________________ वसहि 1034 - अभिधानराजेन्द्रः - भाग 6 वसहि गोसे-प्रातः इदं पृच्छति कीदृशंतेशरीरमिति, तथा त्वया किमावश्यक कृतमकृतं वा / तथा मध्याह्न पृच्छति-भैक्षं त्वया लब्धमलब्धं वा तव दीयतामिति। तथा अपराह्ने पृच्छति-किं तवोपकरणं केनापि त्वया वा प्रेक्षितं किं वा न प्रेक्षितं कीदृशं वा ते शरीरमिति / यदि पुनरेवं सारांन करोति किं त्वेवमेव परित्यजति, तदा गुरोः प्रायश्चित्तं चत्वारो गुरुकाः। अनि!हणेऽपि यद्यविधिना परिवर्तन-परिपालनं कारयति तदाऽपि चतुर्गुरुकं प्रायश्चित्तम्। आणादिणो य दोसा, विराहणा हो इमेहि ठाणेहिं। पासवणफासलाला, सेए मरुएण दिढतो // 341 / / न केवलं प्रायश्चित्तं किं त्वाज्ञादयो दोषाः, तथा एभिर्वक्ष्यमाणैः स्थानैर्विराधना साधूनामात्मविराधना भवति / कैः स्थानैरित्याहप्रश्रवणेन तस्यस्यन्देनलालयास्वेदेन-प्रस्वेदेन, तथाहि-स्यन्दमानत्वग्दोषवतः प्रश्रवणस्पर्शनेनापि व्याधिरन्यत्र संक्रामति। तथा गात्रस्पर्शनेन, यदिवा-तेन व्याधितेन ये परि-भुक्ताः पीठफलकादयस्तान् यद्यव्याधिनःपरिभुञ्जते तदा व्याधिः संक्रामति, तथा लालया सह भोजने व्याधिः संक्रामति तस्य प्रस्वेदेन यदि कोऽपि स्पृश्यते तदा तस्यापिव्याधिः सञ्चरति। अत्र दृष्टान्तोमरुकेण सेडुकब्राह्मणेन तत्कथानकं चावश्यके प्रबन्धतः कथितमिति। ततोऽवधार्यम्। साम्प्रतमेतदेव पश्चार्ट्स व्याचिख्यासुः प्रथमतः प्रश्रवणे यतनामाहपासवणअन्न असती, भूतीए लक्खमा हु दूसियं मोयं / चलणतलेसु कमेजा, एमेव य निक्खमपवेसो // 342 / / तस्य–स्यन्दमानत्वग्दोषवतःपृथक् कायकीभूमिः कर्त्तव्या, अन्यस्या विष्वक् प्रश्रवणभूमेरसति-अभावे एकस्या एव कायिक्या भूमेस्तस्य योग्यं पृथक् अवकाशं भूत्यालक्षयति वृषभः।यथासाधवस्तंपरिहरन्ति। तथा चाह-मा कोऽपि त्वग्दोषव्याधितस्य दूषितं मोकंप्रश्रवणं पादैराक्रमेत् / आक्रमणे को दोष इत्यत आह / आक्रान्ते तस्य प्रश्रवणे चरणतलेषु-पादतलेषु त्वग्दोषव्याधिः संक्रामति, तथा तस्यत्वग्दोषव्याधितस्य येनावकाशेन निष्क्रमणं प्रवेशो वा तमवकाशं भूत्या लक्षयति, येन साधवस्तमपि परिहरन्ति / अपरिहरणे अनन्तरोदित एव दोषः। निती द सो काउ तली कमेसुं, संथारतो दूरे असंदणेऽवी। मा फासदोसेण कमेन तेसिं, तथिकवत्थादिपरीहरंति॥३५३।। स स्यन्दमानत्वग्दोषी क्रमयोः पादयोस्तलिके-उपानही कृत्वा निर्गच्छति प्रविशतिया। योऽप्यस्यन्दमानत्वग्दोषी तस्यापि कायिकीभूमिर्विष्वक् क्रियतेनपुनः पृथग्भूमिर्निर्गमप्रवेशस्थानम्। सम्प्रतिस्यन्दमानस्यास्यन्दमानस्य चस्पर्शविषयां साधारणां यतनामाह-अस्यन्दनेऽपित्वग्दोषे आस्तां स्यन्दमाने इत्यपि शब्दार्थः। संस्तरको दूरे क्रियते, मा स्पर्शदोषेण तेषां शेषसाधूनांच्याधिः संकमेदिति हेतोः, तथा न केवलं दूरे संस्तारकः क्रियत; किंतु-तेन त्वग्दोषवता यत्स्पृष्ट वस्त्रादितत्परि हरन्ति पूर्वोक्तादेव दोषात्। तदेवं प्रश्रवणयतना स्पर्शयतना च सप्रपचोक्ता। सम्प्रति लालास्वेदयतनामाहन य भुंजते गद्धा, लालादोसेण संकमति वाही। सेदो से वञ्जिज्जइ, जल्लपडलंतरप्पो य॥३४॥ नचएकार्थे--एकस्मिन्पात्रे तेन त्वग्दोषवता सह साधयो भुञ्जते, कुत इत्याह-यतो लालादोषेण संक्रामति व्याधिः। तथा 'से' तस्यत्वग्दोषवतः स्वेदः-प्रस्वेदो वय॑ते, तथा जल्लः शरीरमलस्तथा तत्सत्कानि पात्रपटलानि, तथा आन्तरकल्पश्च परि-िहयते व्याधिसंक्रमभयात्। तथा चाहएएहि कमइ वाही, एत्थं खलु सेडुएण दिटुंतो। कुट्ठखयकच्छुयसिवं, नयणामयकामलादीया॥३४॥ एतैर्जल्लादिभिर्व्याधिः-त्वग्दोषव्याधिः संक्रामति। अत्र दृष्टान्तः खलु सेडुकेन, तत एतानि परिन्हियन्ते। किं नाम त्वग्दोष एव उतान्यस्मिन्नपि रोगे, तत आह-कुष्ठेषु क्षयव्याधौ कच्छ्वाम्--पामायाम् अशिवे-शीतलिकायां नयनामये-नयनरागे; काम-लादौ-एषा अनन्तरोदिता प्रश्रवणादिविषया यतना द्रष्टव्या। एसों जयणा बहुस्सुय, अबहुस्सुय न कीरते तु वक्खारो। ठाति एगया से, अपरीभोगम्मि उजतीणं // 346 // एषा--अनन्तरोदिता यतनाबहुश्रुतेद्रष्टव्या, अबहुश्रुतेऽप्येवम्, नवरंस संबद्भगृहापवरके स्थाप्यते, भिन्नस्तु वक्षारः--अपवरको न क्रियते, सम्बद्धगृहापवरकाभावे वसतेरेकस्मिन् यतीनामपरिभोग्येतंस्थापयन्ति, अपान्तराले कटो दीयते, कटाभावे भूत्या अन्तरं क्रियते। अथ किं कारणमबहुश्रुतो बहिर्न क्रियते, तत आहविवजितो उज्झविवज्जएहिं, मा बाहि भावं, अबहुस्सुतो उ। कट्ठाए भूती व तिरो करेंति, मा एक्कमेकं सहसा फुसेजा // 347|| उज्झविवर्जकैरहं विवर्जितः-परिहृत इत्येवमबहुश्रुतो मा बहिर्भावमुपयासीदिति भिन्ने अपवरके न स्थाप्यते, किंतुवसतेरेकस्मिन् प्रदेशे, तत्रापि काष्ठादिना फलकादिरूपेण, तदभावात् भूत्या वा अन्तरं कुर्वन्ति / मा एकैकेन त्वग्दोषेण साधवः सहसा स्पृशेयुः / अस्यन्दमानत्वग्दोषे विधिविशेषमाह-- अगलंते न वक्खारो, लालासेयादि वजण तहेव। उस्सासमाससयणा-सणादिहिं होंति संकंतं // 358|| अगलति-अस्यन्दमाने त्वग्दोषे पृथग वक्षारः-अपवरको नलालास्वेदादीनामादिशब्दादुच्छासभाषाशयनासनादिपरिग्रहः, वर्जनं तथैव यथा प्रागभिहितं गलति त्वग्दोषे / तस्मादुच्छासादीनां वजनमत आहे-- उच्छासभाषाशयनासनादिभिरादिशब्दात्-पीठ-फलकादिपरिग्रहः संक्रान्तिाधर्भवति।