________________ वसहि 1023- अभिधानराजेन्द्रः - भाग 6 वसहि भत्तअरोयगमुच्छा७,उम्मत्तोपनजाणईमरणं 10 // 13 // चिन्ता नाम शोकः१, ततो द्रष्टुमिच्छति२,दीर्घ निःश्वसिति 3, तथा ज्वरो ४,दाहः५, भक्तस्यारोचकः 6, मूर्जा 7, उन्मत्तः संजायते८, न जानाति किंचिदपि , मरणमुपजायते 10 // एनामेव गाथां विवृणोतिपढमे सोयति वेगे, दट्टुं तं इच्छती बिइयवेगे। नीससइतइयवेगे, आरुहइ जरो चउत्थम्मि।।१३।। डज्झइ पंचमवेगे, छटे भत्तं न रोयए वेगे। सत्तमगम्मि य मुच्छा, अट्ठमए होइ उम्मत्तो॥१३६।। नवमे न मुणइ किंचि, दसमे पाणेहि मुचइ मणूसो। एएसिंपच्छित्तं, वोच्छामि अहाणुपुटवीए॥१३७॥ प्रथमे शोचति वेगे-हा कथं तया सह संगतिर्भविष्यतीति चिन्तयतीत्यर्थः 1, द्रष्टुं तां पूर्वदृष्टां पुनरपीच्छति द्वितीये वेगे २,निःश्वसिति, तृतीयवेगे दीर्घान्निःश्वासान् मुञ्चति 3, आरोहते ज्वरश्चतुर्थे 4, दह्यते अङ्ग पञ्चमवेगे 5, षष्ठे भक्तं न रोचते वेगे 6, सप्तमे वेगे मूर्छा ७,अष्टमे उन्मत्तो भवति नवमे न जानानि किञ्चि-दपीति निश्चेष्टो भवतीत्यर्थः६,दशमे वेगे प्राणैर्मुच्यते मनुष्यः। एतेषां दशानामपि वेगानां प्रायश्चित्तं यथाऽनुपूर्व्या वक्ष्ये-अभिधास्ये। तदेवाहमासो लहुओ गुरुओ, चउरो मासा हवंति लहु गुरुगा। छम्मासो लहु गुरुगा, छेदो मूलं तह दुगं च / / 138|| प्रथमेलघुको मासः, द्वितीये गुरुकः, तृतीयेचतुर्लघवः, चतुर्थे चतुर्गुरवः, पञ्चमेषड्लघवः,षष्ठे षड्गुरवः सप्तमे छेदः, अष्टमे मूलम्, नवमे अनवस्थाप्यम्, दशमे पाराशिकम्। एकम्मि दोसु तीसुव, ओहावितेसु तत्थ आयरिओ। मूलं अणवट्ठप्पो, पावइ पारंचियं ठाणं / / 139 / / अथ मोहोदयेनैकः अवधावति उत्प्रव्रजतिततः आचार्यो मूलं प्राप्नोति, द्वयोरवधावतोरनवस्थाप्यो भवति। त्रिषु अवधावमानेषु पाराश्चिकं स्थानं प्राप्नोति / गतमुच्चनीचद्वारम्। अथ धर्मकथाद्वारमाहधम्मकहासुणणाए, अणुरागो भिक्खसंपयाणे य। संगारे पडिसुणणा, मोक्खरहे चेव खंडीए॥१४०॥ धर्मकथायाः श्रवणेन संयत्या अनुरागः संजायते, ततः स्निग्धमधुरभैक्षस्य संप्रदानं संयताय कारयति / ततः शृङ्गारस्य-संकेतस्य प्रतिश्रवणं करोति / कः पुनः संकेत इति आह- 'मोक्खरहे चेव' त्ति अमुष्मिन् देशे रथो हिण्डिष्यते, तत्रास्माकं रक्ष्यमाणानां मोक्षो भविष्यति 'खण्डी ए' त्ति खण्डी छिण्डिका तस्या-वा द्वारमुद्धाट रात्रौ भविता दीर्घस्यालाक्षणिकत्वात् खण्डितं श्रामण्यस्यखण्डनाः तयोः प्रतिसेवमानयोर्जायते। एष संग्रहगाथा-समासार्थः / अथैनामेव विवरीषुराहअसुभेण अहाभावे-ण वा वि रत्तिं निसंतपडिसंते। वत्तेइ किन्नरो इव, कोई पुच्छा पभायम्मि // 141 / / कोऽपि साधुरशुभेन वा यथाभावेन वा रात्रौ निशान्ते प्रतिनिशान्ते अन्यत्र भ्रमणादुपरमेत, यद्वा-निशान्तेषु स्वेषु गृहेषु प्रतिश्रान्ते-विश्रान्ते जने किन्नर इव मधुरया गिरा धर्मकथां कांचित्परिवर्तयति तदाकर्ण्य संयत्यः प्रभाते पृच्छन्ति। यथा-- कतरो सो जेण निसिं, कन्ना णे पूरिया व अमयस्स। सो मि अहं अज्जावो, आसि पुरा सुस्सरो किं वा // 152|| कतरोऽसौ येन माधुर्येण निशि रात्रौ कर्णाः 'णे' अस्माकम् अमृतस्य पूरिता इव कृताः। स प्राह-सोऽहमस्मि / आर्याः! पुरा पूर्वमहं सुस्वर आसम, तदपेक्षया किंचिदसौस्वर्यमिदानीं मम विद्यते। यतःरुक्खासणेण भम्गो, कंठो मे उच्चसद्दपडओ य। संथुयकुलम्मिनेह, दावेमि कए पुणो पुच्छा॥१५३॥ रूक्षाशनेन स्नेहरहितभोजनेन उच्चशब्देन पठतश्च मे कण्ठो भग्नः, ततो नेदानी तथा सुस्वर इति, ततस्तदीयसौस्वर्येणातीवा-नुरञ्जिता काऽपि संयती प्राह-संस्तुते भाविते कुले स्नेहं घृतादिकमहं दापयिष्यामि, येन भवतां स्वरपाटवमुपजायते, ततस्तथा कृते सति पुनस्तथाऽपि तं दुर्बलं दृष्ट्वा पृच्छा कृता, यथा-ज्येष्ठार्य! क्रिमेवं दुर्बलो दृश्यसे। एवं च कुर्वतोस्तयोः किंभवति-(बृ०) इति पेज' शब्दे पञ्चमभागे 1000 पृष्ठे प्रतिपादितम् / ) ततश्च स तया दुर्बल इति पृष्टो ब्रूयात्जह जह करेसि नेह, तह तह नेहो में वट्टइ तुमम्मि। तेण नडिओ मि यलियं,जं पुच्छसि दुव्बलतरो त्ति / / 14 / / यथा यथा करोषि संपादयसि स्नेहं तथा तथा 'मे' मम त्वयि स्नेहो वर्द्धते, तेन च स्नेहेननटितो-विडम्बितोऽस्म्यहं यत्त्वं पृच्छसि दुर्बलतर इति तदेतेन हेतुना दुर्बलोऽहम्। एवमुक्तेसा ब्रूयात्अमुगदिणे मोक्खरहो, होहिइ दारं व बोज्झिहिइ रत्तिं / तहयाणे पूरिस्सइ, उभयस्स वि इच्छियं एयं // 146|| अमुष्मिन् दिने रथो-रथयात्रा भविता, तस्यां साधुसाध्वीजनेषु गतेषु अस्माकं रक्ष्यमाणानां मोक्षो भविष्यति। द्वारं वा छिण्डिकया अमुकस्यां रात्रौ वक्ष्यते वहमानकं भविष्यति / तदा ‘णे' आवयोरुभयस्यापि यथेप्सितमेतत्पूरिष्यते। एवं संकेतं प्रतिश्रुत्य प्रतिसेवनां कुर्वतोस्तयोः श्रामण्यस्य खण्डनं भवति। ततश्च भावतोऽहमिति कृत्वा यद्यवधावति। ततःएगम्मि दोसु तीसुं, उवहावंतेसु तत्थ आयरिओ। मूलं अणवठ्ठप्पो, पावइ पारंचियं ठाणं / / 147 / / एकस्मिन्नवधावति मूलम्, द्वयोरनवस्थाप्यम्, त्रिषु पाराञ्चिकमाचार्यः प्राप्नोति। द्वितीयपदे एतेष्वपि स्थानेषु तिष्ठेत्। कथमित्याहअद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण पडिलोमं / गीयत्था जयणाए, वसंतिते अभिदुवाराए।।१४८|| अध्वनो निर्गता आदिशब्दाद्-अशिवादिषु वर्तमाना सहसै--