________________ मण 76 - अभिधानराजेन्द्रः - भाग 6 मण सुरयपडिवत्तिरइसुह-गब्भाहाणाइ इंहरहा होज्जा। सुमिणसमागमजुवइए, न य जओ ताइँ तो विफला / / 230 / / इतरथा स्वप्ने सुरतक्रियथा योऽसौ व्यञ्जनविर्गः स यदि-योषित्प्राप्त्यव्यभिचारी स्यात्, तदा सुरतोपभुक्तयुवतेरपि 'सुरतक्रियाऽमुकेन सह मयाऽनुभूता' इत्येवंरूपा सुरतप्रतिपत्तिः स्यात्, तथा रतिसुखं गर्भाऽऽधानाऽऽदिकंच भवेत, आदिशब्दादुदरवृद्धि-दोहद-पुत्रजन्माऽऽदिपरिग्रहः / यतश्च नैतानि तस्याः समुपलभ्यन्ते, अतो विफलैव सा स्वप्नसुरतिक्रिया, विशिष्टस्य परिभुक्तकामिनीगर्भाऽऽधानाऽऽदि फलस्याऽभावात् / इदमुक्तं भवति-न स्वप्ने योषित्प्राप्तिपूर्विका विशिष्टा सुरतक्रिया, नापि विशिष्ट गर्भाऽऽधानाऽऽदिकं तत्फलं,या तुतीव्रवेदोदयाऽऽविर्भूताऽध्यवसायमात्रकृता निधुवनक्रिया साव्यञ्जनविसर्गमात्ररूपेणैव फलेन फलवती न विशिष्टन, इति तदपेक्षया सा 'विफला' इत्युच्यते। अतो यथोक्तविशिष्टफलाभावात् फलमात्रायोषित्प्राप्त्यसिद्धेश्च न प्राप्यकारिता मनस इतिभावः / इति गाथाऽर्थः / / 230|| पुनरप्याह परः - नणु सिमिणओ वि कोई, सचफलो फलइ जो जहा दिट्ठो। ननु सिमिणम्मि निसिद्धं, किरिया किरियाफलाइं च / / 231 / / ननु स्वप्नोऽपि कश्चित् सत्यं फलं यस्याऽसौ सत्यफलो दृश्यते। कः ? इत्याह-यो यथा येन प्रकारेण राज्यलाभाऽऽदिना दृष्टस्तेनैव फलतिराज्याऽऽदिफलदायको भवतीत्यर्थः, तत् किमिति स्वप्नोपलब्धं मनसो मेरुगमनाऽऽदिकं सत्यतया नेष्यते ? इति भावः। अत्रोत्तरमाहनन्वित्यादि, 'नन्ययुक्तोपालम्भोऽयम्, सर्वथा स्वप्नसत्यत्वस्याऽस्माभिरनिषिध्यमानत्वात् / तर्हि किं निषिध्यते? इत्याह-स्वप्ने क्रिया मेनामनाऽऽदिका, अध्वश्रमकुसुमपरिमलाऽऽदीनि क्रियाफलानिच, इत्येतद् द्वयमस्माभिः प्रागुक्तयुक्तेः सत्यतया निषिद्धम् / इति गाथाऽर्थः / / 231 // तर्हि किं तत्, यत् स्वप्ने भवद्भिर्न निषिध्यते? इत्याहजं पुण विण्णाणं तप्फलं च सिमिणे विबुद्धमेत्तस्स। . सिमिणयनिमित्तभावं, फलं च तं को निवारेइ ? // 232 / / यत्पुनः स्वप्ने जिनस्नावदर्शनाऽऽदिकं विज्ञानं, यच्च स्वप्ने विबुद्धमात्रस्य चहर्षाऽऽदिक तत्फलं, तदनुभवाऽऽदिसिद्धत्वात्को निवारयति? तथा यो भविष्यत्फलापेक्षया स्वप्नस्य निमित्तभावः स्वप्ननिमित्तभावस्तं च को वा निवारयति ? यच्च तस्मात् स्वप्ननिमित्तादवश्यंभावि भविष्यत्फलं तदपि को निवारयति? येदव हि मेरुगमन क्रियाऽऽदिक युक्त्या नोपपद्यते तदेव निषिद्यते, न त्वेतानि विज्ञानाऽऽदीनि, युक्त्युपपन्नत्वात्। न चैतैरभ्युपगतैरपि मनसः प्राप्यकारिता काचित् सिध्यतीति भावः। इति गाथाऽर्थः / / 232 // किमिति पुनः स्वप्नस्य निमित्तभावो न निवार्यते? इत्याशङ्कयाऽऽहदेहप्फुरणं सहसो-इयं च सिमिणो य काइयाईणि। सगयाइँ निमित्ताइं, सुभाऽसुभफलं निवेएंति // 233|| स्वस्मिन्नात्मनि गतानि स्थितानि स्वगतानि निमित्तानि, एतानि शास्त्रे, लोकेऽपि च प्रसिद्धानि भविष्यच्छुभाशुभफल निवेदयन्ति / कानि पुनस्तानि ? इत्याह-कायिकम्, आदिशब्दाद् वाचिकम्, मानसं च / एतान्येवक्रमेण दर्शयति-कायिकं बाहादौ देहस्फुरण भविष्यच्छुभाऽशुभफलं निवेदयति, वाचिकं तु सहसोदितं साहसाऽकस्मादेवोदितं सहसोदितं सहसैव तत् किमपि वदत आगच्छति यत्, भविष्यच्छुभाऽशुभफलमावेदयति, मानसं तु निमित्त स्वप्ने, इत्येतानि को निवारयति? लोक-शास्त्रप्रसिद्धस्य, युक्त्युपपन्नस्य च निषेद्धुमशक्यत्वात्। इति गाथाऽर्थः // 233 // आह-ननु स्त्यानद्धिनिद्रोदये वर्तमानस्य द्विरददन्तोत्पाटनाऽऽदिप्रवृत्तस्य स्वप्ने मनसः प्राप्यकारिता तत्पूर्वको व्यञ्जनावग्रहश्च सिद्ध्यति / तथाहि-स तस्यामवस्थायां 'द्विरददन्तोत्पाटनाऽऽदिकं सर्वमिदमहं स्वप्ने पश्यामि इति मन्यते, इत्ययं स्वप्न: मनोविकल्पपूर्विकां च दशनाऽऽद्युत्पाटनक्रियामसौ करोति / इति मनसः प्राप्यकारिता, तत्पूर्वकश्च मनसो व्यञ्जनावग्रहो भवत्येव, इत्याशङ्कयाऽऽहसिमिणमिव मन्नमाणस्स थीणगिद्धिस्स वंजणोग्गहया। होज वन उसा मणसो, सा खलु सोइंदियाईणं // 234 // 'होज्ज व' इत्यत्र वाशब्दः पुनरर्थे तस्य च व्यवहितः सम्बन्धः कार्यः। तद्यथा-अनन्तरोक्तयुक्तिभ्यः स्वप्नावस्थायामपि विषयप्राप्त्यभावाद् मनसो व्यञ्जनावग्रहो नास्ति, स्त्यानगृद्धेः पुनः स्त्यानगृद्धिनिद्रोदये पुनर्वर्तमानस्य जन्तोरित्यर्थः, मांसभक्षणदशनोत्पाटनाऽऽदिकुर्वतो गाढनिद्रोदयवशीभूतत्वेन स्वप्नमिव मन्यमानस्य भवेद् व्यञ्जनावग्रहतास्याद् व्यञ्जनावग्रह इत्यर्थः न वयं तत्र निषेद्धारः / सिद्धं तर्हि परस्य समीहितम्। सिध्येत्, यदि साव्यञ्जनावग्रहता मनसो भवेत्न पुनः सा तस्य। कस्य तर्हि सा? इत्याह-सा खलु प्राप्यकारिणां श्रोत्राऽऽदीन्द्रियाणां श्रवण-रसन-ध्राण-स्पर्शनानामित्यर्थः, इदमुक्तं भवतिस्त्यानर्द्धिनिद्रोदये प्रेक्षणकरङ्गभूम्यादौ गीताऽऽदिकं श्रृण्वतः श्रोत्रेन्द्रियस्य व्यञ्जनावग्रहो भवति, कर्पूराऽऽदिकं जिघ्रतो घ्राणेन्द्रियस्य, आमिष-मोदकाऽऽदिकं भक्षयतो रसनेन्द्रियस्य, कामिनीतनुलताऽऽदि स्पृशतः स्पर्शेनेन्द्रियस्य व्यञ्जनावग्रहः संपद्यते। न तु नयन-मनसोः, वह्रिक्षुरिकाऽऽदिविषयकृतदाह-पाटनाऽऽदिप्रसङ्गेन तयोर्विषयप्राप्त्यभावात्, तामन्तरेण च व्यञ्जनावग्रहासम्भवादिति भावः / इति गाथाऽर्थः / / 234 // आह-ननु स्त्यानर्द्धिनिद्रोदये स्वप्नमिव मन्यमानः किं कोऽपि चेष्टा काञ्चित् करोति, येन तत्करणे व्यञ्जनावग्रहः स्यात् ? इत्याशक्य स्त्यानर्द्धिनिद्रोदयोदाहरणान्याहपोग्गलमोयगदन्ते, फरुसगवडसालभंजणे चेव। थीणद्धियस्स एए, आहरणा हों ति नायव्वा / / 235 / / स्त्यानद्धिनिद्रोदयवर्तिन एतानि पौगलाऽऽदीन्युदाहरणानि ज्ञातव्यानि भवन्ति / तद्यथा-'पोग्गलेत्यादि।' तत्र समयपरिभाषया पौद्गलं मांसमुच्यते, तदुदाहरणं यथा-एकस्मिन् ग्रामे कुटुम्बिकः कोऽप्यासीत्, स च मांसगृद्ध आमानि, पछानि, तलितानि, केवलानि, तीमनाऽऽदिमध्यप्रक्षिप्तानि च मांसानि भक्षयति। अन्यदा