________________ वसहि 1033 - अभिधानराजेन्द्रः - भाग 6 वसहि वपि बहुश्रुता(ऽल्पश्रुता)वभिनिर्वगडायां वसतौ परस्परं सम्भूय वसत- स्तदा द्वावपि तौ परस्परं रक्षयतः। अधुना 'सविसेसा अप्पसुए' इत्येतद् व्याख्यानयति-- अप्पेव जिणसिद्धेसु, आलोएंतो बहुस्सुतो। अगीतो तमजाणतो, ससल्लो जाति दुग्गतिं / / 330 // अप्येवमेवमपि एकाक्यपीत्यर्थः / बहुश्रुतो जिनेषु अर्हत्सु सिद्धेषु मनसि संप्रधारितेषु तेषां पुरत आलोचयिष्यति, अगीतोऽबहुश्रुतः पुनस्तं विधिमजानन् सशल्यो मृत्वा याति दुर्गतिमतः सविशेषोऽल्पश्रुते। सम्प्रति 'रक्खन्ति परोप्परं दोऽवि' त्ति व्याख्यानार्थमाहसीहो रक्खइ तिणिसे, तिणिसेहि व रक्खितो तहा सीहो। एवण्णमण्णसहिया, बिइयमद्धाणमादीसुं॥३३१।। सिंहो रक्षति तिनिशान्, तिनिशवृक्षगुहां तिनिशैरपैति, ति निशवृक्षगुहयाऽपि सिंहो रक्ष्यते, एवमभिनिर्वगडायां वसतौ वसन्तावन्योन्यसहितौ परस्परं रक्षयतः / अत्रैवापवादमाह-द्वितीयपदम्-अपवादपदमध्वानं प्रतिपन्नकारणेनैकाकी अन्य-सम्भोगिकादीनां पार्श्वस्थादीनां वा वसतेर्विष्वक् अपवरके निवेशनादिषु वा वसेत् / आदिशब्दादशिवादिगृहीतो वा विष्वक् तिष्ठेत्। से गामंसि वा० जाव संनिवेसंसि वा एगवगडाए एगदुवाराए एगनिक्खमणपवेसाए कप्पति बहुस्सुयस्स बन्भागमस्स एगाणियस्स भिक्खुस्स वत्थए उमओ कालं भिक्खुभावं पडिजागरमाणस्स ||7|| 'से गामंसि वा जाव रायहाणिंसि वा' इत्यादि अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाहकारणतो वसमाणो, गीतोऽगीओ व होति निहोसो। पुव्वं च वणिया खलु, कारणवासिस्स जयणाउ॥३३२॥ कारणतो गीतार्थोऽगीतार्थो वा यतनया वसन् निर्दोषो भवति / सा च यतना कारणत एकाकिनो वसनशीलस्य पूर्वमुक्ता / एतदर्थख्यापनार्थमिदं सूत्रम्। अधुना सूत्रत एव सम्बन्धमाहसुत्तेणेद उसुत्तं, जोइज्जइ कारणं तु आसज्ज। संबंधधराव्वरए, कप्पइ वसिउंबहुसुयस्स॥३३३।। सूत्रेणैव सूत्रं योज्यते-सम्बध्यते, तद्यथा-अनन्तरसूत्रेणै काकिनो बहुश्रुतस्य वासो निषिद्धोऽनेन तु सूत्रेणेदं प्रतिपाद्यते-कारणमाश्रित्याध्वप्रतिपत्त्यादिकं सम्बन्धगृहोदरके बहुश्रुतस्य वस्तुं कल्पते, इत्येष सूत्रसम्बन्धः। अनेन सम्बन्धेनायातस्यास्य (7) व्याख्या-अथ ग्रामे वा नगरे वा यावद् राजधान्यामेकवगडायामेकपरिक्षेपायामेकद्वारायामेकनिष्क्रमणप्रवेशायां वसतौ बहुश्रुतस्य बढागमस्य भिक्षोर्वस्तुं कल्पते, केवलमुभयकालं भिक्षुभावं प्रति-जाग्रतोभिक्षुभावश्चारित्रं तस्याऽविराधनार्थ या समाचारी तां कुर्वत इत्येष सूत्रसंक्षेपार्थः। अधुना भाष्यनियुक्तिविस्तरस्तत्र भिक्षुभावम् 'पडिजा गरमाणस्से' ति व्याख्यानार्थमाह भाष्यकृत् चरणं तु भिक्खुभावो, सामायारीऍ जा तदहाए। पडिजागरणं तम्हा, उभओ कालं अहोरत्तं / / 334 / / भिक्षोर्यथावस्थितस्य भावो भिक्षुभावः-चरणं तदर्थं तस्य चारित्रस्याविराधनार्थ या सामाचारी तस्याः प्रतिजागरणंनाम करणम्, उभयकालमहि रात्रौ च आचार्योऽपि तस्यैवं भिक्षुभावं प्रतिजाग्रतो गोसे रात्रिक पृच्छति / दिवसेऽपि भक्तपानादिचिन्तां करोति,विकाले च दैवसिकं पृच्छति, सुखेन वृत्तस्तव दिवस इति, एवमुभयकालमाचार्यस्तं प्रतिजागर्ति। सम्प्रति नियुक्तिविस्तरःवक्खारे कारणम्मि, निकारणे पुव्ववणिया दोसा। किं पुण हुजा कारण, तहोसाई मुणेयव्वा // 33 // वक्षारो नाम एकस्यां बलभ्यामभिनिर्वगडो विष्वक् अपवरकस्तस्मिन् कारणे सति वसति, एतद्विषयमिदं सूत्रम्। यदि पुनः कारणमृते विष्वगपवरके वसति तदापूर्ववर्णिता मिथ्यात्वादयो दोषाः / किं पुनर्भवेत्तत्कारणं यद्वशात् पृथक् अपवरके तिष्ठति, तत आह त्वग्दोषादीनित्वग्दोषक्षयव्याध्यादीनि कारणानि ज्ञातव्यानि। तथाहि-त्वग्दोषादिकमाचार्यो यदि निष्काशयति तदा तस्य प्राययश्चित्तं चतुर्गुरुकम्, तस्मान्नस नियूहयितव्यः किंतु-पृथगपवरके स्थितः परिपालनीयः। सचत्वग्दोषोद्वाभ्यां प्रकारा-भ्यां भवति। (व्य०) (एतद्विषया गाथा 'तदोस' शब्दे चतुर्थभागे 218 पृष्ठे गता) तद् व्याख्या चेयम्-द्विविधस्त्वग्दोषस्तद्यथास्यन्दमानः, अस्यन्दमानश्च / तत्रास्यन्दनः-अस्रावणश्चित्रप्रसुप्तिमण्डलप्रसुतिश्च। यस्तुस्यन्दमानःसकृमीन प्रस्यन्दते, पूतंवा रसिकांवा। तत्र स्यन्दमाने त्वग्दोषे इयं वक्ष्यमाणा यतना। तामेवाहसंदंते वक्खारो, अंतो बाहिं च सारणा तिण्णि। जत्थ विसीदेज ततो, णाणादी उग्गमादी वा // 337 // स्यन्दमाने त्वग्दोषेऽन्तरस्यां वलभ्यां विष्वगपवरके, तस्याभावे एकस्मिन्निवेशने अन्यस्यां वसतौ स्थाप्यते / तत्र च वसतस्तिस्रः सारणा:-साराः कर्तव्याः / यत्र सको विसीदेत् / कास्तास्तिस्रः सारा इत्याह-ज्ञानादौ-ज्ञाने, दर्शने, चारित्रे च / अथवा-उद्मादौ-उद्रमे उत्पादनायामेषणायां वा। अथवा अन्यथा तिस्रः सारास्ता एवाहअहवा भत्ते पाणे, सामायारीऐं वा विसीयंतं। एएसुतिसु सारे, तिनि वि काले गुरू पुच्छे // 338|| अथवेति प्रकारान्तरे भक्ते पाने सामाचार्यां च, एतेषु त्रिषु स्थानेषु सीदन्तं सारयत्याचार्यः / यदिवा-तिस्रः सारा नाम त्रीनपि कालान् गुरुः पृच्छति। कथमित्याहगोसे केरिसयन्ति य, कयमकयं वाऽवि किं ति आवासं। मिक्खं लद्धमलद्धं, किं देअउ वातें मज्झण्हे // 339 / / पेहियमपेहियं वा, वट्टइ ते केरिसं व अवरण्हे। निज्जूहणम्मि गुरुगा, अविही परियट्टणे वाऽवि॥३०॥