________________ वसहि 1028- अमिधानराजेन्द्रः - भाग 6 वसहि कारणियं पुण वसही, असती भिक्खोभये जयणा // 281|| ननु यदि तृतीये दिवसे गीतार्थेन सह संवसनमेवमपि ये पूर्व भणिता मिथ्यात्वादयो दोषास्ते द्वयोर्दिवसयोर्भवन्ति / आचार्य आह-सत्यमेतत्केवलमिदं सूत्रं कारणिकंकारणवशप्रवृत्तमतो न दोषः। किं पुनस्तत्कारणमत आह–'वसहि असती' इत्यादि, वसतिरेकत्र सर्वेषां न विद्यते, यदिवाभिक्षा सर्वेषामेकत्र न भवति, अथवा-उभयमेकत्र सर्वेषां न सम्भवति, तत एतेषां त्रयाणां कारणानामन्य-तमेन कारणेनपृथक्पृथक् वसन्ति / तत्र च यतना कर्तव्या। यतनया च संवसतांन प्रायश्चित्तम्। तामेव यतनामाहसंकिट्ठा वसहीए, निवेसणस्संतें अन्नवसहीए। असतीय वाडगं तो, तस्सऽसती होज दूरे वा // 22 // स्वग्रामे संक्लिष्टायामातिसङ्कटयां वसतौ सर्वेषामेकत्र स्थानं न भवति तदा एकनिवेशनस्यान्तः पृथगन्यसां वसतौ स्थातव्यम्। असत्येकनिवेशनस्यान्तः-अन्यस्या वसतेरभावे वाटकस्यान्तः पृथगन्यस्यां वसतौ वसन्ति। अथवाटकस्याप्यन्तः पृथगन्या वसतिर्न लभ्यते, तदा वाटकबहिर्हस्तशताभ्यन्तरे पृथगन्या वसतिर्गवेषणीया, तस्य हस्तशतस्याभ्यन्तरे वसतेरभावे दूरेऽपि वसतिरन्या स्यात्। तत्र हस्तशताभ्यन्तरं यावत् यतनामाह--- वीसं पि वसंताणं, दोण्णि वि आवासगासह गुरूहिं। दूरे पोरिसिभंगे, उग्घाडऽऽगंतु विगडेंति॥२८३|| निवेशनवाटकहस्तशताभ्यन्तरे (वीसुं) विष्वगपिवसतामेष विधिर्दिवसे दिवसे द्वे अप्यावश्यके-प्राभातिकप्रतिक्रमणलक्षणे सह गुरुभिः कर्त्तव्ये। भिक्षामप्यटित्वा ततः संनिवृत्ता आचार्यस्य समीपे समागत्याऽऽलोचयन्ति। अथ हस्तशतस्य बहिर्वसतिर्लब्धातर्हिगुरुसमीपेचतुर्थपौरुष्यामालोचनां कृत्वा वैकालिकमावश्यकं स्वकीयायां वसतौ कुर्वन्ति। ततः प्रातरप्यावश्यकं तत्र कृत्वा गुरुसमीपमागत्य प्रत्याख्यानं गृह्णन्ति। 'दूरे' इत्यादियदि पुर्नदूरे अन्यस्मिन्ग्रामे स्थिता भवेयुस्ततोयदिगुरुसकाशमागच्छतां पौरुषीभङ्गस्तत उद्घाटायां पौरुष्यामागत्याचार्यसमीपे आलोचयन्ति,प्रत्याख्यानं न गृह्णन्ति पूर्वार्द्धकम् / एतत् दूरे स्थितानामविशेषेणोक्तम्। अधुना विशेषमभिधित्सुराहगीयसहाया उ गया, आलोयण तस्स सो वि य गुरूणं। अगडा पुण पत्तेयं, आलोएंती गुरुसगासे // 24 // तत्र यदि तेषां दूरे स्थितानां कोऽपि गीतार्थाः सहायोऽस्ति तर्हि ते गीतसहायाः-- गीतार्थसहाया दूरे गताः सन्तस्तस्य गीतार्थस्य पुरतः आलोचयन्ति। स पुनर्गीतार्थ उद्घाटायां पौरुष्यां गुरूणां समीपमागत्य विकटयति। अथ नास्ति कोऽपि तेषां गीतार्थः सहायस्तर्हि ते केवला अकृताः-अकृतश्रुता उद्घाटायां पौरुष्यां गुरुसकाशे समागत्य प्रत्येकमालोचयन्ति। एताण य जंताण य, पोरिसिभङ्गो तओं गुरुं वयंति। थेरे अंजगमम्मि व, मज्झण्हे वाऽवि आलोए॥२८५।। यदि दूरे वसतिर्लब्धा उद् घाटायां च पौरुष्यामागच्छतां गच्छतां च पौरुषीभङ्गस्ततो गुरवः स्वयं तेषामकृतश्रुतानां समीपं व्रजन्ति / आचार्यो वृद्धत्वेन चागन्तुं न शक्तस्ततः स्थविरे अजङ्गमे आचार्ये ते अकृतश्रुता मध्याङ्गे गुरुसमीपमागत्यालोचयन्ति। एवं पिदुल्लहाए, पडिवसहठिया न एंति पतिदिवसं। समणुण्णदढधिईया, अतरुणे य बहिं विसज्जेन्ति // 286 / / एवमपि-अनेनापि दुर्लभायां वसतौ दूरे प्रतिवृषभस्थिता न प्रतिदिवस गुरुसमीपमागच्छन्ति, अर्थादापन्ने द्वितीये दिवसे आलोचका आगच्छन्ति। अथ कीदृशास्ते प्रतिवृषभा यानाचार्यः प्रेषयति, तत आह-'समणुण्णे' त्यादि, समनोज्ञा नाम येषां परस्परं प्रीतिस्तान् समनोज्ञान् दृढधृतीन् अतरुणान्मध्यमवयसो बहिः प्रतिवृषभानाचार्या विसर्जयन्ति / तदेवं वसत्यलाभो यतनोक्ता। सम्प्रति भिक्षाया अलाभे यतनामाहदुल्लममिक्खे जतिउं, सग्गामुन्मामपल्लियासुंच। अतिखेयपोरिसिवहे, न वाऽवि ठायंति तो वीसुं // 287 / / दुर्लभे भैक्षे यदि स्वग्रामे उद्ग्रामकभिक्षाचरप्रत्यासन्नग्रामे पल्लिकादिषु चयतन्ते,तथापि-यतित्वाऽपिनास्ति संस्तरणम्। अथवा अतिशयेनमहता कालक्षेपेण यदि पर्याप्तं कथमपि लभ्यते पौरुषीबधेनद्वितीयचतुर्थपौरुषीभङ्गेन ततो विष्वक्-अन्यक्षेत्रेऽपि गीतार्थाभावेनाकृतश्रुता अपि तिष्ठन्ति, तेच विष्वक्-क्षेत्रेषु तथा तिष्ठन्ति यथा आचार्ये स्पर्द्धकेन सह त्रीणि स्पर्द्धकानि भवन्ति। उभयस्स अलंभम्मि वि, गीताऽसति वीसु ठंति अगडसुया। दुसु तिसु वा ठाणेसुं, पतिदिवसाऽऽलोऐं आयरितो // 288|| उभयस्य-वसतेभैक्षस्य वाऽलाभे गीतार्थस्याभावे अकृतश्रुता अपि विष्वक् तिष्ठन्ति / कथमित्याह-दिषु त्रिषु वा स्थानेषु आचार्यस्थानेन तत्सहोत्कर्षतस्त्रिषु स्थानेषु इत्यर्थः, तत्र भिक्षाऽलाभे उभयालाभे वा विष्वक् स्थितानां प्रतिदिवसमाचार्यस्तेषामन्तिकं गत्वा तानालोकते, प्रतिपृच्छादिदानेन तेषां सारं करोतीत्यर्थः। किंकारणमाचार्येण प्रतिदिवसं तेषां समीपे गन्तव्यमत आहसइरीभवन्ति अणवे-क्खणाएँ जह भिन्नवाहणा लोए। पडिपुच्छ सोहि-वोतण, तम्हा उगुरू सया वयई // 26 // भिन्नप्रवहणाः स्वैरिणो भवन्ति, एवं तेऽपि स्वैरिणो जायन्ते / तस्मात् प्रतिपृच्छा शोधित्वदानाय गुरुः सदा तेषामन्तिकं व्रजति। तस्य पुनराचार्यस्य तेषां समीपं व्रजतस्तैर्यत्कर्तव्यं तदाहतण्हाइयस्स पाणं,जोग्गाहारं व नेति पचो (व्यो)णिं / किमिकमंच करेंति, मा जुन्नरहो व सीएजा॥२९॥ येषां समीपमाचार्यो गच्छति ते आचार्यस्य-'पच्चो(व्वो)णिं' सन्मुखं तृष्णायितस्य-अतिशयतृषितस्य योग्यं पानंपानीयं योग्यमाहारं च प्रथमालिकानिमित्तं नयन्ति / कृतिकर्म