________________ मण 52 - अभिधानराजेन्द्रः - भाग 6 मण स्वविषयभूतानां न प्रथमसमयादारभ्य मन्वानमेव मनो भवति, अन्यथाऽवध्यादिवत् तस्य प्रवृत्तिरेव न स्यात् / तस्मात् तस्याऽनुपलब्धिकालो नास्ति, तथा च न व्यञ्जनावग्रह इति-स्थितम्। न चैतत् सवमनीषिकया युक्तिमात्रमुच्यते, आगमेऽपि व्यञ्जनावग्रहेऽतीत एवेन्द्रियोपयोग मनसो व्यापाराभिधानात्। तथा चोक्तं कल्पभाष्ये-'अत्थाणतरचारी, चितं निययं तिकालविसयं ति। अत्थे उ पडुप्पण्णे, विणिओग इंदिय लहइ॥१॥' अत्र व्याख्या-अर्थ-शब्दाऽऽदी श्रोत्राऽऽदीन्द्रियव्य जनावग्रहेण गृहीतेऽनन्तरमर्थावग्रहादारभ्य चरति प्रवर्तते, इत्यर्थानन्तरचारि मनः, न तु व्यञ्जनावग्रहकाले तस्य प्रवृत्तिरिति भावः, त्रिकालविषयं चित्त, साप्रतकालविषयं त्विन्द्रियम्। इत्यलं विस्तरेण / / इति गाथाऽर्थः / / 242243 / / अमुमेव मनसोऽनुपलब्धिकालासंभवं सयुक्तिकं भावयन्नाहनेयाउ चिय जं सो, लहइ सरूवं पईव सद्द व्व। तेणाजुत्तं तस्माऽ-संकप्पियवंजणग्गहणं // 244|| प्रतिसमयं मनोद्रव्योपादानं ज्ञेयार्थावगमश्च मनसो भवत्येव, न पुनस्तस्यानुपलब्धिकालः संभवति / कुतः ? इत्याह -यद यस्मात् कारणात 'सो' इतिप्राकृतशैल्या नपुंसकमपि मनः सम्बध्यते, ज्ञायते इति ज्ञेयम, चिन्तनीयम, वस्तु तस्मादेव स्वरूपमात्मसत्तास्वभावं लभते, नाऽन्यतः / ततो यदि तदेव ज्ञेय नावगच्छेत्, तर्हि तस्मादुत्पत्तिरप्यस्य कथं स्यात् ? इदमुक्त भवति-सान्वर्थक्रियावाचकशब्दाभिधेया हि मनः प्रभृतयः, तद्यथामनुते मन्यते वा मनः प्रदीपयतीति प्रदीपः, शब्दयति भाषत इति शब्दः, दहतीति दहनः, तपतीति तपनः / एतानि च विशिष्टक्रियाकर्तृत्वप्रधानानि मनः प्रभृतिवस्तूनि यदि तामेवाऽर्थमननप्रदीपनभाषणाऽऽदिकामर्थक्रिया न कुर्युः तदा तेषां स्वरूपहानिरेव स्यात् / तस्माद् यथा प्रदीपनीयशब्दनीयवस्त्वपेक्षया प्रदीपशब्दाभिधानप्रवृत्तेः प्रदीप-शब्दयोरर्थयोरप्रदीपनमशब्दनं चायुक्तम्, तथा मनसोऽपि मननीयवस्तुमननादेव मनोऽभिधानप्रवृत्तेस्तदमननं न युक्तम्, ततः किम् ? इत्याहयेनैवम्, तेनाऽसंकल्पितान्यनालोचितानि, अनवगतानी ति यावत्, असंकल्पितानि च तानि शब्दाऽऽदिविषयभावेन परिणतद्रव्यरूपाणि व्यञ्जनानि च तेषां ग्रहणमसंकल्पितव्यञ्जनग्रहण तस्य मनसोऽयुक्तम्, किन्तु- संकल्पितानामेवाऽर्थावग्रहद्वारेणाऽवगतानामेव तेषां शब्दाऽऽदिद्रव्याणां ग्रहणं युक्तम्। तस्माद् न मनसोऽनुपलब्धिकालोऽस्ति, तथा च न व्यञ्जनावग्रहसंभव इति स्थितम / इति गाथार्थः // 244 // विशे०। उत्त०। ('इंदिय' शब्दे द्वितीयभागे 557 पृष्ठे नघनमनसोरप्यप्राप्यकारितोक्ता) (युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति 'दोकिरिय' शब्दे चतुर्थभागे२६३६ पृष्ठे व्याख्यातम्) अथ "युगपत् ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" इति वचनादात्मेन्द्रियविषयसन्निधा नेऽपि यतो युगपत् ज्ञानानि नोपजायन्ते ततोऽवसीयते अस्ति तत्कारणं, यतस्तथा तदनुपत्तिरिति तत्कारणं मनः सिद्धम् / ननु तदनुत्पत्तिर्मनः प्रतिबद्धा कुतः सिद्धा, यतस्तस्यास्तदनुमीयेत / अथाऽऽत्मनः सर्वगतस्य सर्वार्थः संबन्धात् पञ्चभिश्चेन्द्रियैरात्मसंबद्धः स्वविषयसंबन्धे एकदा किमिति युगपत् ज्ञानानिनोत्पद्यन्ते। यद्यणु मनो नेन्द्रियैः संबन्धमनुभवेत् तत्सद्भावे तुयदैकेनेन्द्रियेणैकदा तत्संबध्यते न तदाऽपरेण, तस्य सूक्ष्मत्वादिति सिद्धा युगपत् ज्ञानानुत्पत्तिर्मनोनिमित्तेति: नन्वेव तस्याऽऽत्मसंयोगसमये श्रोत्रसंज्ञकन नभसाऽपि संयोगात संयुक्तसमवायाविशेषात्सुखाऽऽदिवशब्दोपलब्धिरपि तदैव स्यात्, निमित्तस्य समानत्वेऽपि युगपत् ज्ञानानुत्पत्तावपरं निमित्तान्तरमभ्युपगन्तव्यमिति नातो मनः सिद्धिः / न च कर्णशष्कुल्यवच्छिन्नाऽऽकाशदेशस्य श्रोत्रत्वात्तेन च तदैव मनसः संबन्धाभावान्नायं दोषो, निरंशस्य नभसः प्रदेशाभावात्। न च संयोगस्याव्याप्यवृत्तित्वं, तस्य प्रदेशव्यपदेशनिमित्तमुपचरितस्य व्यपदशेमात्रनिबन्धनस्यार्थक्रियायामुपयोगाभावात् / न युपचरिताग्नित्वो माणवक : पाकनिर्वर्तनसमर्थो दृष्टो, नच कर्णशष्कुल्यवच्छिन्ननभोभागस्य तथाविधस्यापि शब्दोपलब्धिहेतुत्वमुपलभ्यत एवेतिवाच्यं तदुपलब्धेरन्यनिमित्तत्वात, किं चचक्षुराद्यन्यतमेन्द्रियसंबन्धात् रूपाऽऽदिज्ञानोत्पत्तिकाले मनसः सम्बद्धसंबन्धात् मानसज्ञानं किं न भवेत् ? नच तथाविधादृष्टाभावादित्युत्तरम् अदृष्टनिमित्तयुगपज्ज्ञानानुत्पत्तिसक्तितो मनसोऽनिमित्तताभावात्। अश्वविकल्पसमये गोदर्शनानुभवात् युगपज्ज्ञानानुत्पत्तिश्चासिद्धा कथं मनोऽनुमापिका? न चाश्वविकल्पगोदर्शनयोर्युगपदनुभवेऽपि क्रमोत्पत्तिकल्पना, अध्यक्षविरोधात: न चोत्पलपत्रशतव्यतिभेदयदाशुवृत्तेः क्रमेऽपि यौगपद्यानुभवाभिमानः। अध्यक्षसिद्धस्य दृष्टान्तमात्रेणान्यथा कर्तुमशक्तेः, अन्यथा शुक्लशङ्खाऽऽदौ पीतविभ्रमदर्शनात् स्वर्णेऽपि तदभ्रान्तिर्भवेत्। मूर्तस्य शूच्यग्रस्यौत्तराधर्यव्यवस्थितमुत्पलपत्रशतं युगपद् व्याप्तुमशक्तेः क्रमभेदेऽप्याशुवृत्तेस्तत्र यौगपद्याभिमान इति युक्तम्। आत्मनस्तुक्षयोपशमसव्यपेक्षस्य युगपत् स्वपरप्रकाशनस्वभावस्य स्वयममूर्तस्याप्राप्तार्थग्राहिणो युगपत् स्वविषयग्रहणे न कश्चिद् विरोध इति किन युगपद् ज्ञानोत्पत्तिः। न च मनोऽपि शूच्यग्रवन्मूर्त्तमिन्द्रियाणि तूत्पलपत्रवत् परस्परपरिहारस्थितस्वरूपाणि न युगपद् व्याप्तुं समर्थमिति न युगपज्ज्ञानोत्पत्तिः, तथाभूतस्यैवासिद्धेः। तथाहिसिद्धे तद्विभ्रमे मनःसिद्धिः, तत्सिद्धौ च युगपज्ज्ञानोत्पत्तिविभ्रमसिद्धिरितीतरेतराऽऽश्रयत्वान्न मनः सिद्धिः। सम्म०२ काण्ड / (विशेषस्तु 'णाण' शब्दे चतुर्थभागे 1638 पृष्ठे) सर्वविषयमन्तः करणं युगपज्ज्ञानानुत्पत्तिलिङ्ग मनः, तदपि द्रव्यमनः पौगलिकमजीवग्रहणेन गृहीत, भावमनस्त्वात्मगुणत्वात् जीवग्रहणेनेति। सूत्र०१ श्रु०१२ अ०। ''एगे जीवा णं मणे'' स्था० / मननं मनः औदारिकाऽऽदिशरीरव्यापाराऽऽहतमनो द्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोग इति भावः / मन्यते वा अनेनेति मनो मनोद्रव्यमात्रमेवेति, तच्च सत्याऽऽदिभेदादनेकमपि संज्ञिना वा असंख्यातत्वादसंख्यातभेदमप्येकं मननलक्षणत्वेन सर्वमनसामेकत्वादिति। स्था०१ ठा०।"एगे मणे देवासुरमणुआण तसि तंसि समयंसि।" तत्र मन इति मनोयोगः, तच यस्मिन् यस्मिन् समये विचार्यते तस्मिन् तस्मिन् समये कालविशेष एकमेव, वीप्सानिर्देशेन न वचनापि समयेतत्व्यादिसंख्यसम्भवतीत्याहएकत्वंचतस्यैकोपयोगात्वात् जीवानां स्यादेतत् नैकोपयोगो जीवो युगपच्छीतोष्णस्पर्शविषयसंवेदनद्वयदर्शनात्, तथाविधभिन्नविषयोपयोगपुरुषद्वयवत्। अत्रोच्यते-यदिद