________________ वसहि 1026 - अभिधानराजेन्द्रः - भाग 6 वसहि च विश्रामणां कुर्वन्ति, मा अन्यथा जीर्णरथ इव स सीदेत्। अथ तस्याचार्यस्य नित्यसहायो न विद्यते, तत आहअसती निचसहाए, गेण्हइ पारंपरेण अण्णोण्णे। ते चिय अण्णेहि सम, तं मलेउं नियत्तंते // 291 // असति-अविद्यमाने नित्यसहाये-अवस्थितसहाये यः सकलदिवसमाचार्येण सह हिण्डते, ततः पारंपर्येणान्यानन्यान् सहायान् गृह्णाति / तद्यथा-एके साधवस्तावन्नयन्ति यावत् द्वितीयं स्फड़कम्, ततस्ते तैः समं मेलयित्वा प्रतिनिवर्तन्ते। ततोऽप्यन्ये साधवस्तावन्नयन्ति यावत्तृतीयं स्पर्द्धकम्, ततस्तेऽपि तैः सह मेलयित्वा प्रतिनिवर्तन्ते। तानि च स्पर्द्धकान्याचार्यस्य स्पर्द्धकेन सह त्रीणि स्पर्द्धकानि भवन्ति। अथ कथमाचार्य एकदिवसेन त्रयाणामकृतश्रु तस्पर्द्धकानां शोधिं करोति। तत आह-- एगत्थ वसितो संतो, तेसिंदाऊण पोरिसिं / मज्झण्हे बितियं गंतुं, भोत्तुं तत्थावरं वए / / 292| आत्मीये स्पर्द्धके उषितः सन् आश्चार्यः सूत्रपौरुषीं दत्त्या मध्याह्ने द्वितीय स्पर्द्धकं गच्छति, तत्र गत्वा भुक्त्वा ' शोधिं च कृत्वा तदनन्तरमपरं तृतीयं स्पर्द्धकं व्रजति। तत आलोचनादिशोधिं कृत्वा तत्रैव वसति। एवमेगेण दिवसेण, सोहिं कुणति तिण्ह वि। पडिपुच्छणं च बलवं, आह सुत्तमवत्थयं / / 293|| एवमेकेन दिवसेनाचार्यस्त्रयाणामपि स्पर्द्धकानांशोधिं करोति, यदिस प्रतिपृच्छां-प्रत्येकं पृच्छां सारा कर्तुं गन्तुं बलवान् / अत्र परः प्राहयद्येवं तर्हि 'तइयं रयाणं संवसति' त्ति तदिदानीमपार्थकमवकाशाभावात्सुत्तनिवातो थेरे, कलाव काउं तिहेण वा सोहिं। बितियपयं च गिलाणे, कलाव काऊण आगमणं // 264|| आचार्यः प्राह अधिकृतस्य सूत्रस्य निपातोऽवकाशः स्थविरे। तथाहियद्याचार्यः-स्थविरतया दुर्बलत्वेन वा प्रतिदिवसं त्रिषु स्पर्द्धकेषु शोधिं कर्तुं न शक्नोति तत एकैकस्मिन् स्पर्द्धके तृतीयां रात्रि वसति। तथा चाह- आचार्यस्य प्रतिदिवसमनागमने व्यहेण चाऽपराधान् कलापं कृत्वापिण्डयित्वा शोधिमाचार्यस्य समीपे कुर्वन्ति। तथाहि-एकस्मिन् स्पर्द्धके उषित्वा तत्र पौरुषी दत्त्वा द्वितीये स्पर्द्धक समायाति, तत्रैव वसति।तत्र वसतौ तत्रत्याः साधवो ये अपराधा अभूवन ते एकत्र पिण्डयित्वा आचार्यस्य पुरत आलोचयन्ति / आचार्यस्तु शोधिं ददात्यप्रमादार्थ चोपदेशं प्रयच्छति / अत्रापि द्वितीयपदमाह-द्वितीयपदम्अपवादपदं ग्लाने सत्याचार्य अपराधान् कलापं कृत्वा;पिण्डयित्वा इत्यर्थः, स्पर्द्धकसाधूनामागमनमाचार्यसमीपे / इयमत्र भावनायद्याचार्यो ग्लानत्वेनातिवृद्धत्वेनाऽजङ्गमः स्वयं न शक्नोति तेषांसमीपं गन्तुंतदा इतरस्पर्द्धकद्वयसाधवो यथा मयूरः स्वपिच्छान् कलापयति-- एकत्र पिण्डयति एवमपराधानेकत्र पिण्डयित्वा हृदये सम्यगवधार्य गुरुसमीपमागत्यालोचयन्ति आलोचितेषु चतेषु अपराधेषु यदिप्रायश्चित्तं दातव्यं भवति तदा प्रायश्चित्तमाचार्यो दत्त्वा प्रमादाभावार्थमुपदेशं च दत्त्वा विसर्जयति। एतदेव सविस्तरमाहएवं अगडसुयाणं, वीसु ठियाणं तु तीसु गामेसु / लहुया असंथरंतो, तेसि अणिताण वी लहुतो // 265|| सर्वेषां यद्याचार्येण समं नास्ति क्षेत्रं यत्र वसतिः संस्तरणं च भवति / अथवा-अस्ति वसतिः संस्तरणं न विद्यते, यदिवा-अस्ति संस्तरणन पुनर्वसतिः,एवमैतेः कारणैस्त्रिषु ग्रामेषु विष्वस्तिथा अकृतश्रुतास्तेषामसंस्तरणम्, तथापि स्थितानां यद्याचार्यो द्वयोरितरयोः स्पर्द्धकयोः प्रतिदिवसं सारां न करोति, तदा प्रायश्चित्तं चत्वारो लघुकाः। स्पर्द्धकसाधवो यद्याचार्यमनागच्छन्तं न गवेषयन्ति तदा तेषामप्यनागच्छता मासलघु। एगदिणं एकेके, तिट्ठाणत्थाण दुव्बलो वसति। अह सो अजंगमो चिय, ताहे इयरे तहिं एंति // 296|| अथ ग्लानत्वेन वृद्धत्वेन दुर्बलतया न प्रतिदिवसं त्रिषु स्पर्द्धकेष्वागन्तुं शक्नोति तदा स दुर्बल आचार्यस्त्रिस्थानं, स्थानं स्पर्द्धकानामेकैकस्मिन् स्पर्द्धके एकैकं दिनं वसति। यथा च वसति तथा प्रागेवोक्तम्। अथ स आचार्योऽतिवृद्धत्वेन ग्लानत्वेनाजङ्गमो जातस्तत इतरे स्पर्द्धकद्वयसाधवस्तत्राचार्यसमीपे आगच्छन्ति, तेषामपि विधिमूलगाथायामुक्तः। अथवा तत्रान्यः प्रकारस्तमेवाऽऽहएइ व पडिच्छए वा, मेहावि कलाव काउमवराधे। अतिदूरे पण परए, पक्खे मासे परतरे वा॥२६७|| यस्तेषां स्पर्द्धकसाधूना, मध्ये कोऽपि साधुर्मेधावी ससर्वेषां साधूनामपराधान् हृदये धारयितुमलं तेन स्पर्द्धकसाधव आलोचयन्ति। तद्यथास तेषामपराधपदानि कलापं कृत्वा हृदये संपिण्ड्याचार्यसमीपमागत्यालोचयति / तान्याचार्यः श्रुत्वा यद्यापन्नाः प्रायश्चित्तम् / ततो यत्र येनापन्नं प्रायश्चित्तं तमेनमित्थं वाहयेदिति भणित्वा प्रेषयति / सोऽपि च साधुस्तेषां तत्कथयति प्रायश्चित्तं च तेऽपि साधवस्तद्वहन्ति। 'पडिच्छए व' त्ति अथवा-आचार्य आत्मीयात् स्पर्द्धकात् विनिर्गत्य येन प्रदेशेन इतरे स्पर्द्धका वाऽऽगच्छन्तस्तस्मिन् प्रदेशे अन्तरा प्रतीक्षमाणस्तिष्ठति तत्र स्पर्द्धकसाधव आगच्छन्ति / एको वा मेधावी अत्राप्यालोचनादिकं तथैव 'अइदूरे इत्यादि यद्यतिदूरे स्थितास्तदा पञ्चमे पञ्चमे दिवसे, यदि वा-पक्षेण पक्षण, अथवा-मासेन मासेन, परतरे देति परतरेण वा द्वयर्द्धमासादिना समागच्छन्ति। आगत्य धाचार्यादिसमीपेशोधिं कुर्वन्ति। से गामंसि वाजाव संनिवेसंसि वा अभिणिदुवाराए अभिणिक्खमणपवेसाए णो कप्पति बहुसुयस्स वभागमस्स एगागियस्स भिक्खुस्स वत्थए, किंमग! पुण अप्पागमस्य अप्पसुयस्स भिक्खुस्स॥६॥ 'से गामंसिवा' इत्यादि। अत्र सम्बन्धप्रतिपादनार्थमाहअगडसुयाण न कप्पड़, वीसुमा अइपसंगतो सुयवं। एगागितो वसेडा,निकायणं चेव पुरिमाणं // 26 // अनन्तरसूत्रे अकृतश्रुतानां न कल्पते विष्वग् वास इति श्रुत्वा माऽतिप्रसङ्गतः श्रुतवान् एकाकी वसे दित्येवमर्थमि