________________ वसहि 1027- अभिधानराजेन्द्रः - भाग 6 वसहि तथा ज्ञानाद्यर्थाय-ज्ञाननिमित्तं दर्शननिमित्तं चारित्रनिमित्तं वैयावृत्त्यनिमित्तकरणं चलितानां तेषां गीतार्थानामभावे अगीतार्था अपि गच्छन्ति। स्पर्द्धकपतौ वा कालगते आचार्यसमीपमथ सार्थात्मन्दगतितया स्फिटिता यावन्नाधापि मिलन्ति तावदेकत्र बहूनामकृतश्रुतानामपि वासो न विरुध्यते। एगाहिगमट्ठाणे,व अन्तरा तत्थ होज वाघाते। तेणच्छेज्जा तत्थ वि, सेहस्स नियल्लगा बेति // 274 / / तत्तो वि पलाविजइ, गीयत्थविइज्जइंतु दाऊणं / असतीए संगारो,कीरइ अमुगत्थ मिलियध्वं // 27 // कोऽपि साधुः गीतार्थाभावे आचार्येण क्वचित्प्रयोजने प्रेषितो भणितश्वाचैव प्रत्यागन्तव्यमिति / एवमेकाहिगमे' एकदिनगमागमे अध्वनि अन्तराले तत्र व्याधातो भवेत्, तेन कारणेन स यत्र प्रेषितस्तत्रैवासीत्न प्रत्यागच्छति / अथवा-तस्य स्वज्ञातय उत्प्रव्राजननिमित्तमाचार्यसमीपमागताः अपश्यन्तः सर्वतः समन्तात् निरीक्षन्ते, निरीक्षमाणाव तत्र गता यत्र स गतस्तिष्ठति। ततो येषां समीपे स प्रेषितस्तत्साधुभितिम्, यथा-शैक्षस्य निजकाः समायातास्तिष्ठन्ति / ते च ब्रुवतेवयमात्मीयमुत्प्रव्राजयिष्यामस्ततोऽपि स्थानात् द्वितीयं गीतार्थ दत्त्वा पलायते दूरम्, यत्र तन्निजकानांगतिविषयो नास्ति / असति गीतार्थे अगीतार्थोऽपि सहायो दीयते। तेषां च संकेतः क्रियते, यथा-अमुकप्रदेशे मिलितव्यम्। अगीतार्थस्यापि सहायस्याभावे एकाक्यपि प्रेष्यते,तत्रापि संकेतः कर्तव्यः / एवमेकाकिनस्त्रिप्रभृतीनां बाहूनामृतुबद्ध वर्षासु च वासो भवति। रायहुट्ठादीसुद, सवेसुंचेव होइ संगारो। नाणादिव ओसरणे, गीयत्थविइज्जगं मग्गो // 276 / / असती एगाणीउ, निबंधे वा बहूण अगीयॉणं। सामायारीकहणं,मा बहिभावं निरंभंति // 277 / / राजद्विष्टादिषु-राजद्विष्टाशिवावमौदार्यसम्भ्रमादिषु सर्वेषु भवति संकेतः कर्त्तव्यः। तथा स्नानादिनिमित्तंजिनप्रतिमास्नानरथ-निर्याणादिनिमित्तं समवसरणं-भूयः सामाचार्यादीनां मिलनं भविष्यतीति समवसरणे श्रुते कोऽप्याचार्यसमीपमागत्य द्वितीयं गीतार्थ मार्गयति, तस्य द्वितीयो गीतार्थो दातव्यः / असति- अविद्यमाने गीतार्थे, अविद्यमाने तावद् द्विधा-सद्भावेनासद्भावेन वा। सद्भावो नाम-सन्ति गीतार्थाः परं ग्लानादिप्रयोजनव्यापृताः, असद्भावो मूलत एव गीतार्था न सन्ति। तत्र सद्भावेन असद्भावेन वा अविद्यमानेगीतार्थेस प्रतिषेधनीयो यथा नास्ति द्वितीयो गीतार्थः। अथ स निर्बन्धं करोति तर्हि एकाकी प्रेष्यते। यदिवाबहवोऽगीतार्थाः सहाया दीयन्ते / बहूनामपि ज्ञानदर्शनादिनिमित्त गमनेच्छाभावात् / तेषां च बहूनामगीतार्थानां या पथि सामाचारी या च समवसरणे प्रविष्टानां तस्याः कथनम् / अथ कस्मात्ते निर्बन्धेऽपि कृते उत्कल्यन्ते तत आह-मा निरुध्यमाना बहिर्भावं व्रजेयुरिति कृत्वा। / सूत्रम्से गामंसि वा० जाव सन्निवसंसि वा अभिणिव्वगडाए अभि- / 'णिदुवाराए अभिणिक्खमणपवेसणमाणाए णो कप्पति बर्ण अकडसुयाणं एगयओ वत्थए। अत्थि या इ ण्हं केइ आयारपकप्पधरे जे तत्तियं रयणिं संवसति णऽत्थि या इत्थ केइ छए वा परिहारे वा, णऽत्थिया इत्थ केइ आयारकप्पधरे जे तत्तियं रातिं संवसति सव्वेसिंतेसिंतप्पत्तियं छए वा परिहारे वा / / 5 / / 'से गामंसि वा' इत्यादि अथास्य सूत्रस्य कः सम्बन्ध इत्यत आहअण्णग्गामे वासं,णाऊण निवारियं अगीयाणं। सग्गामे मा वीसुं,वसेज्ज अगडा अयं लेसो॥२७८|| अन्यस्मिन् ग्रामे अगीतार्थानां वासं निवारितं ज्ञात्वा मा स्वग्रामे विष्वगपि वासः कल्पते इति मन्यमाना अकृताअकृतश्रुताः स्वग्रामे. विष्वक्वसेयुः, अतस्तन्निषेधार्थमिदंसूत्रमित्ययं सूत्रसम्बन्धलेशः। अथवाऽयमन्यः सम्बन्धःअगडसुया वाऽहिकया, समागमो एस होइदोहंपि। सच्छंदणिस्सियावा,निस्सयजयणाविहं भणिया।॥२७॥ अनन्तरसूत्रे अकृतश्रुता अधिकृताः, अस्मिन्नपि सूत्रेतएवा कृतश्रुताः प्रोच्यन्ते इत्येष द्वयोरपि सूत्रयोः समागमः-सम्पर्कः। अथवा-अधस्तनानन्तरसूत्रेस्वच्छन्दतोऽनिश्रिता उक्ताः अस्मिन्पुनः गीतार्थनिश्रितानां यतना भणिता। अनेन सम्बन्धेना-यातस्यास्य(५ सूत्रस्य) व्याख्या"से गामंसि वा" इत्यादि पूर्ववत् / नवरम् 'अभिनिव्वगडाए' अभिप्रत्येकंनियतो वगडः परिक्षेपो यस्यां सा अभिनिर्वगडा तस्यां पृथक् परिक्षेपायामित्यर्थः। तथा अभि प्रत्येकं नियतं द्वारं यस्याः सा तथा तस्याम्, तथा अभिप्रत्येक निष्क्रमणप्रवेशौ निष्क्रमणप्रवेशस्थानंयस्याः सा तथा तस्याम्,वसतौ बहूनामकृतश्रुतानामेकतो वस्तुम्, अस्तिवाऽत्र प्रकल्पधरो यस्तृतीयां रजनीं गत्वा तैः समं वसति, तर्हि तेषामापन्नःसमापन्नो नास्ति कश्चिच्छेदः परिहारोवा। नास्ति कश्चिदाचारप्रकल्पधरो यस्तृतीयां रजनिंगत्वातैः समंवसति, तर्हि तेषां सर्वेषामपितत्प्रत्ययमगीतार्थेन सह सम्बन्धनप्रत्ययः छेदः परिहारो वा, एष सूत्रसंक्षेपार्थः। अधुना भाष्यविस्तरःगामे उवस्सए वा, अभिनिव्वगडाएँ दोसते चेव। नवरं पुण नाणत्तं, तइयदिवसें गीयसंवसणा // 280 / / ग्रामे वा एकस्मिन्नुपाश्रये विष्वक् अभिनिर्वगडायां पृथक् परिक्षेपायामुपलक्षणमेतत्पृथग्द्वारायां पृथनिष्क्रमणप्रवेशायां येऽनन्तर-सूत्रे मिथ्यात्वादयो दोषा उक्तास्त एवान्यूनातिरिक्ता द्रष्टव्याः। नवरं पुनर्नानात्वमिदमस्मिन् सूत्रे यदि गीतार्था निश्रया वसन्ति तर्हि तृतीयदिवसे गीतसंवसनम्-गीतार्थेन सहसंवसनं कर्तव्यम्, आचार्यस्तृतीयदिवसे तेषां शोधिनिमित्तं गातार्थमेकं प्रेषयति / एवं च तेषां नास्ति प्रायश्चित्तम्। अत्र पर आहएवं पि भवे दोसो, दोसुं दिवसेसु जे भणियपुर्टिव /