________________ वसहि १०२६-अभिधानराजेन्द्रः - भाग 6 वसहि हि 'तेसिं' तेषामन्तरातस्मात्स्थानादिप्रतिक्रमणलक्षणात्छेदः परिहारो वा एष सूत्रसंक्षेपार्थः। __ अधुना भाष्यविस्तरःएगम्मिवीअसंते, न कप्पती कप्पतीय संतम्मि। उउबद्धे वासासु य, गीयत्थो देसिए चेव॥२६॥ एतेषांबहूनामकृतश्रुतानामेकतो वसतामेकस्मिन्नपिगीतार्थे असत्यविद्यमाने ऋतुबद्धे वर्षासु च वस्तुंन कल्पते। यदि वसतिततः ऋतुबद्धे काले प्रायश्चित्तं मासलघु, वर्षाकाले चतुर्लघुकम् / अथैकोऽप्यस्ति गीतार्थस्तर्हि तस्मिन् ऋतुबद्धेवर्षासुच वस्तुंकल्पते; नतत्र प्रायश्चित्तमिति भावः / किं कारणं गीतार्थेन सह संवसतां न प्रायश्चित्तमत आहगीतार्थोद्देशक एव भवति। इयभत्र भावना-यथा केचित् पुरुषा अटव्यां विप्रनष्टाः केनचिद्देशकेन दृष्टास्ते भणिता माइतो व्रजन्तोऽटवीं प्रविशतअहं भवतो निस्तारयामि / ततस्ते ऋजुकेन पथा नगरं प्रापिताः, एवं गीतार्थोऽपि मोक्षपथविप्रनष्टानां मोक्षपथप्रदर्शक इति तेन सह संवसतां कालद्वयेऽपि नास्ति प्रायश्चित्तमिति। सम्प्रति परस्य प्रश्रावकाशमाशङ्कमान इदमाहकिह पुण होज बहूणं, अगडसुयाणं तु एगतो वासो। होजाहि कक्खडम्मी, खेत्ते अरसादिचइयाणं // 26 / / कथं-केन कारणेन पुनर्बहूनामकृतश्रुतानामेकत्र वासो भवेत्? सूरिराह-कर्कशे क्षेत्रे अरसादित्याजितानां भवेदेकत्रवासः। तथाहि-ते साधवो महति गच्छे वर्तमाना नगरे रूक्षरसविरसादिभिराहारैर्निर्भत्सिताः सम्प्रधारयन्ति, कियचिरं वयं रूक्षाहारैर्योग संस्तरणं कर्तुं शक्नुमस्तस्मात् गच्छामः एवं चिन्तयित्वा गच्छादपक्रमन्ति। एवमेतेषामकृतश्रुतानांबहूनामेकत्र वासः। चझ्याण य सामत्थं, संघयणजुयाणमाउलाणं पि। . उउवासे लहुलहुगा, सुत्तमगीयाणमाणादी॥२६॥ अरसविरसादिभिराहरैस्त्याजितानामाकुलानां संहननयुतानामपि अपिशब्दो भिन्नक्रमत्वादत्र योजितः, एवं सामत्थं सामर्थ्यपर्यालोचनं भवति। यथा कियन्तं कालं वयं रूक्षाहाराः स्थास्यामस्तस्मादपक्रमामो गच्छादिति। एवं चिन्तयत्विा यदि ऋतुबद्धे काले वसन्ति तदा प्रायश्चित्तं मासलघु, वर्षाकाले चतुर्लघुकम् / यतनाऽगीतार्थानां विषयेऽधिकृतं सूत्रं न केवलमधिकृतं प्रायश्चित्तम्। किं त्वाज्ञादयश्च / तानेव मिथ्यात्वादीन् दोषान् द्वारगाथया संजिघृक्षुराहमिच्छत्तसोहिसागा-रियाइगेलण्ण अहव कालगए। अद्धाणओमसंभम भए य रुद्ध य ओसरिए॥२६६|| तेषामगीतार्थानां मतिभेदादिना मिथ्यात्वं स्यात्, तथा शोधिस्तैर्न ज्ञायते, तथाससागारिकायां वसतौये दोषाः परिहास्तेिषामपरिज्ञानम्। अथवा-लानत्वे, अथवा-कालगते अध्वनिमार्गे 'अवमे' अवमौदर्ये अग्न्यादिसम्भ्रमे बोधिकम्लेच्छस्तेनभये अकालवर्षेण रुद्ध तथा अपसृते पथि गच्छतां कस्मिंश्चित् मन्दगतित्वात् स्फिटिते या यतना तां न जानन्ति, एष द्वारगाथा-संक्षेपार्थः / व्य०६ उ०। (अत्र मिथ्यात्वद्वारम् | "मिच्छत्त' शब्देऽस्मिन्नेव भागे 274 पृष्ठे गतम्।) अधुना शोधिद्वारं सागारिकद्वारं चाऽऽहआवण्णमणावण्णे, सोहिं न मुणंति ऊणमहियं वा। जे वसहीए दोसा, परिहरंति न ते अयाणंतो॥२६॥ अकृतश्रुता आलोचिते परेण एष प्रायश्चित्तं प्राप्तो नवेति न जानन्ति, आजनन्तश्चापन्नेऽनापन्ने वा प्रायश्चित्तं-शोधिं नैव ददति / यदि वाऊनामधिकां वा ददति / गतं शोधिद्वारम्। अधुना सागारिकद्वारमाह-ये च वसतौ दोषास्तानजानन्तोऽकृतश्रुतानपरिहरन्ति। सम्प्रतिग्लानत्वादिद्वारचतुष्टयमाहगेलने वोचत्थं, करेंति नयमयविधिं वियाणंति। अद्धाणमडंति सया,जतणा णयणो व ओमे वि॥२६॥ ग्लानत्वेऽज्ञानतो विपर्यासं कुर्वन्ति, अनागाढे आगाढकृतमुभयत्रापि प्रायश्चित्तं चतुर्गुरुकम् / गतं ग्लानद्वारम् / अथकालगत-द्वारमाह-न च मृतस्य विधि बन्धनच्छेदनादिकं परिष्ठापनाविधिं वा न जानन्ति मृतस्योपधिरुपहत इतित्यज्यते। सम्प्रत्यध्वद्वार-माह-अध्वानं पन्थानमजानन्तः सदासर्वकालं रात्रौ दिवसे वाऽटन्ति न च कारणतो रात्रावपि गमने यतनां जानन्तीति भावः। सम्भ्रमादिद्वारकदम्बकमाहअगणादिसंभमेसु य, बोहिगमेच्छादिएसु य भयेसु / रायडुट्ठाईसुय, विराहगा जयणऽयाणंता / / 270 / / अग्न्यादिसम्भ्रमेषु तथा बोधिकाः स्तेना म्लेच्छाः प्रतीता आदिशब्दात्-परचक्रादिपरिग्रहस्तदादिकेषु भयेषु राजद्विष्टादिषु च भयेषु, राजद्विष्ट-राजप्रद्वेष आशिब्दादशिवादिपरिग्रहः, तथा भिक्षाचर्यां गते अकालवर्षतो नदीपूरेणावरुद्ध पथि सह व्रजतां मन्दगतित्वादपसते यतनामजानन्तः संयमात्मविराधका भवन्ति। तथासंभमनदिरुद्धस्स वि, उन्निक्खंतस्स अहव फिडियस्स। ओसरियसहायस्सव, छड्डे उवहिं उवहतो ति॥२७१।। अग्न्यादिसंभ्रमवशादेकाकिनस्तथा नदीनिरुद्धस्य उन्निष्क्रान्तस्य अथवा-मन्दगतित्वात्सार्थस्फिटितस्य-अपसृतसहायस्य च-अपगतसहायस्य उपधिरुपहत इति कृत्वा छर्दयति-त्यजति अब-हुश्रुतः। एएण कारणेणं,अगडसुयाणं बहूण विण कप्पो। बितिपएं य रायदुद्दे, असिवोमगुरूण संदेसे // 272 / / एतेनानन्तरोदितेन कारणेनाकृतश्रुतानां बहूनामप्येकत्र वासो न कल्पते। द्वितीयपदे-अपवादपदे पुनः कल्पते / वेत्याह-राजद्विष्ट अवमौदर्ये गुरूणां संदेशे च / तथाहि- राजप्रद्वेषवशादेकाकी आत्मद्वितीयः आत्मतृतीयो वा भवेद, एवमशिवेऽवमौदर्य च भावनीयम्। तथा गुरोः संदेशवशादागाढकारणे गीतार्थानामभावे अगीतार्था अपिव्रजन्तीति। तह नाणादीणट्ठा, एएसिंगीतों दिज एकेको। असतीएगागी वा,फिडिया वा जावन मिलंति॥२७३||