________________ वसहि 1022 - अमिधानराजेन्द्रः - भाग 6 वसहि स्वभावस्थः प्रेक्षमाणस्तां न पश्यन्ति ततः सान्तरं विण्टिकामन्यद्वा किंश्चिदुच्छीर्षके कृत्वा सकृत्पश्यति भिन्नो मासः तपोगुरुः काललधुः। सान्तरमेव प्रकाशं प्रेक्षते भिन्नो मासो द्वाभ्यामपि तपःकालाभ्यां गुरुकः / एवं त्वग्वर्तनं कुर्वाणस्य भणितम्।। एसेव गुरु निविट्ठो, ठियम्मि मासो लहू उभिक्खुस्स। एकेकठाणवुडं, चउगुरु अंतं च आयरिए॥१२॥ निविष्टो नाम-निषण्णस्तस्यापि प्रेक्षमाणस्य एष एव निरन्तरसान्तरादिकोऽभिलाषो वर्त्तते वक्तव्यः, नवरं प्रायश्चित्तं स एव भिन्नमासो गुरुकश्चतुर्ध्वपि स्थानेषु तपःकालविशेषितस्तथैव कार्यः। स्थितो नाम ऊर्द्धस्थितस्तस्याऽप्येष एवाभिलाषो नवरं प्रायश्चित्तं लघुमासस्तपःकालविशेषितः / एवं भिक्षोः प्रायश्चित्तमुक्तम्। वृषभोपाध्यायाचार्याणां यथाक्रममेकैकस्थानवृद्धिः कर्तव्या, यावदाचार्यस्य चतुर्गुरुकम् / तद्यथा-- वृषभस्य गुरुभिन्नमासादारब्धं गुरुमासे, उपाध्यायस्य मासगुरुकादारब्धं चतुर्लघुके, आचार्यस्य गुरुमासिकादारब्धं चतुर्गुरुके निष्ठामुपयातीति। एष प्रथम आदेशः। अथ द्वितीयमाहदोहि वि रहियसकाम,पकाम दोहिं पिपेक्खई जो उ।। चउरो य अणुग्धाया,दोहि वि चरिमस्स दोहि गुरू // 125 / / 'दोहि वि' ति द्वाभ्यामपि नयनाभ्यां यन्निरीक्षते तद्रहितम, यदेकेन लोचनेन निरीक्षतेतदरहितम्, एतदुभयमपि प्रत्येक द्विधा सकाम, प्रकामं च। तत्र सकाममेकशः, तथा 'दोहिं पि पिक्खई जो उ' त्ति द्वाभ्यामपि रहितारहिताभ्यां सकामप्रकामाभ्यां वा यः प्रेक्षते तस्य चत्वारो मासा अनुद्घाताः,द्वाभ्यामपि तपःकालाभ्यां विशेषिताः प्रायश्चित्तम् / चरमस्य-चतुर्थभङ्गवर्तिनो द्वाभ्यामपितपःकालाभ्यां गुरुकाः कर्तव्याः / एष पुरातनगाथासमासार्थः। अथास्या एव भाष्यकृव्याख्यामाहपायठिओ दोहि नयणेहि,पेच्छई रहिय मोत्त एकेणं। तं पुण सई सकामं, निरंतरं होई तु पकामं // 126|| पादाभ्यांतुस्थितो द्वाभ्यां नयनाभ्यां यत्प्रेक्षतेतदरहितम्, यत्पुनरेकेन नयनेन मुक्त्वापरित्यज्य निरीक्षते तद्रहितम् / यत्पुना रहितमपि सकृदेक्वारं निरीक्षणं तत्सकामम्, निरन्तरमनेकशस्तदेव प्रकामं भवति। अहवण समतलपादो,दोहि वि रहियं तु अग्गपाएहिं। इट्टालादी वि रहियं, एकेकसकामग पकामं / / 127|| 'अहवण' त्ति अथवा-समतलपादो यन्निरीक्षते तदरहितम्, यत्पुनरग्रपादाभ्यामपिस्थितो निरीक्षतेतद्रहितम्। अथवा यदट्टाललेष्टुकाधारूढः पश्यति तदरहितम्, तदपरं रहितं च / एक्कक्कं प्रकाममन्त्यम् / अहवण उच्चावेलं, करवेंटियपीढगादिसुं काउं। ताओ वावि पमोत्तुं, रहिउं वेट्ठो पुण निसिज्जं // 128 // अथवा यदि संयता नीचैः प्रदेशे स्थिताः संयत्यस्तूचैस्ततः शिरः शरीरं वा उच्चयित्वा-उच्चैःकृत्य यन्निरीक्षते, यद्वाकरे-हस्ते विण्टिकायां पीठिकादिषु वा शीर्षं कृत्वा यन्निरीक्षते तद्रहितम्, अथवा-यतय उचैः / स्थिता यतिन्यस्तुनीचैः ततः करादिषु पूर्वन्यस्ते शिरसि अत्युच्चत्वादनवलोकमानो यत्तानि करविण्टकादीनि प्रमुच्य-उत्सार्य पश्यति तद्रहितम्, एतत्त्वग्वर्तनं कुर्वतो रहितमुक्तम्। 'विट्ठो पुण निसिजंति' उपविष्टः पुनर्निषद्यां मुक्त्वा यत् पश्यति तद्रहितम्। तद्विपरीतं त्रिष्वपि स्थानेष्वरहितंद्रष्टव्यम्। दिट्ठीसंबधो वा,दोण्ह वि रहियं तु अनतरगत्ते। अप्पो दोसो रहिए, गुरुकतरो उभयसंबंधे // 126 / / अथवा-द्वयोरपि-संयतसंयत्योः यो दृष्ट दृष्ट्योः सम्बन्धस्तदर-हितम्। यत्पुनरन्यतरगावनिरीक्षणं तद्रहितम्।अत्रचाल्पतरो दोषः, रहिते एकतरदृष्टिसंबन्धः, अरहिते तु उभयदृष्टिसम्बन्धः, तत्र गुरुकतरा दोषाः / अत्र प्रायश्चित्तमाहदोहि वि रहिय अरहिए, एकेक सकामए पकामे अ। गुरुगा दोहि वि लहुगा, लहुगुरुगतवेण दोहिं पि।।१३०॥ द्वाभ्यामपि नयनाभ्यां निरीक्षणमित्यादिकं यदनेकविधमरहितं भणितमः तत्र सकामेचत्वारो गुरवः, द्वाभ्यामपि तपःकालाभ्यां लघवः / तत्रैव प्रकामे चत्वारो गुरवः तपोलघुकाः / रहिते तु सकामे चतुर्गुरुकाः तपसा गुरवः / तत्र प्रकामे चतुर्गुरवो द्वाभ्यामपि गुरवः। यत्तु दृष्टिसंबन्धरूपमरहितमन्यतरगात्रनिरीक्षणरूपं तु रहितं व्याख्यातम्, तत्र चैवं प्रायश्चित्तयोजनम्-रहिते सकामेचतुर्गुरु, उभये लघुकम्, प्रकामे चतुर्गुरु कालगुरुकम् / अरहिते सकामे चतुर्गुरु तपोगुरुकम्, अरहिते प्रकामे चतुर्गुरु उभयगुरुकम्। एकेका उपयाओ, साहीमाईसु ठायमाणाणं। निकारणट्ठियाणं, सव्वत्थ वि अविहिए दोसा॥१३१|| अरहितसकामप्रकामनिरीक्षणानामेकैकस्मात्पदात्साहिकायामादिशब्दात्-सप्रतिमुखद्वारेषु पुरतो वा मार्गतो वा उच्चे वा नीचे वा सर्वत्रापि निष्कारणे तिष्ठतां कारणे वा अविधिना अयतनया स्थितानाममी दोषा भवेयुः। दिवा अवाउडाऽहं, मयलज्जाथद्ध होज खित्तावा। पडिगमणादी व करे, नित्थक्काओव आउभया / / 132 / / काचित्संयती विचारभूमौ प्राप्तासंयतमागच्छन्तं दृष्ट्वा चिन्तयेत्-अहो अहम् ज्येष्ठार्येणापवृता दृष्टा, ततःसा भयेनलज्जयावास्तब्धाक्षिप्तचित्ता वा भवेत्। यद्वा-काश्चिदपावृता दृष्टाः कथममीषां पुरतः स्थास्याम इति कृत्वा प्रतिगमनादीनि कुर्युः। अथवा दृष्टं यद् द्रष्टव्यमिति निःसंधाय 'नित्थक्का' निर्लज्जा भवेयुः, ततश्वात्मसमुत्थाउभयसमुत्थाश्च दोषा भवन्ति। यदि वातासिं कक्खंतरगु-ज्झदेसकुचउदरऊरुमादीए। निग्गहिय इंदियस्स वि, दळु मोहो समुज्जलति॥१३३|| तासां कक्षान्तरगुह्यदेशकुचोदरोरुप्रभृतीन् अवयवान् दृष्ट्वा निगृहीतेन्द्रियस्यापि मोहः, समुज्ज्वलति किं पुनरितरस्येति। ततश्चामी दश कामावस्था उत्पद्यन्ते। चिंतेइ १दतुमिच्छइ२, दीहंणीससइ३तह जरो दाहो /