________________ वसहि 1030- अभिधानराजेन्द्रः - भाग 6 वसहि दंसूत्रम्।तथा निकाचनंच नियमश्च पूर्वाणामकृतश्रुतानां कृतमनेन सूत्रेण। / तथाहि-यदि कृतश्रुतस्यापि न कल्पते एकाकिनो वासः किमङ्ग ! पुनरकृतश्रुतस्य तस्य सुतरामेकाकिनो न कल्पते वास इत्येष सूत्रसम्बन्धः / अनेन सम्बन्धेनायातस्यास्य (सूत्रस्य६) व्याख्या अथ ग्रामे वा नगरे वा यावद्राजधान्यां वा अभिनिर्वगडायामभिनिराियामभिनिष्क्रमणप्रवेशायामेतेषां त्रयाणामपिपदानां व्याख्यानंपूर्ववत्।नकल्पते बहुश्रुतस्य सूत्रापेक्षया एकाकिनो भिक्षोर्वस्तुम, किमङ्ग! पुनरल्पागमस्याल्पश्रुतस्येति सूत्रक्षेपार्थः। सम्प्रति भाष्यविस्तरःअंतो वा बाहिवा, अभिनिव्वगडाएँ ठायमाणस्स। गीयत्थे मासलहुं, गुरुतो मासो अगीयत्थो / / 29ll अन्तरुपाश्रयस्याभिनिर्वगडायां-पृथक्परिक्षेपायां वसतौ यथाएकस्यां वलभ्यां विष्वक् अपवरके बहिरुपाश्रयस्याभिनिर्वगडायामन्यस्मिन् प्रतिश्रये यदि गीतार्थो भिक्षुर्वसति तदा तस्य तत्र तिष्ठतो गीतार्थस्य प्रायश्चित्तं मासलघु अगीतार्थस्य गुरुको मासः। सांप्रतमन्तर्बहिर्वा गृहस्य या अभिनिर्वगडा तस्याः प्रकारमाहअंतो निवेसणस्स, सोही मादी वजाव सग्गामो। घरवगडाए सुत्तं, एमेव य सेसवगडासु // 300 / / निवेशनस्य गृहस्यान्तरभिनिर्वगडा, अथवा-निवेशनादरहिरन्या वसतिरभिनिर्वगडा तस्यां मुख्यतो द्रष्टव्यम् एवमेव शेषवगडासु निवेशनाद्वहिरभिनिर्वगडाप्रकारेषु च / तच्च गीतार्थानामगीतार्थानां भिक्षणामेकाकिनां वसतां प्रायश्चित्तम्। तदेव प्रागुक्तं न केवलं प्रायश्चित्तं किं त्वन्येऽपि च दोषाः। तथा चाहआणादिणो य दोसा, विराहणा होइ संजमायाए। लज्जाभया उगारव, धम्मसठरक्खाचउद्धा अ॥३०१।। अन्तर्निवेशनस्याभिनिर्वगडायां वसतौ तिष्ठत आज्ञादयो दोषाः, तथा संयमविराधना आत्मविराधना च ! एते यथा प्राक् चतुर्थपञ्चमातिशये भाविते तथा भावनीये। यदि पुनरनभिनिर्वडायां वसतौ वसति तदा पापं कर्तुमिच्छतो लज्जातो भयतो गौरवतो धर्मश्रद्धातो वा रक्षा चतुर्विधा स्यात्। किमुक्तं भवति-अनभिनिर्वगडायां वसतौ वसन् संयमविराधनारूपमात्मविराधनारूपं वा पापं लज्जादिभ्यो न कुर्यादपि। तत्र प्रथमतो लज्जाद्वारं भावयतिलज्जणिजो उहोहामि, लखए वा समायरं। कुलागमतवस्सी वा, सपक्खपरपक्खतो // 302 // यद्यहं हस्तकाद्यन्यता पापं समाचरिष्यामि लज्जनीयो भविष्यामि, लज्जितश्च कथं कुलस्य गणस्य सङ्घस्य आगमज्ञस्य वा तपस्विनो वा स्वपक्षस्य श्रावकादेः परपक्षस्य वा-परतीर्थिकादिरूपस्य मुखं दर्शयिष्यामि / अथवा--तत्पापमाचरन् कुलागमज्ञतपस्विस्वपक्षपरपक्षेभ्यो लजते / यथाऽहमेवमाचरन् कथमात्मीयं मुखं तेषां दर्शयिष्यामि एवं लज्जातः पापं न करोति। सम्प्रति भयद्वारभावनार्थमाहअसिलोगस्स वा वाया, जो ऽतिसंकति कम्मसं। तहा वि साहु तं जम्हा, जसो वण्णो य संजमो // 303 / / अश्लोकस्य वा-अवर्णस्य वा वादात्-प्रवादात् यः कर्मअशुभासेवनारूपमतिशयेन शक्यते-अपकीर्त्यपवादभयान्न कुरुते इत्यर्थस्तथापि तस्यतत् अशुभकामानाचरणं साधुयस्मात्तेन यशोऽभिकाशितम्, 'यशो वर्णः संयम इत्येकार्थम्।' 'जसो त्ति वा संजमो त्ति वा वण्णो त्ति वा एगट्ठ' मिति वचनात्। ततः परमार्थतः संयमोपेक्षित इति तदनाचरणं श्रेयः। सम्प्रतियशः संयम इत्येकार्थतया भगवदूचनमुपदर्शयतिजसं समुवजीवंति, जे नरा वित्तमत्तणो। अलेस्सा तत्थ सिझंति, सलेस्सा उ विभासिया // 340 / / ये नरा-मनुष्या वृत्तमात्मन इच्छन्ति ते यशः समुपजीवन्तिसंयममुपजीवन्ति, इत्येतद्व्याख्याप्रज्ञप्तौ राशियुग्मशते भणितम्।तथा च तद्ग्रन्थः-"मणुस्सा णं भंते किं आयजसं उवजीवंति'' आत्मसंयममित्यर्थः। "आयअजसं उवजीवंति'' आत्माऽसंयम-मित्यादि, एवं यशःसंयमा वेकार्थावुक्तौ। तत्र ये अलेश्याः-शैसे-शीप्रतिपन्नास्ते नियमात् सिध्यन्ति, सलेश्याः पुनर्विभाषिता--विकल्पिताः केचित्सिध्यन्ति केचिन्न सिध्यन्तीत्यर्थः। तत्रये भव्यास्ते सिध्यन्ति, तत्राहमशुभं कर्म समाचरन्नभव्यो भविष्यामीति भयतो नाशुभकर्म समासेवते। दाहिंति य गुरू दंड, जइ नाहिंति तत्ततो। तंच वोढुं न चाइस्सं, घायमादी य लोगतो // 30 // यदि परस्त्र्यादिकं सेविष्ये ततो यदि गुरवस्तत्त्वतो ज्ञास्यन्ति तदा दण्डं-प्रायश्चित्तमुग्रं दास्यन्ति, तथोग्रं प्रायश्चित्तं वोढुमहं न शक्ष्ये, नापि लोकतः-परयुवतिभादिलक्षणात् घातादिकं-घात-वधादिकं सोढुं शक्ष्ये, इति भयतो नासेवते अशुभं कर्म / गतं भयद्वारम्। अधुना गौरवद्वारमाहजोऽहं सइरकहासुंपि,चकामि, गुरुसन्निहो। सोऽहं कहमुपासिस्सं,तमणायारदूसितो॥३०६|| योऽहं स्वैरकथास्वपि गुरुसन्निधौ गौरवेण चकास्मि सोऽहमना--- चारदूषितस्तं गुरुं कथमुपासिस्ये, अनाचारदूषिततया तथारूपगौरवाऽसम्भवात्। लोए लोउत्तरे चेव, गुरवो मज्झ संमता। मा हु मज्झावराहेण, होज तेसिं लहुत्तया // 307 / / मम गुरवो लोके लोकोत्तरेऽपि च संमतास्ततो ममापराधेन मा तेषां लघुता भूयात्। तथामाणणिजो उसबस्स, न मे कोई न पूयए।