषे चित्रकर्मणि तिष्ठन्तीनां प्रवर्तिनीगणावच्छेदिन्यभिषेकाभिक्षुणीनामेवं तपःकालविशेषितो गुरुको मासः। निग्रन्थाःसदोषे चित्रकर्मणि यदि तिष्ठन्ति तदा गुरुको मासः आदौ क्रियते, षड् लघुकश्च पर्यन्ते। तद्यथा-भिक्षोसिगुरुकम्, वृषभस्य चतुर्लघुकम्, उपाध्यायस्य चतुर्गुरुकम्, आचार्यस्य षड्लघुकम्। निर्ग्रन्थीनां तु सदोषे चित्रकर्मणि तिष्ठन्तीनां चतुर्लघुकमादौ कृत्वा षड्गुरुकान्तं प्रायश्चित्तम्। तद्यथा-भिक्षुण्याश्चतुर्लघुकम्, अभिषेकायाश्चतुर्गुरुकम्, गणा वच्छेदिन्याः षड्लघुकम्, प्रवर्तिन्याः षड्गुरुकम् / एवमुभयस्यापिनिर्ग्रन्थनिर्ग्रन्थीवर्गस्य द्विविधे चित्रकर्मणि प्रायश्चित्तं ज्ञातव्यम्। अथ विकथापदं व्याख्यानयतिदिटुं अन्नत्थ मए, चित्तं तं सोभणं न एयं ति। इति विकहापलिमंथो, सज्झायादीण कलहोय // 298|| तत्र चित्रकर्म दृष्ट्वा कश्चित्साधुइँयात्-मया पूर्वमन्यत्र चित्रकं दृष्टं तच शोभनं वर्णकरेखादिशुद्ध्या रमणीयम्, न पुनरेतत् प्रत्यक्षोपलभ्यमानम्। तदाकर्ण्यद्वितीयस्साधु—यात्-मुग्धबुद्धे ! किं जानीते इत्थम्इदमेव रमणीयम् इत्येवम् विकथा संजायत / ततश्च स्वाध्यायादीनां परिमन्थः कलहश्चोभयोरप्युत्तरप्रत्युत्तरिकां कुर्वतोरुत्पद्यते / यत एते दोषास्तस्मान्न स्थातव्यम्। द्वितीयपदं वसतावसत्यामिति द्वारं भावयतिअद्धाण निग्गयाई, तिपरिरया असइ अन्नवसहीए। तरुणे करिति दूरे, निच्चावरिए य ते रूवे // 299l अध्वनिर्गतादयस्त्रीन् परिरयान्परिभ्रमणेन कृत्वा यदियुक्तानिरुपहता वसतिर्न प्राप्यते ततः सचित्रकर्मक उपाश्रये तिष्ठन्ति। तत्र च प्रथमं निर्दोष पश्चात् सदोषेऽपि ये च तरुणास्तान् चित्रकर्मणो दूरतः कुर्वन्ति, तानि च रूपाणि नित्याश्रितानि सदैव चिलिमिलिकया प्रच्छादितानि कुर्वन्ति। नापावृतानि तानि स्थापयतीत्यर्थः / बृ० 1 उ०३प्रक०। (25) यत्र राजा तिष्ठति तत्रोपाश्रये न वसेत्जे भिक्खू अहपुण एवं जाणेजा-इह जक्खतिए परिवुसिएजे भिक्खू ताए गिहाएताए विहाराएताए पएसाएताओ वासंतराय विहारं वा करेइ, सज्झायं वा करेइ, असणं वा पाणं वा खाइम वा साइमं वा आहारेइ, उच्चारं वा पासवणं वा परिद्ववेइ अण्णयरं वाअणायरियं असमणपउग्गकहं कहेइ कहतं वा साइजइ॥१२॥ अथेत्ययं निपात उक्तः / पिण्डः वसहिविसेसिणो पुणसद्दो यथा वक्ष्यमाण एवं जाणेजा 'ज्ञा' अवबोधने, इहभूप्रदेशे अधेति वर्तमानदिने 'परितुसे' पर्युसिते वसेदित्यर्थः / जे भिक्खू तस्मिन् गृहे निकृष्टतरो अपवरकादिप्रदेशः तस्मिन्नपि निकृष्टतरः खद्धा स्थानं अवकाशःविहारादिपकरेज्ज तस्स-ह। गाहाराया उज्जहि उसिते, तेसु पएसेसु बितियदिवसादी। जे भिक्खू-विहरेज्जा, अहवा वि करेन्ज सज्झायं // 61 / /