________________ मण 80- अभिधानराजेन्द्रः - भाग 6 মৃণা च गुणातिशायिभिः स्थविरैः कैश्चित् प्रतिबोधितो दीक्षा कक्षीकृतवान्। तेन च ग्रामाऽनुग्राम विहरता कदाचित् क्वचित् प्रदेशे मांसलुब्धः कश्चिद् विकृत्यमानो महिषः समीक्षाशके / तं च संवीक्ष्य तदाभिषभक्षणे तस्याऽप्यभिलाषः समजायत। स चाऽभिलाषोऽस्य भुजानस्य विचारभूमिं गतस्य चरमा सूत्रपौरुषी, प्रतिक्रमणक्रिया प्रादोषिकपौरुषीं च कुर्वती न निवृत्तः, कि बहुना? तदभिलाषवत्यैव प्रसुप्तोऽसौ / ततः स्त्यानर्द्धिनिद्रोदयो जातः। तदुदये चोत्थाय ग्रामा बहिर्महिषमण्डलमध्ये मत्वाऽन्यं महिषमेकं विनिहत्य तदामिषं भक्षितवान् / तदुरितशेषं च समानीयोपाश्रयोपरि क्षिप्त्वा प्रसुप्तः। समुत्थितश्च प्रत्युषसि समयेत्थंभूतः स्वप्नो दृष्ट' इत्येवं गुर्वन्तिक आलोचयामास / साधुभिश्चोपाश्रयोपरि तदामिषदृश्यत। ततः स्त्यानर्द्धिनिद्रोदयोऽस्याऽस्ति इति ज्ञातम्। तथा च सङ्केन लिङ्गमपहृत्य विसर्जितोऽसौ / / इति स्त्यानर्द्धिनिद्रोदये प्रथममुदाहरणमिति॥ 1 / / अथ द्वितीयं मोदकोदाहरणागुच्यते यथा एकः कोऽपि साधुर्भिक्षा पर्यटन क्वचिद् गृहे पटलकाऽऽदिव्यवस्थापितानतिप्रचुरान् सुर भिस्निग्धमधुरमनोज्ञान् मोदकानद्राक्षीत्। तेन चाध्यस्थितेन ते सुचिरमुद्दीक्षिताः। न च किमपि तन्मध्याल्लब्धम्। ततः सोऽप्यविच्छिन्नतदभिलाष एव सुष्वाप / स्त्यानर्द्धिनिद्रोदये च रजन्यां तद्गृह गत्वा, स्फोटयित्वा कपाटानि, मोदकान् स्वेच्छया भक्षयित्वा, उदरितास्तुपतद्ग्रहके क्षिप्त्वोपाश्रयमागत्य पतद्ग्रहकं स्थाने मुक्त्वा प्रसुप्तः / उत्थितेन च लथैवाऽऽलोचितं गुरूणाम्। ततः प्रत्युपेक्षणासमये भाजनाऽऽदिप्रत्युपेक्षमाणेन साधुना पतद्ग्रहके दृष्टास्ते मोदकाः। ततो गुर्वादिभिजातोऽस्य स्त्यानद्धिनिद्रोदयः / तथैव च सद्देन लिङ्गपाराश्चिक दत्त्वाऽयमपि विसर्जितः // 2 // दन्तोदाहरण तृतीयमुच्यते, यथा-एकः साधुर्दिवा द्विरदेन खेदितः कथमपि पलाय्योपाश्रयमागतः। तं च दन्तिनं प्रत्यविच्छिन्नकोप एव निशि प्रसुप्तः स्त्यानर्द्धिनिद्रोदयश्च जातः, तदु दये च वज्रऋषभनाराचसंहननवतः केशवार्धबलसंपन्नता समये निगद्यते। अतो नगरकपाटानि भड्क्त्वा मध्ये गत्वा तहस्तिन व्यापाद्य दन्तद्वयमुत्पाट्य स्वोपाश्रयद्वारे क्षिप्त्वा सुप्तः। प्रबुद्धेन च स्वप्नोऽयम्' इत्यालोचितम्। दन्तदर्शने च ज्ञातः स्त्यानर्द्धिनिद्रोदयः। तथैव च लिङ्गं गृहीत्या संघेन विसर्जितः।।३।। 'फरुसग' शब्देन समयप्रसिद्ध्या कुम्भकारोऽभिधीयते. तदुदाहरणं चतुर्थमुच्यते-एकः कुम्भकारो महति गच्छे प्रव्रजितः। अन्यदाच सुप्तस्याऽस्य स्त्यानद्धिनिद्रोदयो जातः। ततोऽसौ पूर्व यथा मृत्तिकापिण्डानत्रोटयत्, तथा तदभ्यासादेव साधूना शिरांसि बोटयित्वा कबन्धैः सहेवैकान्ते उज्झाञ्चकार / ततः शेषाः केचन साधवोऽपगृताः। प्रभाते च ज्ञातं सम्यगेव सर्व तच्चेष्टितम्। सद्देन तथैव विसर्जितः / / 4 / / अथ वटशालाभजनोदाहरणं पञ्चममुच्यते, यथाकोऽपि साधुमान्तराद् गोचरचर्या विधाय प्रतिनिवृत्तः। स चौधण्याऽभिहतो भृतभाजनस्तृषितो बुभुक्षितश्छायार्थी मार्गस्थो वटवृक्षस्याऽधस्तादागच्छन्नतिनीयैर्वर्तिन्या तच्छाखया मस्तके घट्टितः, गाढ च परितापितः, अव्यवच्छिन्नकोपश्च प्रसुप्तः / स्त्यानर्द्धिनिद्रोदये रात्रौ गत्वा वटशाखां भत्वोपाश्रयद्वारे क्षिप्त्वा पुनः प्रसुप्तः / 'स्वप्नो दृष्टः' / इत्यालोचिते स्त्यानयुदये च ज्ञाते लिङ्गापनयनतः संघेन विसर्जित इति / / 5 / / एतान्युदाहरणानि विशेषतो। निशीथादवसेयानि / इति गाथाऽर्थः / / 235 // तदेवं 'गंतु नेएण मणो, संबज्झइ जग्गओ व सिमिणे वा' इत्यादिपूर्वपक्षगाथायाः प्रथमार्धमपाकृतम्। साप्रत 'सिद्धमियं लोयम्मि वि, अमुगत्थगओ मणो मे त्ति / एतदुत्तरार्द्धमपाकुर्ववाहजह देहत्थं चक्खं, जं पइ चंदं गयं ति न य सचं। रूढं मणसो वितहा, न य रूढी सचिया सव्वा / / 236 / / यथा देहरथं देहादनिर्गतमपि चक्षुः चन्द्रं गतम्' इति जल्पति लोकः, न च तत् सत्यम्, चक्षुषो वयादिदर्शनन तत्कृतदाहाऽऽदिप्रसङ्गात : तथा तेनैव प्रकारेण मनसोऽपि निर्निबन्धनं रूढमिदं यदुत-'अनुत्र गत मे मनः इति / रूढिरपि सत्या भविष्यति, इत्याह न च रूढिः सर्वाऽपि सत्या, "क्टे क्टे वैश्रवणश्चत्वरे चत्वरे शिवः / पर्वते पर्वते रामः, सर्वगो गधुसूदनः / / 1 / / " इत्यादिकाया असत्याया अघि दर्शनात् / इति गाथाऽर्थः / / 236 // तदेवं विषयप्राप्तौ निविद्धायां मनसोऽसद्ग्रहममुञ्चन् परः प्रकारान्तरेणाऽपि तस्य व्यञ्जनावग्रहं प्रतिपादयन्नाहविसयमसंपत्तस्स वि, संविजइ वंजणोग्गहो मणसो। जमसंखेजसमइओ, उवओगो जं च सव्वेसु / / 237|| समएसु मणोदव्वा-इ गिण्हए वंजणं च दव्वाई। भणिथं संबंधो वा, तेण तयं जुज्जए मणसो // 238|| विषय मेरुशिखराऽऽदिक, जलाऽनलाऽऽदिकं वा, असंप्राप्त स्थापि अप्राप्य गृह्णतोऽपीत्यर्थः / किम् ? इत्याह-संविद्यतेयुज्यतेव्यञ्जनावग्रहो मनसः / कुतः ? इत्याह-'जमसंखेजसमइओ उवओगो' यद यस्मात् कारणात् "च्यवमानोनजानाति'' इत्यादिवचनात् सर्वोऽपि छपास्थोपयोगोऽसख्येयः समयनिर्दिष्टः सिद्धान्ते, न त्वेकद्वयादिभिः / 'जं च सोसुसमयेसुमणोदव्वाई गिण्हए त्ति।' यस्माच तेषूपयोगसम्बन्धिष्वसड्वयेयेषु सर्वेष्वपि प्रत्येकमनन्तानि मनोद्रव्याणि मनोवर्गणाभ्यो गृह्णाति जीवः द्रव्याणि च, तत्सम्बन्धो वा प्रागत्रैव भवद्धिः व्यञ्जनमुक्तम्, तेन कारणेन तत् तादृशं द्रव्यं, तत्सम्बन्धो वा व्यञ्जनं व्यञ्जनावग्रह इति हृदयम, युज्यते घटते मनसः। यथा हि श्रोत्राऽऽदीन्द्रियेणाऽसङ्खयेयान् समयान यावद गृह्यमाणानि शब्दाऽऽदिपरिणतद्रव्याणि, तत्सम्बन्धो वा व्यञ्जनावग्रहः, तथाऽत्राऽप्यसङ्ख्येयसमयान् यावद् गृहामाणानां मनोद्रव्याणा, तत्सम्बन्धस्य वा किमिति पक्षपात परित्यज्य मध्यस्थैभूत्वाऽसौनेष्यते ? इति किल परस्याऽभि प्रायः / इति गाथाऽर्थः // 237 // 238 // तदेवं विषयासंप्राप्तावपि भङ्गयन्तरेण मनसो व्यञ्जनावग्रहः किल परेण समर्थितः। साम्प्रतं विषयसम्प्राप्त्याऽपि तस्यतं समर्थयन्नाहदेहादणिग्गयस्स वि, सकायहिययाइयं विचिंतयओ। नेयस्स वि संबंधे, वंजणमेवं पिसे जुत्तं / / 236 / / देहाच्छरीरादनिर्गतस्थाऽपि मेवाद्यर्थमगतस्याऽपि स्वस्थान