________________ वसहि 1031- अभिधानराजेन्द्रः - भाग 6 वसहि तणाण लहुतरो होऽहं, इति वजेति पावगं // 305|| अहं सर्वस्यापि माननीयः, न मां कश्चिन्न पूजयति, यदि पुनरधुना पापमाचरिष्यामि ततस्तृणेभ्योऽपि लघुतरो भविष्यामीति हेतोः पापंमैथुनासेवनादिकं वर्जयति। गतं गौरवद्वारम्। अधुना धर्मश्रद्धाद्वारमाहआयसक्खियमेवेहं, पावगं परिवञ्जए। अप्पेव दुट्ठसंकप्पं, रक्खा सा खलु धम्मतो // 306 यः पापकमात्मसाक्षिकमेव विवर्जयति स परमार्थतो धर्माधिकारीत्येवं मन्यमानस्य, अपिः-सम्भावनायाम्, दुष्टसंकल्पस्य रक्षा मूलत एवानुत्थानमुत्थितस्य विफलीकरणं वा सा खलु धर्मतो भवति। (व्य०) (धर्मश्रद्धाया महत्फलतोपदर्शनम्'धम्मसढा' शब्दे चतुर्थभागे 2733 पृष्ठे गतम् / ) तदेवमनभिनिर्वगडायां वसतौ वसतो लज्जादीनि संयमविराधनारक्षकाण्युक्तानि अभिनिर्वगडायां पुनर्वसतः शुभोऽशुभो वा मनःपरिणाम उपजायते। तथा चाहमणपरिणामो वीयी, सुभासुभो कंटएण दिटुंतो। खिप्प करणं जह लं-खियव्वं तहियं इमं होइ॥३११|| यथा गङ्गादीनां नदीनां वातेनानन्तरानन्तरमनेका वीचय उत्पद्यन्ते एवंजीवस्यान्योन्यमनःपरिणाम उपजायते, स च द्विधा-शुभः,अशुभश्च / अत्र दृष्टान्तः-कण्टकेन वृश्चिकलागूलेन। यथा वा-लटिकायाः क्षिप्रं करणं तथैवमिदं भवति। एवं जीवस्य शुभोऽशुभश्च परिणामः क्षणेनोपजायते क्षणेनैवापैति इत्यर्थः।। अथ कथं मनसोऽवस्थानमत आह-- परिणामाणऽवत्थाणं, सति मोहे उदेहिणं। तस्सेव उ अमावेणं,जायते एगभावया॥३१२।। मनःपरिणामानामनवस्थानं देहिना-प्राणिनां सति-विद्यमाने मोहे भवति, तस्यैव तु मोहस्याभावेन जायते एकभावता-मनःपरिणामस्य एकरूपता, तदेवं मनःपरिणामो वीचिरूपो व्याख्यातः। इदानीं शुभाशुभपरिणामप्रतिपादनार्थमाहजहाऽवविजए मोहो, सुद्धलेसस्स झाइणो। तहेव परिणामो वि, विसुद्धो परिवड्डए॥३१३॥ यथा शुद्धलेश्याकस्य ध्यायिनो-धर्मध्यायिनः शुक्लध्यायिना वा / मोहोऽपचीयते तथैव विशुद्धपरिणामो विवर्द्धते। उक्तः शुभपरिणामः। अशुभपरिणामप्रतिपादनार्थमाहजहा य कम्मिणो कम्म, मोहणिचं उदिजइ। तहेव संकिलिट्ठो से, परिणामो विवडति॥३१४|| यथा च कम्मिणः संक्लिष्टलेश्यास्थानवर्तिन आर्त्तध्यायिनो; रौद्रध्यायिनश्चैत्यर्थः, कर्म-मोहनीयं कषायनोकषायरूपमुदीयते, तथैव 'से' तस्य संक्लिष्टपरिणामो विवर्द्धते। सम्प्रति शुभाशुभपरिणामविवर्त्तनं दृष्टान्तेन भावयति जहा य अम्बुनाहम्मि, अणुबद्धपरंपरा। वीई उप्पज्जए एवं, परिणामो सुभोऽसुभो॥३१॥ यथा अम्बुनाथे-समुद्रे अनुबद्धपरम्परा वीचिरुत्पद्यते, एवं जीवस्य परिणामः शुभोऽशुभश्चानुबद्धपरम्पराक उपजायते। शुभाशुभपरिणामवैचित्र्यमेव दृष्टान्तेन बिभावयि पुःकण्टकदृष्टान्ते प्रागुपन्यस्तं भावयतिकण्हागामी जहा चित्ता, कण्टकं वावि चित्तियं / तहेव परिणामस्स, विचित्ता कालकण्डया॥३१६|| कृष्णागामी-कृष्णाशृगाला, यथा-सा कृष्णादिभी रेखा-भिश्चित्राविचित्रवर्णा भवति, वृश्चिकस्य- महाविषस्य लागूलः कण्टक उच्यते। यथा स कृष्णादिरेखाभिश्चित्रितो नानाप्रकारो भवति तथैव परिणामस्य विचित्राणि कालभेदेन कण्टकान्यसंख्ये-यस्थानात्मकानि भवन्ति। अथ कथं शुभादशुभे अशुभाता शुभे परिणामे याति, तत्र लटिकादृष्टान्तमाह-- लंखिया वा जहा खिप्पं, उप्पतित्ता समोयइ। परिणामो तहा दुविहो, खिप्पं एति अवेति य॥३१७॥ यथा वालविका क्षिप्रमुतप्लुत्य, क्षिप्रमेव समवपतति, तथा परिणामो द्विविधः--शुभोऽशुभश्च क्षिप्रमागच्छति अपैति च। एवं शुभादशुभे अशुभादा शुभे परिणामे गमनं कियन्ति संख्ययाऽध्यवसायस्थानानीति चेदत आह.. लेस्साठाणे उ एकक्के, ठाणासंखमतिथिया। किलिडेणेतरेणं वा, जे उ भावेण खुदती॥३१८|| एकैकस्मिन् लेश्यास्थाने संख्यामतिक्रान्तानि संख्यातीतानि स्थानानि-परिणामस्थानानि भवन्ति,यानि क्लिष्टनसंक्लिष्टन इतरेणविशुद्धेन भावेन खुन्दति-आस्कन्दति प्राप्नोतीत्यर्थः। अथ कः संक्लिष्टः, को वा इतरोभाव इति चेत्? उच्यते-इह कृष्णलेश्यापरिणामो विशुद्धस्तस्मान्नीललेश्यामपरिणामो विशुद्धस्तस्मादपि कापोतलेश्यापरिणामो विशुद्धस्तस्मादपि तेजोलेश्यापरिणामो विशुद्धः, तस्मादपि पद्मलेश्यामपरिणामो विशुद्धः, ततोऽपि शुक्ललेश्यामपरिणामः / तथा शुक्ललेश्यापरिणामः क्लिष्टः, तस्मादपि पद्मलेश्यापरिणामः क्लिष्टः, तस्मात्तेजोलेश्यापरिणामः क्लिष्टः, तस्मादपिकापोतलेश्यापरि-णामः, क्लिष्टः, ततोऽपिनीललश्यापरिणामस्तस्मादपिकृष्णलयापरिणामः। उक्त चं-क्रमशः स्थितासु लेश्यागतासु जीवस्य भावपरिणतिषु / अवपतनोत्पतनाद्वा, संक्लेशाद्वा विशोध्यादा। प्रत्येकैकस्मिन् लेश्यास्थाने परिणामसंख्यातीतत्वं भावयतिभवसंघयणंचेव, ठितिं वाऽऽसजदेहिणं। परिणामस्स जाणिमा, विवढी जस्स जत्तिया // 316 / / भव एव संहननं भवसंहननं दृढभवं देहभवं चाधिकृत्येत्यर्थः / तथा स्थितिं च जघन्यादिभेदभिन्नमाश्रित्य देहिनां नारकादीनां यस्य-परिणामस्य कृष्णलेश्यादिरूपस्य यावती वृद्धिस्त