________________ वसहि 1025 - अमिधानराजेन्द्रः - भाग 6 वसहि - वैकवगडाकमनेकद्वारं संयतीक्षेत्रं प्राप्ताः, ततस्तत्र त्रिकृत्वस्त्रीन् वारान् निरुपहतां वसतिं मार्गयित्वा यदि न प्राप्नुवन्ति ततः प्रतिलोमंप्रतीपक्रमणे गीतार्था यतनया अभिद्वारे संयतीक्षेत्रे वसन्ति / के पुनः प्रतिक्रमन्त इति चेदुच्यते-यानि पूर्वमेकसाहिकादीनि धर्मकथापर्यन्तानि द्वाराण्युक्तानि तेषु प्रथमतो यस्यां धर्मकथा-शब्दः साध्वीभिः श्रूयते तस्यां वसतौ वास्तव्यम्। तत्र चेयं यतनासिंगार वज्जबोले, अह एगो विजपाढणुचं वा। सवादीनिबंधे, कहिए विनते परिकहिंति // 14 // धर्मकथा परिवर्तयन्तः शृङ्गाररसवयं बोलेनच–वृन्दशब्देन परिवर्तयन्ति, यथैकस्य कस्यापि व्यक्तस्वरो नोपलक्ष्यते / अन्येन सह गुणयतस्तस्य न संचरति / तत एकोऽपि विद्यापाठने गुणयति, स्वरवर्जितमिति भावः / तदप्यनुचं नोचैस्तरेण शब्देन। अथ सुस्वरोऽयमिति ज्ञात्वा श्राद्धादय आदिशब्दाद्यथा भद्रकादयो वा निर्बन्धं कुर्युः, यथास्वरेण धर्मे कथितेऽपि मधुरस्वरेण धर्मे उक्तेऽपि प्रभाते संयतीनां न ते साधवः परिकथयन्ति / यथा-अमुकेनेत्थं धर्मः कथित इति। ईदृशवसतेरलाभे उच्चे वा नीचे व स्थातव्यम्। तत्रेयं यतनाकड उच्च चिलिमिली वा, तत्तो थेरा य उच्चनीए वा। पासे ततो न उभयं, मत्तगजयणाउला सद्दा।।१५०।। प्रविशन्तो निर्गच्छन्तो वा यस्मिन्पार्चे परस्परं पश्यन्ति तत्र कटको - वंशादिमयो घनो दीयते / अथ कटको न प्राप्यते तदा चिलिमिली-- वस्त्रमयी दातव्या। स्थविराश्च ततस्तस्मिन्पार्श्वे तिष्ठन्ति, संयतीनां तु क्षुल्लिकाः एव उक्ता उच्चनीचे यतना। अथो-चनीचमपि न लभ्यते ततो यत्र संयतीवसतेःपार्श्वतो वा मार्गतो वा प्रतिश्रयस्तत्र स्थातव्यम्। तत्र च तिष्ठतामियं यतना- 'पासे ततो न उभयं ति कायिक्यादिव्युत्सर्जनार्थ निर्गच्छन्तो यत्र परस्परं पश्येयुस्ततस्तस्यां दिशि नोभयम्-न संज्ञां न वा कायिकी व्युत्सृजन्ति / तादृशस्य स्थण्डिलस्याप्राप्तौ मात्रकेषु यतनया व्युत्सृजन्ति। अथवा-आकुलाः सशब्दाश्च कायिक्यादि पुरं द्रजन्ति। तदभावे सप्रतिमुखद्वारे तिष्ठन्ति। तत्र चेयं यतनापिहदारकरणअभिमुह-चिलिमिलिवेलाससद्दबहु निति। साहीए अन्नदिसिं निंती न य काइयं तत्तो / / 151|| यत्र द्वाराणि परस्परमभिमुखानि तत्रान्यस्यां दिशि पृथक् द्वारं कुर्वन्ति, अथन लभ्यते अन्यस्यां दिशिद्वारं कर्तुं ततोद्वारे चिलिमिली नित्यबद्धा स्थापनीया, कटको वा अपान्तराले दातव्यः / कायिक्याः संज्ञायाश्च वेलां परस्परं स्थापयित्वा असदृशवेलाायां निर्गच्छन्ति, सशब्दाश्च कासितादिशब्द-स्वागम-सूचकंच कुर्वन्तो बहवो निर्यान्ति निर्गच्छन्ति / यत्रैका साहिका तत्रान्यस्यां दिशि यस्य द्वारं तत्र प्रतिश्रये तिष्ठन्ति / यतश्च संयतीनां प्रतिश्रयस्ततः कायिकीभूमिं नव्रजन्ति। एवं संज्ञाभूम्या मपि द्रष्टव्यम्। कियद्वाऽत्र भणिष्यतेजत्थ ऽप्पतरा दोसा, जत्थ य जयणं तरंति काउंजे। तत्थ वसंति जयंता, अणुलोमं किंचि पडिलोमं // 152 / / यत्रोपाश्रये अल्पतराः पूर्वोक्ता दोषा भवन्ति, यत्र च यतनां यथोक्तां कर्तुतरन्ति-शक्नुवन्ति 'जे' इति पादपूरणे,तत्रानुलोमंवा किमप्येकसाहिकादिकं स्थानंप्रतीत्ययथोक्तनीत्या यतमाना वसन्ति नात्र कोऽपि प्रतिनियमः, किंतु-गीतार्थेनाल्पबहुत्ववेदिना भवितव्यमिति भावः। कथं पुनरल्पतरा दोषा भवन्तीत्युच्यतेआयसमणीण नाउं, कडिकप्पट्टी समाणयं वनो। बहुपाडिवेसिजयणं, खमयरगं पारिसोहेइ॥१५३|| आत्मनः श्रमणीनांचस्वभाव दृढधर्मत्वादिकं ज्ञात्वा तथा यति-तव्यम्, 'किडिकप्पट्ट' ति स्थविरश्रमण्यः क्षुल्लकाश्चोभयपार्श्वतः कर्त्तव्याः / वयसा समानां च संयती संदर्शनादौ दूरतो वर्जयेत्। यच गृहं बहुप्रातिवेशिकजनमीदृशे प्रतिश्रये अवस्थानं क्षमतरमतिशयेन युक्तम्। विजने तु विश्वस्ततया बहवो दोषा भवेयुरिति / गतो द्वितीयो भङ्गः। अथ तृतीयभङ्गमाहपउमसर वियरगो वा, वाघातो तम्मि अभिनवगडाए। तम्मि वि सो चेव गमो, नवरं पुण देउले मेलो // 15 // तृतीयभङ्गो नाम-अनेकवगडाकमेकनिष्क्रमणप्रवेशं ग्रामादि, तत्र वा ऽभिनिवगडाके अनेकवगडे एकद्वारे च क्षेत्रे पद्मसरोवा विदरको वा गों वा व्याघातो भवेत्। येनानेके निष्क्रमणप्रवेशा न भवन्ति तस्मिन्नपि स एव गमः--प्रकारः सर्वोऽपि ज्ञातव्यः, नवरं केवलं पुनर्देवकुले मीलको भवति। कथमित्यत आहअंतोवियार असई, अजाण हविज्जों तइयमङ्गम्मि। संकिट्ठगवीयारे, व होज दोसा इमं नायं // 155 / / अनेकवगडाके एकनिष्क्रमणप्रवेशे चग्रामादौ स्थितेषु साधुषु आर्यिकाणामन्तस्तृतीयभङ्गे आयाता संलोकाख्ये विचारभूमेरसत्ता भवेत्, ततो बहिर्निर्गच्छन्तीनां संक्लिष्टविचारभूमेर्दोषा भवेयुः, संक्लिष्टविचारभूमि म एकद्वारतया अन्या संज्ञाभूमिर्न विद्यते, ततः संयता अपि तत्रैवायान्ति / आसन्ने वा परस्परं संज्ञाभूमी, ततश्च निर्गमने प्रवेशे वा देवकुले मेलको भवेत्। इदं चात्र ज्ञातम्। दृष्टान्त उच्यतेवासस्स य आगमणं, महिला कुडणंतमेव स्तही। देउलकोणे व तहा, संपत्ती मेलणं होजा / / 156 / / कस्याश्चिन्महिलायाः कुसुम्भरक्तवस्त्रयुगलाभिवसनायाः प्रावृषि घटं गृहीत्वा जलाहरणार्थं निर्गताया वर्षस्य-वृष्टरागमनम्, ततोऽसौ महिला रक्तार्थिनी रञ्जनं-रक्तं कुसुम्भराग इत्यर्थः तदर्थिनी, मे वर्षोदकेन पतता कुसुम्भरागो मा विलीयतामिति कृत्वा कुटे-घटे अन