________________ मण 81 - अभिधानराजेन्द्रः - भाग 6 मण स्थितस्यापीत्यर्थः, स्काये, स्वकायस्य, वा हृदयाऽऽदिकमतीदसन्निहतत्वाततिसंबद्ध विचिन्तयतो मनसो योऽसौ ज्ञेयेन स्वकायस्थितहृदयाऽऽदिना संबन्धस्तत्प्राप्तिलक्षणस्तस्मिन्नपि ज्ञेयसंबन्धे, न केवलं "विसयमसंपत्तस्स वि स विजइ' इत्याधनन्तरसमर्थितन्यायेन, इन्ट पिशब्दार्थः / किम् ? इत्याह व्यञ्जनं व्यञ्जनावग्रहः 'से' तस्य मनसो युक्तं घटमनाकम्, एवमप्यनयाऽपि प्राप्यकारित्वभङ्गया / इति गाऽर्थः // 23 // तदेवं प्रकारद्वयेन मनसः परेण व्यञ्जनावग्रहे समर्थिते, आवार्यः प्रथमपक्षेतावत्प्रतिविधानमाहगिज्झस्स वंजणाणं, जंगहणं वंजणोग्गहो स मओ। गहणं मणो न गिज्झं, को भागो वंजणे तस्स? |240 / / इह-'विसयमसंपत्तस्स वि संविज्जइ' इत्यादि यत्परेणोक्तम्, तद् / निजाऽसत्पक्षपरकीयसत्पक्षविषयप्रसर्पन्महारागद्वेषग्रहग्रस्तचेतोविहवलतासूचकमेवावगन्तव्यम्, असंबद्धत्वात्। तपाहि-श्रोत्र-ध्राणरसन-रपर्शनेन्द्रियचतुष्टयग्राह्यस्य शब्दगन्धाऽऽदिविषयस्य संबन्धिनां व्यञ्जनानां तद्रूपपरिणतद्रव्याणा यद्ग्रहणमुपादानं स व्यञ्जनावग्रहोऽस्माकं समत इति परोऽपि जानात्येव, प्रागसकृत्प्रतिपादितत्वादिति। मनांद्रव्याण्यपि तर्हि मनसो ग्राह्याणि भविष्यन्ति, ततस्तस्याऽपि श्रीवाऽऽदेरिव व्य जनावग्रहो भविष्यति; अतः किमसंबद्धम् ? इत्याह'गहण मणो न गिज्झं ति चिन्ताद्रव्यरूपं मनो न ग्राह्यम्, किन्तु ग्रहण गृह्यतेऽवगम्यते शब्दाऽऽदिरर्थोऽनेनेति ग्रहणम्- अर्थपरिच्छेदे करणमित्यर्थः / ग्राह्य तु मेरुशिखराऽऽदिकं मनसः सुप्रतीतमेव / अतः को भागः कोऽवसरस्तस्य करणभूतस्य मनोव्यराशेर्व्यञ्जने व्यञ्जनावग्रहेऽधिकृते? न कोऽपीत्यर्थः / ग्राह्यवस्तुग्रहणं हि व्यञ्जनावग्रहो भवति। न च मनांद्रव्याणि ग्राह्यरूपतया ग्रह्यन्ते, किन्तु करणरूपतया, इत्यसंबद्धमेव परोक्तम्। इति गाथाऽर्थः // 240 / / या च 'देहादणिग्गयस्स वि, सकायहिययाइयं' इत्यादिना मनसः प्राप्यकारिता प्रोका, साऽपिन युक्ता, स्वकायहृदयाऽऽदिको हिमनसः स्वदेश एव, यच यस्मिन् देशेऽवतिष्ठते, तत् तेन संबद्धमेव भवति, कस्तत्र विवादः ? किं हि नाम तद वस्त्वस्ति, यदात्मदेशेनाऽसंबद्धम ? एवं हि प्राप्यकारिताया मेष्यमाणाया सर्वमपि ज्ञानं प्राप्यकार्येवसर्वस्याऽपि तस्य जीवेन संबद्धत्वात्। तस्मात् पारिशेष्या बाह्यार्थापेक्षयैव प्राप्यकारित्वाऽप्राप्यकारित्वचिन्ता युक्ता स च मनसाऽप्राप्ते एव गृह्यते, इति न तत्र व्यभिचारः / भवतुवा मनसः स्वकीयहृदयाऽऽदिचिन्तायां प्राप्यकारिता, तथाऽपि न तस्य व्यञ्जनावग्रहसंभव इति दर्शयन्नाहतद्देसचिंतणे होञ्ज वंजणं जइ तओन समयम्मि। पढमे चेव तमत्थं, गेहेन्ज न वंजणं तम्हा / / 241 / / च चासौ स्वकन्यहृदयाऽऽदिदेशश्च तस्य चिन्तनं तरिमन सति स्याद् / मनसो व्यञ्जन व्यञ्जनावग्रहः / यदि किम् ? इत्याह-'जइ तओ न समयम्मि। पढमे चेवतमत्थं गेण्हेज ति। यदि तद् मनः प्रथम एव समये / तं स्वकीयहृदयाऽऽदिकमर्थे न गृह्णीयाद्-नावगच्छेदिति। एतचा नास्ति, यस्माद मनसः प्रथमसमय एवार्थाऽवग्रहः समुत्पद्यते, न तु श्रोत्राऽऽदीन्द्रियस्येव प्रथम व्यञ्जनावग्रहः तस्य हि क्षयोपशमापाठयेन प्रथम मर्थानुपलब्धिकालसंभवाद्युक्तो व्यञ्जना अग्रहः, मतसस्तुपटुक्षयोपशमत्वाचक्षुरिन्द्रियस्येवाऽर्थानुपलम्भकालस्यासंभवेन प्रथममे - वार्थावग्रह एवोपजायते। अत्र प्रयोगः-इह यस्य शेयसंबन्धे सत्यप्यनुपलब्धिकालो नास्ति न तस्य व्यञ्जनावग्रहो दृष्टः, यथा चक्षुषः नास्ति चार्थसंबन्धेसत्यनुपलब्धिकालो मनसः, तस्माद्नतस्यव्यञ्जनावग्रहः, यत्रत्वमभ्युपगम्यतेनतस्य ज्ञेयसंबन्धे सत्यनुपलब्धिकालासंभवः, तथा श्रोत्रस्येति व्यतिरेकः / तदेवं परोक्तपक्षद्वयेऽपि मनसो व्यञ्जनावग्रह निराकृत्योपसंहरति-'न वंजण तम्ह त्ति तस्मादुक्तप्रकारेण मनसो न व्यञ्जनावग्रहसंभवः / इति गाथाऽर्थः // 241|| करमाद् न मनसो व्यञ्जनावग्रह इत्याशङ्कयाऽत्रार्थे विशेषवतीमुपपत्तिमाहसमए समए गिण्हइ, दव्वाइं जेण मुणइ य तमत्थं / जं चिंदिओपओगे, वि वंजणावग्गहेऽतीते॥२४२।। होइ मणोवावारो, पढमाओ चेव तेण समयाओ। होइ तदत्थग्गहणं, तदण्णहा नप्पवत्तेजा।।२४३।। 'समए समए त्ति' प्रतिसमयमित्यर्थः, इदमुक्तं भवति-मनोद्रव्यग्रहणशक्तिसंपन्ना जीवः कस्यचिदर्थस्व चिन्तावसरे प्रतिसमयं मनोद्रव्याणि गृह्णाति, तं च चिन्तनीयमर्थ प्रतिसमय 'मुणइत्ति' जानाति येन कारणेन, तेन प्रथमसमयादेव भवति तस्य चिन्तनीयार्थस्य ग्रहणमिति द्वितीयगाथायां संबन्धः, प्रथमसमयादेवाऽर्थावबोधः प्रवर्तत इत्यर्थः, अर्थानुपलब्धिकालस्त्वेकोऽपि समया नास्ति, अतोन मनसो व्यञ्जनावग्रहसंभव इति भावः / / आह नन्वपवरकाऽऽदिव्यवस्थितो यदेन्द्रियव्यापाररहितः केवलेन मनसाऽर्थान् पर्यालोचयति तदा मा भूद मनसो व्यञ्जनावग्रहः, यस्तु श्रोत्राऽऽदीन्द्रियव्यापारे मनसोऽपि व्यापारस्तत्र प्रथममनुपलब्धिकालस्य भवद्भिरपीष्यमाणत्वात् किमिति व्यञ्जना मनसो व्यञ्जनावग्रहो नेष्यते? इत्याशड्क्याऽह-'जंचिंदिओवओगे, वि वंजणावग्गहेऽतीते। होइ मणोवावारो त्ति। यच यस्माच कारणादिन्द्रियस्य श्रोत्राऽऽदेरुपयोगेऽपिशब्दाऽऽद्यर्थग्रहणकालेऽऽपीत्यर्थः / किम् ? इत्याहव्यञ्जनावग्रहेऽतीते सति मनसो व्यापारो भवति / इदमुक्तं, भवति-न केवल मनसः केवलावस्थायां प्रथममर्थावग्रह एव व्यापारः, किन्तु श्रोत्राऽऽदीन्द्रियोपयोगकालेऽपि तथैव / तथाहि-श्रोत्राऽदीन्द्रियोपयोगकाले व्याप्रियते मनः केवलमर्थावग्रहादेवाऽऽरभ्य न तु व्यञ्जनावग्रहकाले / अर्थाऽनवबोधस्वरूपो हि व्यञ्जनावग्रहः, तदवबोधकारणमात्रत्वात्तस्य, मनस्त्वर्थावबोधरूपमेव, मनुतेऽर्थान्मन्यन्तेऽर्थाअनेनेति वा मन इति सान्वर्थाभिधानाभिधेयत्वात्। किश-यदिव्यञ्जनावग्रहकाले मनसो व्यापारः स्यात् तदा तस्यापि व्यञ्जनावग्रहसद्भावादष्टाविंशतिभेदभिन्नता मतेर्विशीर्येत। तस्मात्प्रथमसमयादेव तस्याऽर्थग्रहणमेष्टव्यम्। अन्यथा किमत्र बाधकम् ? इत्याह-'तदण्णहा न प्पक्त्तेजत्ति / ' यदि हि प्रथमसमयादेव मनसोऽर्थग्रहणं नेष्यते तदा तस्य मनस्त्वेन प्रवृत्तिरेव न स्यादनुत्पत्तिरेव स्यादित्यर्थः / यथा हि-स्वाभिधेयानर्थान् भाषमाणैव भाषा भवति, नान्यथा यथा च-स्वविषयभूतानानवबुध्यमानानेवाऽवध्यादिज्ञानान्यात्मलाभ लभन्ते, अन्यथा तेषामप्रवृत्तिरेव स्यादिति / एवं